युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः
हिमसंस्कृतवार्ता:- काङ्गड़ा। ‘हिमाचलप्रदेश- राज्य- वॉलीबॉलसङ्घेन’ काङ्गड़ा- जनपदस्य शाहपुर-क्रीडाङ्गणे ‘प्रथम- यूथ- वॉलीबॉल- चैम्पियनशिप’ तथा ‘मिनी हॉफ मैराथन’ इत्यस्य भव्यम् आयोजनं कृतम्। अस्मिन् कार्यक्रमे यूनाम् उत्साहः, अनुशासनं, क्रीडाभावना च दर्शनीया आसीत्। कार्यक्रमस्य मुख्यातिथिरूपेण हमीरपुर-लोकसभाक्षेत्रस्य सासंदः पूर्वकेन्द्रीयमन्त्री च अनुरागसिंहठाकुरः उपस्थितः आसीत्। विशिष्टातिथिरूपेण वॉलीबॉलसङ्घस्य राष्ट्रियाध्यक्षः पूर्वमन्त्री च वीरेंद्रकंवरः अपि स्वकीयां गरिमामयीं उपस्थितिं दत्तवान्। स्वकीये सम्बोधने अनुरागसिंहठाकुरः युनः ‘मादकद्रव्यसेवनम्’ (नशा) सदृशात् सामाजिक-दोषतः दूरे स्थातुं आह्वानं कुर्वन् अवदत् यत्- “क्रीडाः यूनां व्यक्तित्व- निर्माणस्य सशक्तं माध्यमं वर्तन्ते।”
सः अवदत् यत् क्रीडाङ्गणे स्वेदं वहन्तः युनः एव प्रदेशस्य देशस्य च भविष्यं प्रकाशयन्ति। सः नूतनसन्ततिं क्रीडासु सक्रियां सहभागितां सुनिश्चितं कर्तुं तथा हिमाचलप्रदेशं क्रीडाक्षेत्रे अग्रणी-राज्यं निर्मातुं सङ्कल्पं ग्रहीतुं प्रेरितवान्। अनुरागसिंहठाकुरः उक्तवान् यत् २०१४ तमे वर्षे यदा प्रधानमन्त्रिणा नरेन्द्रमोदी महोदेयेन दायित्वं स्वीकृतं, तदा देशस्य क्रीडा-आयव्ययकम् (Sports Budget) ८०० कोटिरूप्यकाणि आसीत्, परन्तु अद्य प्रधानमन्त्रिणः नेतृत्त्वे देशस्य क्रीडा- आयव्ययकम् ३७०० कोटिरूप्यकाणि वर्तते, यत् ‘यूपीए’ सर्वकारस्य कालात् प्रायः पञ्चगुणिताधिकं वर्तते। प्रधानमन्त्रिणः नेतृत्त्वे केन्द्रसर्वकारः देशे ‘क्रीडाक्रान्तिम्’ आनेतुं वचनबद्धः अस्ति। प्रधानमन्त्री अन्ताराष्ट्रीय- प्रतियोगितासु पदक-जये अथवा पराजये अपि उभयत्र क्रीडकैः सह मिलति, तेषाम् उत्साहवर्धनं च करोति। अद्य यदा देशः २०३६-ओलम्पिक आयोजनाय सज्जः अस्ति, तदा अस्माकं प्रदेशसर्वकारेणापि अस्यां दिशि अग्रे गन्तव्यम्। प्रदेशे क्रीडा-आधारभूतसंरचनायाः सुदृढीकरणेन सह प्रशिक्षकाणां (Coaches) नियुक्तिः अतीव आवश्यकी अस्ति। ‘हिमाचलप्रदेश- ओलम्पिक- सङ्घः’ अपि प्रशिक्षकाणां नियुक्तौ गम्भीरतया कार्यं करोति। अनुरागसिंहठाकुरः अवदत् यत् राज्यस्तरीयात् स्पर्धात: क्रीडकाः चयनस्य परवर्तिषु सोपानेषु अवसरं प्राप्नुवन्ति। अस्माकं लक्ष्यं वर्तते यत् क्रीडकेभ्यः श्रेष्ठाः सुविधाः उपलब्धाः भवेयुः, निवेशः वर्धेत्, क्रीडकाः च आर्थिकरूपेण लाभान्विताः भवेयुः।
पूर्वमन्त्री वीरेंद्रकंवरः स्वकीये सम्बोधने अवदत् यत् क्रीडा केवलं प्रतियोगिता नास्ति, अपि तु चरित्रनिर्माणस्य आधारः वर्तते। ग्रामीण- नागरिकक्षेत्रेषु एतादृश्यः प्रतियोगिताः युवानं सकारात्मकं दिशं यच्छन्ति। सः आयोजनसमित्याः प्रशंसां कृतवान्। ‘मिनी हॉफ मैराथन’ मध्ये बहुसङ्ख्यकाः युवानः भागं गृहीतवन्तः। अस्मिन् अवसरे जिलाध्यक्षः कमलशर्मा सर्वेषाम् आभारं प्रकटितवान्। कार्यक्रमे विधायकः रणबीरसिंहनिक्का, पूर्वमन्त्री सरवीण चौधरी च सहिताः बहवः अन्ये गणमान्याः अतिथयः अपि उपस्थिताः आसन्।
युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
