By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National & International News  PM Modi : प्रधानमन्त्रीनरेन्द्रमोदी नीत्यायोग-भवने प्रमुखैः अर्थशास्त्रिभिः सह उवेशनम् अकरोत्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > National & International News  PM Modi : प्रधानमन्त्रीनरेन्द्रमोदी नीत्यायोग-भवने प्रमुखैः अर्थशास्त्रिभिः सह उवेशनम् अकरोत्
अन्ताराष्ट्रीयवार्ताःराष्ट्रीयवार्ताः

National & International News  PM Modi : प्रधानमन्त्रीनरेन्द्रमोदी नीत्यायोग-भवने प्रमुखैः अर्थशास्त्रिभिः सह उवेशनम् अकरोत्

डॉ मनोज शैल
Last updated: 2024/07/11 at 10:53 PM
डॉ मनोज शैल
Share
5 Min Read
SHARE

National & International News

PM Modi : प्रधानमन्त्रीनरेन्द्रमोदी नीत्यायोग-भवने प्रमुखैः अर्थशास्त्रिभिः सह उवेशनम् अकरोत्

हिमसंस्कृतवार्ता: – नवदेहली। 

प्रधानमन्त्रीनरेन्द्रमोदी केन्द्रीय-आय-व्यय-सङ्कल्पपत्रस्य प्रस्तुतेः प्राक् नीत्यायोग-भवने प्रमुखैः अर्थशास्त्रिभिः सह उवेशनम् अकरोत् । उपवेशनेऽस्मिन् वित्तमन्त्री निर्मलासीतारामनः नीत्यायोगस्य उपाध्यक्षा सुमनबेरी प्रधानमन्त्रिणः प्रमुखसचिवः पी के मिश्रः शीर्षाः अर्थशास्त्रिणः, अर्थशास्त्रविशेषज्ञाश्व समुपविष्टाः आसन् । संसदः आय-व्यय-प्रतिवेदनात्मकं सत्रं जुलाईमासस्य द्वाविंशति-दिनाङ्कतः समारभते अग्रिमे च दिवसे वित्तमन्त्री निर्मलासीतारामनः लोकसभायां सत्रस्यास्य केन्द्रीय-बजटाख्यम् आय-व्यय-सङ्कल्प-पत्रं प्रस्तोष्यति । ध्यातव्यम् अस्ति यत् नरेन्द्रमोदिनः तृतीयकार्यकालस्य इदं प्रथमं सङ्कल्प-पत्रं प्रस्तोष्यते ।

 

नवदेहल्यां बंगाल-की-खाड़ी इति द्वितीयं बहु-क्षेत्रीय-प्रौद्योगिक्यार्थिक-सहयोगाय प्रतिबद्धानां विदेशमन्त्रिणां उपवेशनं गुरुवासरे  समारब्धम् 

हिमसंस्कृतवार्ता: – नवदेहली। 

विदेश-मन्त्री डॉ. एस् जयशंकरः अद्य प्रोक्तवान् यत् भारताय, बिम्सटेक् तस्य प्रतिवेशिप्रथमः’, ‘एक्ट ईस्ट’, ‘सागर’ दृष्टिकोणः इत्येतेषां प्रतिनिधित्वं करोति। डॉ. जयशंकरः नवदिल्ल्यां बंगाल की खाड़ी इति विषये आयोजिते द्वितीये सम्मेलने बहु-क्षेत्रीय-प्रौद्योगिक्यार्थिक-सहयोगाय प्रतिबद्धानां विदेशमन्त्रिणां उपवेशने सम्बोधयन् आसीत्। सः प्रोक्तवानम् यत् प्रत्येकं प्रयासः बंगाल-खाड़ी इत्यस्मिन् विषये विशिष्ट-ध्यानं प्रदातुं क्रियते यत्र सहयोगात्मक-क्षमता चिरकालादप्राप्या वर्तते। डॉ. जयशंकरः पुनः अकथयत् यत् विदेश-मंत्रिणां संदेशः स्पष्टः

भवितव्यः यत् ते सर्वे बंगाल-खाड़ी क्षेत्रस्य देशानां मध्ये नवोर्जायै, नवसंसाधनाय, सहयोगाय च प्रतिबद्धताम् आनेतुं प्रतिबद्धाः सन्ति । सः प्रोक्तवान् यत् क्षमता-निर्माणार्थिक-सहयोग- सदृशानि दीर्घकालिक-लक्ष्याणि सन्ति यैः सबलं प्रतिपादितं यत् बिम्सटेक्-सदृशेन पूरकानुकूल- समूहेन निश्चितरूपेण उच्चाकांक्षाः स्वीकरणीयाः। डॉ. जयशंकरः इदमपि अकथयत् यत् रिट्रीट इत्यस्य प्रथमे भागे सम्पर्क, संस्थानिर्माण, व्यापार-व्यवसायांतरिक्ष-सहयोग, स्वास्थ्याधारभूतसंरचना, क्षमतानिर्माण चेत्यादिषु विषयेषु चर्चा करिष्यते ।

