By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः
हिमाचलवार्ता

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

डॉ.अमनदीप शर्मा
Last updated: 2026/02/25 at 9:07 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः
हिमसंस्कृतवार्ता:- काङ्गड़ा। ‘हिमाचलप्रदेश- राज्य- वॉलीबॉलसङ्घेन’ काङ्गड़ा- जनपदस्य शाहपुर-क्रीडाङ्गणे ‘प्रथम- यूथ- वॉलीबॉल- चैम्पियनशिप’ तथा ‘मिनी हॉफ मैराथन’ इत्यस्य भव्यम् आयोजनं कृतम्। अस्मिन् कार्यक्रमे यूनाम् उत्साहः, अनुशासनं, क्रीडाभावना च दर्शनीया आसीत्। कार्यक्रमस्य मुख्यातिथिरूपेण हमीरपुर-लोकसभाक्षेत्रस्य सासंदः पूर्वकेन्द्रीयमन्त्री च अनुरागसिंहठाकुरः उपस्थितः आसीत्। विशिष्टातिथिरूपेण वॉलीबॉलसङ्घस्य राष्ट्रियाध्यक्षः पूर्वमन्त्री च वीरेंद्रकंवरः अपि स्वकीयां गरिमामयीं उपस्थितिं दत्तवान्। स्वकीये सम्बोधने अनुरागसिंहठाकुरः युनः ‘मादकद्रव्यसेवनम्’ (नशा) सदृशात् सामाजिक-दोषतः दूरे स्थातुं आह्वानं कुर्वन् अवदत् यत्- “क्रीडाः यूनां व्यक्तित्व- निर्माणस्य सशक्तं माध्यमं वर्तन्ते।”
सः अवदत् यत् क्रीडाङ्गणे स्वेदं वहन्तः युनः एव प्रदेशस्य देशस्य च भविष्यं प्रकाशयन्ति। सः नूतनसन्ततिं क्रीडासु सक्रियां सहभागितां सुनिश्चितं कर्तुं तथा हिमाचलप्रदेशं क्रीडाक्षेत्रे अग्रणी-राज्यं निर्मातुं सङ्कल्पं ग्रहीतुं प्रेरितवान्। अनुरागसिंहठाकुरः उक्तवान् यत् २०१४ तमे वर्षे यदा प्रधानमन्त्रिणा नरेन्द्रमोदी महोदेयेन दायित्वं स्वीकृतं, तदा देशस्य क्रीडा-आयव्ययकम् (Sports Budget) ८०० कोटिरूप्यकाणि आसीत्, परन्तु अद्य प्रधानमन्त्रिणः नेतृत्त्वे देशस्य क्रीडा- आयव्ययकम् ३७०० कोटिरूप्यकाणि वर्तते, यत् ‘यूपीए’ सर्वकारस्य कालात् प्रायः पञ्चगुणिताधिकं वर्तते। प्रधानमन्त्रिणः नेतृत्त्वे केन्द्रसर्वकारः देशे ‘क्रीडाक्रान्तिम्’ आनेतुं वचनबद्धः अस्ति। प्रधानमन्त्री अन्ताराष्ट्रीय- प्रतियोगितासु पदक-जये अथवा पराजये अपि उभयत्र क्रीडकैः सह मिलति, तेषाम् उत्साहवर्धनं च करोति। अद्य यदा देशः २०३६-ओलम्पिक आयोजनाय सज्जः अस्ति, तदा अस्माकं प्रदेशसर्वकारेणापि अस्यां दिशि अग्रे गन्तव्यम्। प्रदेशे क्रीडा-आधारभूतसंरचनायाः सुदृढीकरणेन सह प्रशिक्षकाणां (Coaches) नियुक्तिः अतीव आवश्यकी अस्ति। ‘हिमाचलप्रदेश- ओलम्पिक- सङ्घः’ अपि प्रशिक्षकाणां नियुक्तौ गम्भीरतया कार्यं करोति। अनुरागसिंहठाकुरः अवदत् यत् राज्यस्तरीयात् स्पर्धात: क्रीडकाः चयनस्य परवर्तिषु सोपानेषु अवसरं प्राप्नुवन्ति। अस्माकं लक्ष्यं वर्तते यत् क्रीडकेभ्यः श्रेष्ठाः सुविधाः उपलब्धाः भवेयुः, निवेशः वर्धेत्, क्रीडकाः च आर्थिकरूपेण लाभान्विताः भवेयुः।
पूर्वमन्त्री वीरेंद्रकंवरः स्वकीये सम्बोधने अवदत् यत् क्रीडा केवलं प्रतियोगिता नास्ति, अपि तु चरित्रनिर्माणस्य आधारः वर्तते। ग्रामीण- नागरिकक्षेत्रेषु एतादृश्यः प्रतियोगिताः युवानं सकारात्मकं दिशं यच्छन्ति। सः आयोजनसमित्याः प्रशंसां कृतवान्। ‘मिनी हॉफ मैराथन’ मध्ये बहुसङ्ख्यकाः युवानः भागं गृहीतवन्तः। अस्मिन् अवसरे जिलाध्यक्षः कमलशर्मा सर्वेषाम् आभारं प्रकटितवान्। कार्यक्रमे विधायकः रणबीरसिंहनिक्का, पूर्वमन्त्री सरवीण चौधरी च सहिताः बहवः अन्ये गणमान्याः अतिथयः अपि उपस्थिताः आसन्।

You Might Also Like

लोकतन्त्रस्य मर्यादा, विरोधिनः सम्मानं च : अटल-इन्दिरा-युगात् अद्यतन-राजनीतिं यावत्

हिमाचलप्रदेशस्य संस्कृतभाषासंरक्षणसंवर्धनप्रवर्तकस्य पूर्वमुख्यमंत्रिण: श्रीजयरामस्य यशोगाथा

सेवाभारती-बिलासपुर-पक्षतः AIIMS-बिलासपुर-चिकित्सालयाय पञ्च चक्रासनयन्त्राणि (व्हीलचेयर) समर्पितानि

द्विगुणादपि अधिकानि संवृत्तानि पीजी-चिकित्सा-आसनानि, षट्सु सर्वकारीय-आयुर्विज्ञान-महाविद्यालयेषु ३२० आसनानां वृद्धिः, अधुना ५९७ आसनानि

चम्बा-मण्डलस्य बहुचर्चित-गोवधप्रकरणे चत्वारः अभियुक्ताः निगृहीताः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:
Next Article हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?