By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Shimla News : शिमलानगरे २९५ कोटिरूप्यकाणां व्ययेन निर्मिता भविष्यति नवबहारतः आईजीएमसीपर्यन्तं ८९० मीटरदीर्घा कन्दरा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > Shimla News : शिमलानगरे २९५ कोटिरूप्यकाणां व्ययेन निर्मिता भविष्यति नवबहारतः आईजीएमसीपर्यन्तं ८९० मीटरदीर्घा कन्दरा
संस्कृतगतिविधयः

Shimla News : शिमलानगरे २९५ कोटिरूप्यकाणां व्ययेन निर्मिता भविष्यति नवबहारतः आईजीएमसीपर्यन्तं ८९० मीटरदीर्घा कन्दरा

डॉ.अमनदीप शर्मा
Last updated: 2024/06/05 at 8:53 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

Shimla News : शिमलानगरे २९५ कोटिरूप्यकाणां व्ययेन निर्मिता भविष्यति नवबहारतः आईजीएमसीपर्यन्तं ८९० मीटरदीर्घा कन्दरा
हिमसंस्कृतवार्ता – शिमला।

हिमाचलप्रदेशस्य राजधानी शिमलानगरे सम्मर्दस्य निवारणाय राज्यसर्वकारः जाखुपर्वतस्य अधः नवबहारतः वृत्तीयमार्गे (सर्कुलर-रोड़) इन्दिरागान्धीचिकित्सामहाविद्यालयपर्यन्तं ८९० मीटरदीर्घा द्विपङ्कतिकन्दरा निर्मास्यते। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे लोकनिर्माणविभागस्य अधिकारिभिः सह गोष्ठ्या: अध्यक्षतां कुर्वन् एतां सूचनां दत्तवान्। २९५ कोटिरूप्यकाणां व्ययेन कन्दराया: निर्माणं भविष्यति, यस्मात् १०० कोटिरूप्यकाणि पूर्वमेव मुक्तानि सन्ति, अस्य मासस्य अन्ते यावत् निविदाप्रक्रिया आरभ्यते इति मुख्यमन्त्री अवदत्।
शिमलानगरे विविधसमस्यानां समाधानार्थं राज्यसर्वकारः गम्भीरप्रयत्नाः कुर्वन् अस्ति, येन स्थानीयजनाः अपि च अत्र आगच्छन्तः पर्यटकाः उत्तमसुविधाः प्राप्तुं शक्नुवन्ति। वाहनानां सुचारुगत्यर्थं वृत्तमार्गे सर्वाणि विघ्नानि दूरीकर्तुं विभागाय निर्देशं दत्तवान्। अस्य अन्तर्गतं एकसप्ताहस्य अन्तः भू-अधिग्रहण-प्रक्रिया आरभ्यते । वृत्तमार्गस्य विस्तारार्थं १२२ कोटिरूप्यकाणि विनियोजितानि सन्ति। एतदतिरिक्तं ३००० वाहनानां कृते यानस्थगनस्थलस्य (पार्किङ्ग) सुविधा निर्मीयते। मुख्यमंत्रिणा उक्तं यत् राज्यसर्वकारः शिमलानगरे उपरितनतारं दूरीकर्तुं योजनायां कार्यं कुर्वन् अस्ति। विद्युत्केबलानां, प्रकाशतन्तुनां च कृते भूमिगतनलिका: विन्यस्ता भविष्यन्ति। अस्याः परियोजनायाः प्रारम्भिकपदे मॉलरोड्, लोअरबाजार, मिडिल मार्केट् क्षेत्रेषु ध्यानं दत्तम् अस्ति । एतदर्थं २३ कोटिरूप्यकाणां व्ययः भविष्यति।

You Might Also Like

*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

TAGGED: IGMC TUNNAL, Shimla News, SHIMLA TUNNAL
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article हिमाचलनिर्वाचनम् : मण्डीविजयस्य नायकः अभवत् जयरामठाकुरः
Next Article HRTC : हमीरपुरतः चण्डीगढं यावत् द्वौ नूतनौ बसमार्गौ आरब्धौ
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?