अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:
हिमसंस्कृतवार्ता:- शिमला। मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: अवदत् यत् जलवायुपरिवर्तनं एका गम्भीरा वैश्विकी समस्यारूपेण उद्भवति। अस्य परिणामस्वरुपं राज्ये अप्रत्याशित- मेघविस्फोटः, आकस्मिक- जलोत्प्लवः, भूस्खलनं, हिमनदानां सङ्कोचः सदृशाः घटनाः सम्मुखीभूताः। सः उक्तवान् यत् एताः घटनाः ‘प्राकृतिकसचेतना’ मत्वा तत्कालं परिष्कारात्मक- पदानि स्थापयितुं आवश्यकता अस्ति। २०२३ तमस्य वर्षस्य आपद: उल्लेखं कुर्वन् सः अवदत् यत् अस्यां प्राकृतिक-आपदि राज्ये २३,०००तः अधिकाणि गृहाणि क्षतिग्रस्तानि अभवन्। मुख्यमन्त्री सुक्खुमहोदयः मङ्गलवासरे ‘साइंटिफिक असेसमेंट ऑफ टैकलिंग नॉन कार्बन- डाईऑक्साइड एमीशनसः पाथवेज फॉर हिमाचलप्रदेश’ शीर्षकयुक्तां प्रतिवेदनम् विमुक्तवान्। अस्मिन् अवसरे सः अवदत् यत् हिमाचलप्रदेशः केवलम् एकः भौगोलिक-भूभागः नास्ति, अपि तु हिमालयस्य आत्मा वर्तते। हिमनदाः, नद्यः, वनानि, पर्वताः च अस्य परिचयाः सन्ति, येषु लक्षशः जनानां जीवनं निर्भरं वर्तते। हिमालयस्य अस्थिरतायाः दुष्परिणामाः न केवलं राज्ये, अपि तु सम्पूर्णे देशे भविष्यन्ति। सः अवदत् यत् राज्यं स्वकीयेभ्यः वैधानिक- अधिकारिभ्यः सङ्घर्षं करोति। यावत् पार्श्ववर्ति- राज्यानि ‘भाखड़ा-ब्यास-प्रबन्धन-बोर्ड’ (BBMB) इत्यस्य अवशिष्ट-धनस्य (Arrears) निस्ताराय दृढं आश्वासनं न यच्छन्ति, तावत् ‘किशाऊ’ तथा ‘रेणुका’ बन्धसदृशाः आगामी-परियोजनाः अग्रे न नेष्यन्ते। अस्मिन् विषये काश्चन सकारात्मक- प्रतिक्रियाः प्राप्ताः सन्ति।
औषधीयपादपानां कृषिसंरक्षणाय द्वौ ‘एमओयू’ इति सञ्जातौ
अस्मिन् अवसरे ‘मैसर्स डाबर इण्डिया लिमिटेड’ तथा ‘मैसर्स करण सिंह वैद्य सोलन’ इत्येताभ्यां सह राज्ये औषधीयपादपानां कृषि- संरक्षण- प्रोत्साहनाय द्वे सहमतिपत्रे हस्ताक्षरिते। प्रथम- सहमत्यानुसारं डाबर इण्डिया प्रतिवर्षं कृषकेभ्यः १२ लक्षं गुणवत्तापूर्ण-पादपान् (दशवर्षेषु १.२० कोटि- पादपान्) प्रदास्यति। निम्न- मध्य- पर्वतीयक्षेत्रेभ्यः आमलकी (आंवला), हरीतिकी (हरड़), विभीतकः (बहेड़ा), काकड़ासिंगी, लोधर च सदृशाः प्रजातयः ऊना, बिलासपुरं, हमीरपुरं, काङ्गड़ा, सिरमौर:, निम्न-शिमलाक्षेत्रेषु च वितरिष्यन्ते।
मध्य-उच्च-पर्वतीय-क्षेत्रेषु वितरणम्
मध्य-उच्च-पर्वतीय-क्षेत्रेभ्यः जटामांसी, कुटकी, सुगन्धबाला, पद्म-काष्ठम्, पुष्करमूलम् च कुल्लू, चम्बा, मण्डी, उपरि-शिमला, किन्नौर जनपदेषु वितरिष्यन्ते। अतीस, विष (वत्सनाभः) सदृशाः अल्पाइन- प्रजातयः किन्नौर- लाहौल- स्पीति- चम्बाक्षेत्राणां कृषकेभ्यः उपलब्धाः भविष्यन्ति। द्वितीयः सहमति: करणसिंहवैद्यसोलनम् इत्यनेन सह पञ्चवर्षाणां कृते सञ्जातः, यस्य अन्तर्गतं सोलनजनपदे हरिद्रा (हल्दी), अश्वगन्धा, शतावरी, तुलसी, चिरायता, हिमालयन जेंटियन इत्यादीनां कृषये ६ मुख्य-प्रजातयः चिताः। अस्मिन् १०८ बीघाभूमौ २२५ महिलाकृषकाः सम्मिलिताः भविष्यन्ति।
हिमाचलम् प्रथमं ‘हरित-ऊर्जा-राज्यं’ निर्मातुं सर्वकारः कटिबद्धः- मुख्यमन्त्री
मुख्यमन्त्री अवदत् यत् वर्तमान-राज्यसर्वकारः हिमाचलप्रदेशं देशस्य प्रथमं ‘हरित-ऊर्जा-राज्यं’ निर्मातुं कटिबद्धः अस्ति। पर्यावरण-संरक्षणाय ‘इलेक्ट्रिक- मोबिलिटी’ प्रोत्साह्यते। अस्मिन् वर्षे अप्रैलमासं यावत् एचआरटीसी विभागस्य समूहे ३०० नूतनानि ‘ई-बस’ यानानि सम्मिलितानि भविष्यन्ति। ३८,००० ई-टैक्सी-यानानां कृते ४० प्रतिशतानुदानम् प्रदीयते।
अस्मिन् अवसरे विधायकः सुरेश कुमारः, हरीश जनारथा, सचिवः (पर्यावरणम्) एस.के. सिङ्गला, डॉ. डर्वुड जैल्के, मार्टिना ओटो, जेरिन ओशो, डी. सी. राणा च उपस्थिताः आसन्।
अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
