By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: जयरामठाकुरः – प्रवर्तननिदेशालयस्य अन्वेषणस्य परिधौ खनन-व्यवसायीभि: सम्बन्धे सति उत्तरं दद्यात् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > जयरामठाकुरः – प्रवर्तननिदेशालयस्य अन्वेषणस्य परिधौ खनन-व्यवसायीभि: सम्बन्धे सति उत्तरं दद्यात् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
राजनैतिकवार्ताहिमाचलवार्ता

जयरामठाकुरः – प्रवर्तननिदेशालयस्य अन्वेषणस्य परिधौ खनन-व्यवसायीभि: सम्बन्धे सति उत्तरं दद्यात् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

डॉ मनोज शैल
Last updated: 2024/07/11 at 6:57 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

जयरामठाकुरः – प्रवर्तननिदेशालयस्य अन्वेषणस्य परिधौ खनन-व्यवसायीभि: सम्बन्धे सति उत्तरं दद्यात् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

हिमसंस्कृतवार्ता: – शिमला। 

शिमलानगरे मीडियाप्रतिनिधिभिः सह वार्तालापं कुर्वन् विपक्षनेता जयरामठाकुरः अवदत् यत् राज्यस्य खननव्यापारीण उपरि कृतेषु अन्वेषणेषु भ्रष्टाचारस्य पुष्टिः अभवत्। एतेषां व्यापारीणां मुख्यमन्त्रिणः निकटता प्रकाशं आगच्छति। अस्मिन् विषये मुख्यमन्त्रिणा राज्यस्य जनान् प्रति उत्तरं दातव्यम्, येषां जनानां विरुद्धं अन्वेषणसंस्थाः कार्यविधिं कर्तुं सज्जाः सन्ति तै: सह मुख्यमंत्रिण: कः सम्बन्धः? काङ्ग्रेससर्वकारेण विकासस्य स्थाने घोटालानां प्राधान्यं दत्तम् अस्ति। सार्वजनिकविषयेषु सर्वकारस्य चिन्ता नास्ति। सर्वकारः एकाधिकार-रूपेण विपक्षस्य स्वरं दमनं कुर्वन् अस्ति। उपनिर्वाचनं जेतुम् यथाशक्ति सत्तायाः दुरुपयोगः सर्वकारेण कृतः। सर्वकारस्य एकाधिकारस्य विरुद्धं जनेषु क्रोधः वर्तते।

जयरामठाकुरः अवदत् यत् सम्प्रति राज्ये भ्रष्टाचारस्य प्रकरणाः प्रकाशं प्राप्नुवन्ति। भ्रष्टाचारेण राज्यस्य प्रतिबिम्बं कलङ्कितं भवति, तस्कर: सक्रियः अस्ति। विधिव्यवस्थायाः स्थितिः पतिता अस्ति किन्तु मुख्यमन्त्री स्वसर्वकारस्य उद्धाराय व्यग्र: अस्ति। अधुनैव आयकरप्रवर्तननिदेशालयेन हिमाचलप्रदेशस्य केषाञ्चन व्यापारिणां विरुद्धं अनियमितानां अन्वेषणार्थं कार्यविधि: कृता। यदि वार्तापत्राणां वार्तासु विश्वसिम: तर्हि तत्र विशाल-भ्रष्टाचार-प्रकरणं प्रकाशितम् अस्ति। खननव्यापारिणां विरुद्धं पञ्जीकृतानां प्राथमिकीनाम् (एफआईआर) उपालम्भानां क्षेत्रसत्यापनप्रतिवेदनानां च आधारेण एतत् अन्वेषणं आरब्धम् अस्ति। प्रारम्भिकजागृतौ एव ईडी तथा आयकरविभागेन एतादृशाः बहवः अभिलेखा: प्राप्ताः येषु ज्ञायते यत् तौ द्वौ अपि शतशः कोटिरूप्यकाणां भ्रष्टाचारू संलग्नौ स्तः। एतादृशेषु गम्भीरप्रकरणेषु अभियुक्तानां हिमाचलस्य मुख्यमन्त्रिणा सह सामीप्यम् अपि मीडियाद्वारा प्रकाशं प्राप्नोति। अस्मात् पूर्वमपि सः स्वस्य प्रियजनानाम् नियमपरिवर्तनस्य आरोपः कृतः अस्ति। मुख्यमन्त्री कस्यापि आरोपस्य विषये स्वस्य स्पष्टीकरणं न दत्तवान्।

विपक्षनेता उक्तवान् यत् मुख्यमन्त्रिण: कृते तस्य मित्रसमूहः एव सर्वम्, सः केवलं तेषां हिताय एव कार्यं करोति। राज्यस्य जनानां जनहितस्य विषयाः प्राथमिकतायां न सन्ति। यः सर्वकारः जनहितविषयेभ्यः व्यभिचरति तस्य सत्तायां स्थातुम् अधिकारः नास्ति। एतत् सर्वकारं परिवर्तनीयम्। वयं विपक्षे स्मः, अस्माकं कार्यं एकाधिकारसर्वकारस्य विरुद्धं स्वरम् उत्थापयितुं वर्तते। य: सर्वकार: जनहिताय कार्यं न करोति तस्माद् प्रश्नानां पृच्छनम्। जनहिताय कार्यं कर्तुं सर्वकाराय बाध्यं कर्तुम्। वयं तत् कुर्वन्तः भविष्यामः। अस्मिन् समये राज्यस्य जनाः अपि घोटालानां, भ्रष्टाचारस्य, तस्मिन् मुख्यमन्त्रीकार्यालयस्य संलग्नतायाः च विषये उत्तराणि याचन्ते। अतः मुख्यमन्त्रिणा अस्मिन् विषये उत्तरं दातव्यम्।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: bjp, BJP Himachal, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, himachal update, Himsanskritnews, Jai Ram Thakur, जयरामठाकुर, भाजपा, विपक्षनेता जयरामठाकुरः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Kangana Ranaut: सांसद कङ्गनारनौत इत्यनया मण्ड्यां स्वकार्यालयस्य उद्घाटनं कृतम्
Next Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?