टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा
हिमसंस्कृतवार्ता:- डॉ. अमित शर्मामण्डीनगरस्य 500 वर्षाणाम् ऐतिहासिक धरोहरस्य उपलक्ष्ये सरदारपटेलविश्वविद्यालयस्य मण्डी इत्यस्य इतिहासविभागस्य, भारतीयज्ञानपरम्पराप्रकोष्ठद्वारा च ‘टांकरी लिपि: पुनरुत्थान एवं संरक्षण’ इति विषये एकदिवसीया कार्यशाला मांडवपरिसरे अयोजिता।कार्यक्रमस्य मुख्यातिथि: विश्वविद्यालयस्य कुलगुरु: आचार्य: ललितकुमार अवस्थी आसीत्। अध्यक्षत्वेन प्रो. पुष्पराजकपूर: सेवानिवृत्त: आचार्य:, वल्लभमहाविद्यालय: उपस्थित: आसीत्। मुख्यवक्तारूपेण हिमाचल- कला- संस्कृति- भाषा- अकादम्या: सेवानिवृत: सचिव: डॉ. कर्मसिंह: उपस्थित: आसीत्। विशिष्टातिथिषु इंटेक मण्डी चैप्टर इत्यस्य सह-संयोजक: अनिलशर्मा, अधिष्ठाता छात्रकल्याणम् आचार्य: राजेशकुमारशर्मा सम्मिलिता: आसन्। कार्यक्रमस्य संयोजनं इतिहासविभागाध्यक्ष: डॉ. राकेशकुमारशर्मा अकरोत्। सः कार्यशालाया: उद्देश्यं प्रकटितवान्। मञ्चसञ्चालनं मनीषा अकरोत्। कार्यक्रमस्य शुभारंभ: दीपप्रज्ज्वलनेन सरस्वती वंदनया च अभवत्। राष्ट्रगीतानन्तरं डॉ. रामपाल: औपचारिकस्वागतम् अतिथीनां परिचय: च कारितवान्। स्वोद्बोधने मुख्यातिथि: आचार्य: ललितकुमार अवस्थीवर्य: आभासीमाध्यमेन उक्तवान यत् टांकरीलिपि: लेखनपद्धतिरेव न अपि तु हिमालयी- सांस्कृतिकचेतनाया: ऐतिहासिक- अभिव्यक्तिरस्ति। सः अस्या: संरक्षणं विश्वविद्यालयस्य बौद्धिकं दायित्वम् इति कथितवान्। मुख्यवक्ता डॉ. कर्मसिंहवर्य: टांकरीलिपे: ऐतिहासिकविकासस्य, शिलालेखेषु, पांडुलिपिसु, प्रशासनिक अभिलेखेषु च एतस्या: प्रयोगस्य विस्तृतं विवेचनम् अकरोत्। सः एतां पहाड़ी राज्यानां राजकीयं सांस्कृतिकं च अभिधानेन संयुक्ता लिपि: कठितवान्। महोदयेन शोधार्थिनः अस्या: व्यवस्थितं अभिलेखीकरणस्य, डिजिटलीकरणस्य च आवश्यकता उक्ता। विशिष्टातिथि: आचार्य: राजेशकुमारशर्मा भारतीय- ज्ञान- परम्पराया: संदर्भे टांकरीलिपे: महत्त्वं रेखांकयन् उक्तवान् यत् स्थानीयेतिहासस्य पुनर्लेखने अस्या: लिपे अध्ययनम् अत्यंतसहायकं भविष्यति। पुष्पराजकपूरवर्य: अध्यक्षीयोद्बोधने टांकरीलिपिं हिमालयी- अंचलस्य सांस्कृतिक- अस्मिताया:, ऐतिहासिक- स्रोतसंपदायाश्च मूलाधारं कथितम्। तेनोक्तं यत् इयं लिपि: अवश्यमेव संरक्षणीया अन्यथा क्षेत्रीय-इतिहासस्य महत्वपूर्ण: अध्याय: विलुप्त: भवितुं शक्नोति। अस्मिन् संदर्भे तेन प्रतिवर्षं छात्रवृत्तिद्वयं, प्रत्येकं एक सहस्ररूप्यकाणि प्रतिमासं प्रदातुं घोषणा कृता। प्रो. कपूर: स्पष्टम् अकरोत् यत् एते छात्रवृत्ती विशेषरूपेण तेभ्य: विद्यार्थिभ्य:, शोधार्थिभ्यश्च भविष्यत: ये टांकरीलिपे: अध्ययनं, पांडुलिपीनां पाठ-परिशोधनम्, अभिलेखानाम् अनुवादं, स्थानीयेतिहासस्य पुनर्लेखने च सक्रियरूपेण संलग्ना: भविष्यन्ति। तेन अयमपि परामर्श: दत्त यत् इयं चयनप्रक्रिया इतिहासविभागद्वारा निर्धारित- मानकानां यथा शोधप्रस्ताव:, लिपि-पठनदक्षता, क्षेत्रीय- अभिलेखीयकार्याणाम् आधारेण भवेत्। येन योग्या: प्रतिबद्धविद्यार्थिनश्च प्रोत्साहिता: भवेयु:। डॉ. राकेशकुमारशर्मा अवदत् यत् डॉ. यज्ञदत्तशर्माद्वारा प्रतिदिनं टांकरीलिपे: प्रशिक्षणं भविष्यति, इतिहासविभागस्य शोधार्थिभ्य:, विद्यार्थिभ्यश्च प्राचीनतम- टांकरीलिपे: अभिलेखानां प्रारूपाणाञ्च ज्ञानं दास्यति। टांकरी लिपे: विशेषज्ञा: प्रबुद्धजना:, मंडीक्षेत्रस्य विद्वान्सः डॉ. दलीप मोदगिल:, विनोद बहल:, ओ. सी. मल्होत्रा, डॉ. मंजू, अनिल: विभागाध्यक्ष: लोकप्रशाशनं डॉ. रामपाल:, सहायकाचार्य: राजेशशर्मा, विकेश राणा, कृष्णचंद:, इतिहास सोसाइटी- अध्यक्ष सानू कुमार:, सचिव: लखविंद्र:, दीपकदीपांशुश्च उपस्थित: आसन्।
टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