 

ECI : निर्वानचनायोगस्य षड्भिस्सदस्यैः झारखण्डराज्ये विधानसभा निर्वाचनस्य सन्नद्धता परीक्षिता

हिमसंस्कृतवार्ता: – नवदेहली।

वरिष्ठयोः उपनिर्वाचनायुक्तयोः नितेशव्यासस्य धर्मेन्द्रशर्मणश्च अध्यक्षतायां निर्वानचनायोगस्य षड्भिस्सदस्यैः झारखण्डराज्ये विधानसभा निर्वाचनस्य सन्नद्धता परीक्षिता। षट्सदस्यानां दलेन झारखण्डस्य सर्वैः जनपद-निर्वाचनाधिकारिभिस्सह उपवेशनम् आचरितम् । इतः प्राक् निर्वाचनायोगेन झारखण्डस्य मुख्यनिर्वाचनाधिकारिणा सह अन्यैः निर्वाचनाधिकारिभिस्सममपि उपवेशनं समाचरितमासीत् ।

 

सर्वोच्च न्यायालयेन नीट-स्नातक-परीक्षा-प्रकरणे न्यायिक-श्रवण-प्रक्रिया अस्य मासस्य अष्टादशदिनाङ्कं यावत् स्थगिता

हिमसंस्कृतवार्ता: – नवदेहली।

सर्वोच्च न्यायालयेन नीट-स्नातक-परीक्षा-प्रकरणे न्यायिक-श्रवण-प्रक्रिया अस्य मासस्य अष्टादशदिनाङ्के यावत् स्थगिता । भारतस्य मुख्यन्यायाधीशस्य डी वाई चंद्रचूडस्य अध्यक्षतायां पीठेन, केन्द्रसर्वकारेण एनटीए इत्यभिकरणेन च न्यायालये प्रख्यापिते प्रत्युत्तरे विपक्षिदलानां प्रतिक्रियायै एतत् स्थगनं कृतमस्ति । अवधेयं यत् शीर्षन्यायालये अद्य विवादास्पदं नीट-नातक-प्रवेश परीक्षया सम्पृक्तासु याचिकासु श्रवणप्रक्रिया सुनिश्चितासीत् । एतासु मईमासस्य पञ्चदिनाङ्‌के जातायां परीक्षायाम् अनियमितता-कदाचारयोः आरोपं प्रतिपादयन्त्यः पुनः परीक्षायाः च याचिकाः सम्मिलिताः सन्ति । बुधवासरे प्रस्तुते एकस्मिन् प्रतिवेदने, केन्द्रेण प्रोक्तं यत्, सर्वोच्चन्यायालयस्य निर्देशानुसारं शिक्षामंत्रालयेन नीट-स्रातक- परीक्षायाः परिणामस्य व्यापकविश्लेषणाय आईआईटी-मद्रासः सम्प्रार्थितः वर्तते ।

 

हाइड्रोकार्बन-महानिदेशालयेन नवदेहल्यां भारतमण्डपे आयोजिता ‘ऊर्जा वार्ता’ 

हिमसंस्कृतवार्ता: – नवदेहली।

केंद्रीय-जीवाष्मतैल-प्राकृतिक-वात्येंधन-मन्त्री हरदीप-सिंह-पुरी अकथयत् यत् सर्वकारस्य उद्देश्यं अन्वेषणोत्पादन-गतिविधिनाम् अन्तर्गतं त्रिंशदुत्तर-द्विसहस्रतमाब्दं यावत् देशस्य अन्वेषण-क्षेत्रं सम्वर्य दशलक्ष-वर्ग-किलोमीटर-मितं कर्तुम् अस्ति। श्रीपुरी अद्य नवदिल्ल्याः भारत-मण्डपम् इत्यस्मिन् स्थले हाइड्रोकार्बन-महानिदेशालयेन आयोजितं ‘ऊर्जा वार्ता’ इति कार्यक्रमं संबोधयन् आसीत् । सः प्रोक्तवान् यत् सर्वकारेण सूचनाधारितस्य अन्वेषणस्य सम्वर्धने बृहत्रिवेशः कृतः अस्ति । श्री-पुरी पुनः अकथयत् यत् हाइड्रोकार्बनान्वेषणस्य, विकासस्य विशिष्टार्थिकक्षेत्रस्य, नवीन-भूकंपसम्बद्धसूचनायाः च अधिग्रहणे पञ्चशत-कोट्यधिक-सप्तसहस्र-रूप्यकाणां निवेशः क्रियते ।

