Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्रीनरेन्द्रमोदी नीत्यायोग-भवने प्रमुखैः अर्थशास्त्रिभिः सह उवेशनम् अकरोत्।
- नवदेहल्यां बंगाल की खाड़ी इति द्वितीयं बहु-क्षेत्रीय-प्रौद्योगिक्यार्थिक-सहयोगाय प्रतिबद्धानां विदेशमन्त्रिणां उपवेशनं गुरुवासरे समारब्धम् ।
- निर्वानचनायोगस्य षड्भिस्सदस्यैः झारखण्डराज्ये विधानसभा निर्वाचनस्य सन्नद्धता परीक्षिता।
- सर्वोच्च न्यायालयेन नीट- स्नातक- परीक्षा- प्रकरणे न्यायिक-श्रवण-प्रक्रिया अस्य मासस्य अष्टादशदिनाङ्क यावत् स्थगिता।
- भारतीय ऋतुविज्ञानविभागेन देशस्य विभिन्नभागेषु वृष्टेः सम्भावना अनुमानिता उत्तरप्रदेशे च जलाप्लावन- प्रभावितानां क्षेत्राणाम् उद्धरणाय सेना समाहूता ।
हिमाचलवार्ता:
- हिमाचलस्य प्रसिद्ध उद्योगपतिः सामाजसेवी डॉ. महिन्द्रशर्मा त्रिकूटपर्वतेषु स्थितं श्रीमातावैष्णोदेवी इत्यस्या: कन्दरामन्दिरम् आगतानां भक्तानां कृते आगामिषड्वर्षेभ्यः प्रत्येकस्मिन् गुरुवासरे निःशुल्कं भोजनं कारयितुं 1 कोटि 1 लक्षरूप्यकाणां राशिं दानं कृतवान्। डॉ. महिन्द्रशर्मा गुरुवासरे कटड़ायां पंजाबनेशनलबैंक- इत्यस्य ड्राफ्टरूपेण 1 कोटि 1 लक्षरूप्यकाणां राशि: श्रीमाता- वैष्णोदेवीतीर्थबोर्ड-इत्यस्य मुख्यकार्यकारी- अधिकारिणे अंशुलगर्गाय समर्पितवान्।
- खाद्यप्रसंस्करणक्षेत्रे नवीनकार्यक्रमानाम् आरम्भे कार्यान्वयने च हिमाचलप्रदेशः सर्वोत्तमराज्यपुरस्कारः-२०२४ इति पुरस्कारं प्राप्तवान् । एग्रीकल्चर टुडे ग्रुप् इत्यनेन एतत् आयोजनं कृतम्। केन्द्रीयपथपरिवहन तथा राजमार्गमन्त्री नितिनगडकरी पुरस्कारं प्रदत्तवान्।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् आगामिसमये ऊनामण्डले सौर ऊर्जाद्वारा ४७ मेगावाट् विद्युतोत्पादनं भविष्यति। एतत् उत्पादनं राज्यस्य सर्वेभ्यः मण्डलेभ्यः अधिकं भविष्यति। मुख्यमन्त्री ३१ कोटिरूप्यकाणां व्ययेन ऊनामण्डस्य गगरेटम् इत्यत्र निर्मितस्य ५ मेगावाट् क्षमतायुक्तस्य भञ्जालसौरविद्युत्परियोजनायाः आधारशिलाम् अस्थापयत्।
- मण्डीविधानसभाविधायकः अनिलशर्मा भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः, केन्द्रीयस्वास्थ्यमन्त्री च जगतप्रकाशनड्डा इत्यनेन सह नवदेहल्यां दिल्लीनिवासस्थाने मिलित्वा केन्द्रीयमन्त्रीत्वे अभिनन्दनं कृतवान्। सदरस्य विधायकः अनिलशर्मा अपि हिमाचलप्रदेशे स्वास्थ्यसेवासम्बद्धे केन्द्रात् अधिकतमसहायतां स्वास्थ्यमन्त्रिणा अनुरोधं कृतवान्।