By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राजनैतिकवार्ताराष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/06/05 at 9:55 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

  • लोकसभानिर्वाचने भाजपा-नेतृत्वेन एनडीए- सर्वकारेण स्पष्टबहुमतं प्राप्तम्। एनडीए गठबन्धनेन निर्वाचने २९२ आसनानि प्राप्तानि सन्ति। तेषु भाजपा स्वयमेव २४० आसनानि प्राप्तवती। एतादृशे सति एनडीए तृतीयवारं केन्द्रे सर्वकारस्य निर्माणं कर्तुं गच्छति। नूतनसर्वकारस्य शपथग्रहणस्य तिथिः समयः च निर्णीतः अस्ति। मीडिया-सञ्चारमाध्यमानाम् अनुसारं प्रधानमंत्रिणः नरेन्द्रमोदीवर्यस्य शपथग्रहणसमारोहः जूनमासस्य ०८ दिनाङ्के सायंकाले भवितुं शक्नोति।
  • प्रधानमन्त्रिणा नरेन्द्रमोदिना विश्वपर्यावरणदिवसस्य अवसरे बुद्धा-जयन्ती-उद्याने वृक्षारोपणं कृत्वा ‘एक पेड माँ के नाम’ इति अभियानस्य आरम्भं कृतम्। अस्य अभियानस्य उद्देश्यं देशे सर्वत्र कोटि-वृक्षाणां रोपणार्थं अद्वितीयं जन-आन्दोलनं निर्मातुं वर्तते।
  • हिमाचलप्रदेशस्य राजधानी शिमलानगरे सम्मर्दस्य निवारणाय राज्यसर्वकारः जाखुपर्वतस्य अधः नवबहारतः वृत्तीयमार्गे (सर्कुलर-रोड़) इन्दिरागान्धी- चिकित्सा- महाविद्यालयपर्यन्तं ८९० मीटरदीर्घा द्विपङ्कतिकन्दरा निर्मास्यते। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे लोकनिर्माणविभागस्य अधिकारिभिः सह गोष्ठ्या: अध्यक्षतां कुर्वन् एतां सूचनां दत्तवान्। २९५ कोटिरूप्यकाणां व्ययेन कन्दराया: निर्माणं भविष्यति, यस्मात् १०० कोटिरूप्यकाणि पूर्वमेव मुक्तानि सन्ति, अस्य मासस्य अन्ते यावत् निविदाप्रक्रिया आरभ्यते इति मुख्यमन्त्री अवदत्।
  • हिमाचले लोकसभानिर्वाचनं सम्पन्नम्। यस्मिन् लोकसभानिर्वाचनस्य मण्डीसंसदीयक्षेत्रस्य निर्वाचनम् बहु ऊष्णमासीत्। राजनैतिकयुद्धम् अभवत् अस्मिन् युद्धे एकतः मायानगर्याः राज्ञी अपरतः राजनीते राजा आसीत्, परन्तु मायानगर्याः राज्ञी राजनीते राजानं पराजयितुं सफला अभवत्। मण्डीविजयस्य नायकः जयरामठाकुरः अभवत्, स: क्षणमपि कङ्गनाया: पक्षं न त्यक्तवान्।
  • हिमाचलप्रदेशस्य अनेकेषु भागेषु ऋतौ परिवर्तनं जातम्। बुधवासरे अपराह्ने कुल्लुनगरे प्रचण्डवृष्टिः अभवत्। अत्यधिकवृष्ट्या तापमानस्य न्यूनता ज्ञाता। वर्षाकारणात् जनाः उष्णतायाः किञ्चित् विश्रान्तिं प्राप्तवन्तः। तत्सह शिमलामण्डलस्य अपि अनेकेषु भागेषु वर्षा अभवत्। चौपालस्य थरोचक्षेत्रे अश्मपातेन सह वर्षा अभवत्।
  • किरतपुरनेरचौकस्य चतुष्पंक्तिराजर्मार्गस्य निर्माणानन्तरं यात्रा विश्रान्तिदायिनी अभवत्। अन्तरम् अपि न्यूनीकृतम् अस्ति। अस्मिन् मार्गे यात्रीवाहनानां अभावं पूरयितुं हिमाचलपथपरिवहननिगमस्य (एचआरटीसी) बिलासपुर-आगारेन हमीरपुरतः चण्डीगढं यावत् बसमार्गद्वयं प्रारब्धम् अस्ति।
  • शासनपरिवर्तनानन्तरं स्थगितस्य भजवानीसेतुनिर्माणप्रक्रिया आदर्शाचारसंहिताया: निष्कासनानन्तरं आरभ्यते इति संभावना वर्तते। अस्य सेतो: द्वयोः अन्तयोः निर्माणस्य मार्गस्य भूमिं प्राप्तुं मुख्य- अभियंताकार्यालयात् २ कोटि ६० लक्षं ६० सहस्ररूप्यकाणां राशिः अनुमोदिता। अयं सेतुः राजा अमीचन्देन १८८९ तमे वर्षे निर्मितम्। सेतुनिर्माणानन्तरं सदर, घुमारवीं झण्डुता विधानसभाक्षेत्रस्य ३५ पंचायतानां लाभः भविष्यति।

You Might Also Like

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, him sanskritam himsanskritnews, HIM SASNSKRIT VARTA, himsanskritnews headlines, national News Headlines, News Headlines, आज के मुख्य सामाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल न्यूज़
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Shimla News : शिमलानगरे २९५ कोटिरूप्यकाणां व्ययेन निर्मिता भविष्यति नवबहारतः आईजीएमसीपर्यन्तं ८९० मीटरदीर्घा कन्दरा
Next Article HRTC : हमीरपुरतः चण्डीगढं यावत् द्वौ नूतनौ बसमार्गौ आरब्धौ
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?