 

केन्द्रीयस्वास्थ्यमन्त्रिणा विश्व-जनसंख्या-दिवसावसरे नवदिल्ल्यां परिवार-नियोजनाय सुगम-प्रतिदर्शस्य अनावरणं विहितम्

हिमसंस्कृतवार्ता: – नवदेहली।

केंद्रीय-स्वास्थ्य-मंत्री जगत-प्रकाश-नड्डा इत्यनेन विश्व-जनसंख्या-दिवसावसरे अद्य नवदिल्ल्यां परिवार-नियोजनाय सुगम-प्रतिदर्शस्य अनावरणं विहितम् । विभिन्न राज्याणां स्वास्थ्य-परिवार- कल्याण-विभागैः सह जाते एकस्मिन् आभासीयोपवेशने श्री-नड्डा प्रोक्तवान् यत् अद्य भारते परिवार नियोजनस्य अतीत-वर्तमान-भविष्याणाम् आत्मनिरीक्षणावसरः अस्ति। सः प्रोक्तवान् यत् आगामि रणनीतयः राष्ट्रिय-परिवार-स्वास्थ्य-सर्वेक्षणस्य सूचकाङ्कः सह प्रतिस्थापनीयाः सहैव उच्च-जनसंख्या-समन्वितेषु राज्येषु विशिष्ट-ध्यानं प्रदातव्यम् ।

 

ऋतुविज्ञानविभाग: – देशस्य विभिन्नभागेषु वृष्टेः सम्भावना  हिमसंस्कृतवार्ता: – नवदेहली।

भारतीय ऋतुविज्ञानविभागेन सूचितं यत् सोमवासरं यावत् कोंकण-गोवाभ्यां सह मध्य- महाराष्ट्रस्य केषुचित् भागेषु, तटीय कर्णाटके च सघनवर्षायाः सम्भावना अस्ति । गुजरातप्रदेशे अपि अग्रिम-दिनत्रयं यावत् वर्षाधिक्यस्य सम्भावना प्रबला अस्ति। विभागेन एतदपि प्रोक्तं यत् पश्चिमबङ्गालः-सिक्किम-मेघालय-बिहारप्रदेशेषु अद्य वर्षा भवितुं शक्नोति । तथैव उत्तरप्रदेश-मध्यप्रदेशयोः केषुचित् भागेषु अपि वर्षायाः सम्भावना अस्ति ।

 

उत्तरप्रदेशे च जलाप्लावन-प्रभावितानां क्षेत्राणाम् उद्धरणाय सेना समाहूता 

 

भूरिशः वर्षात्वेन उत्तरप्रदेशस्य कतिपयभागाः जलमग्राः जाताः । जलाप्लावनात् रक्षणाय आपदुद्धाराभियाने सेना समाकलितास्ति । केन्द्रीय-मध्य-सूर्या-कमाण्ड इत्याख्येन सैन्यांश- द्वयं शाहजहाँ-पुर-मण्डलं प्रति प्रेषितमस्ति । गर्रा-खत्रौत-नद्योः धारायां सम्प्रत्यपि सार्धद्विशताधिकाः जनाः अवरुद्धाः सन्ति । एतन्मध्ये मुख्यमन्त्री योगी आदित्यनाथः अद्य श्रवस्ती-बलरामपुर-जनपदयोः जलाप्लावित क्षेत्रयोः परिभ्रमणे अस्ति। उत्तरप्रदेशस्य द्वादशजनपदानां त्रयस्त्रिंशदधिक-षट्-शतं ग्रामाः सङ्कटापन्नाः सन्ति । जलाप्लावेन शतशः योजनपरिमिता कृषियोग्या भूमिः जलमग्रा अस्ति। अष्टलक्षाधिकाः जनाः प्रभाविताः सन्ति । ऋतुविज्ञानविभागेन गोवाप्रदेशाय अपि रक्तवार्णिकी सञ्चेतना प्रसारिता अस्ति । उत्तराखण्डे च बद्रीनाथ-राष्ट्रियराजमार्गः चमोली-जनपदे अद्य तृतीयेऽपि दिने अवरुद्धः अस्ति। कारणं च अस्ति ग्रत् जोशीमठं निकषा भूस्खलनमिति ।

You Might Also Like

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, International news, JP Nadda, Meteorological Centre, National & International news, PM Modi, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, जगत प्रकाश नड्डा, प्रधानमंत्री मोदी, राष्ट्रीय वार्ता, राष्ट्रीय समाचार, स्वास्थ्य मंत्री, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article हिमाचलस्य समाजसेविना डॉ. महिन्द्रशर्मणा वैष्णोदेवीभोजनालयाय एककोटिरुप्यकाणि प्रदत्तानि
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?