By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Election : षट् विधानसभाक्षेत्रेषु उपनिर्वाचने भाजपाया: द्वौ काङ्ग्रेसस्य चत्वारः च  अभ्यर्थिनः विजयं प्राप्तवन्तः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Election : षट् विधानसभाक्षेत्रेषु उपनिर्वाचने भाजपाया: द्वौ काङ्ग्रेसस्य चत्वारः च  अभ्यर्थिनः विजयं प्राप्तवन्तः
राजनैतिकवार्ताहिमाचलवार्ता

HP Election : षट् विधानसभाक्षेत्रेषु उपनिर्वाचने भाजपाया: द्वौ काङ्ग्रेसस्य चत्वारः च  अभ्यर्थिनः विजयं प्राप्तवन्तः

डॉ मनोज शैल
Last updated: 2024/06/05 at 12:52 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Election : षट् विधानसभाक्षेत्रेषु उपनिर्वाचने भाजपाया: द्वौ काङ्ग्रेसस्य चत्वारः च  अभ्यर्थिनः विजयं प्राप्तवन्तः

हिमसंस्कृतवार्ता – शिमला। 

हिमाचलविधानसभाया: षडासनानां कृते उपनिर्वाचनस्य परिणाम: घोषित: अस्ति। निर्वाचनविभागस्य प्रवक्ता अत्र सूचितवान् यत् षट् विधानसभाक्षेत्रेषु उपनिर्वाचनेषु भारतीयराष्ट्रीयकाङ्ग्रेसस्य (काङ्ग्रेसस्य) चत्वार: भारतीयजनतापक्षस्य च द्वौ प्रत्याशिनौ निर्वाचने विजयं प्राप्तवन्तः।

विधानसभाक्षेत्रं धर्मशाला

धर्मशालाविधानसभाक्षेत्रत: भाजपा प्रत्याशी सुधीरशर्मा २८०६६ मतानि प्राप्नोत्।‌ स: स्वकीयं निकटतमं प्रतिद्वन्दिनं काँग्रेसस्य देवेन्द्रसिंह जग्गीं पराजितवान्। देवेंद्रसिंहजग्गी २२५४० मतानि प्राप्नोत्। निर्दलीय: प्रत्याशी राकेशचौधरी १०७७० मतानि, सतीशकुमार: ४२२ मतानि, नोटा ४८२ मतानि अधिगतानि। 

लाहौल-स्पीति: विधानसभा

लाहौल-स्पीति-विधानसभाक्षेत्रस्य काङ्ग्रेसप्रत्याशी अनुराधा ९४१४ मतं प्राप्य स्वस्य समीपस्थं प्रतिद्वन्द्वी निर्दलीयं डॉ. रामलालमार्कण्डां पराजितवती। डॉ. रामलालमारकण्डा ७४५४ मतानि प्राप्तवान्।

भाजपायाः रविठाकुर: ३०४९ मतानि, नोटा ७६ मतं च प्राप्तानि।

सुजानपुरविधानसभाक्षेत्रम्

सुजानपुरविधानसभाक्षेत्रस्य कांग्रेसप्रत्याशी कप्तान रंजीतसिंहराणा  २९५२९ मतानि प्राप्यं निकटतमं प्रतिद्वन्द्विनं भाजपाया: राजेन्द्रराणां पराजितवान्। राजेन्द्रराणा २७०८९ मतानि प्राप्नोत्।

राष्ट्रवादीकाङ्ग्रेसपार्टी-इत्यस्य रविन्द्रसिंह: डोगरा ३३४, निर्दलीय: प्रत्याशी अनिलराणा १३४, शेरसिंह: ७१, राजेशकुमार: ४६, नोटा इत्येतै: च २४१ मतानि प्राप्तानि।

कुटलैहड़ विधानसभाक्षेत्रम्

कुटलैहड़विधानसभाक्षेत्रात् कांग्रेसस्य प्रत्याशी विवेक शर्मा ३६८५३ मतानि प्राप्य भाजपादलस्य देविन्द्रकुमार भुट्टों पराजितवान्। भाजपाप्रत्याशिना ३१४९७ मतानि अधिगतानि।

निर्दलीय: प्रत्याशी चंचलसिंह: ३००, राजीवशर्मा २३४, नोटा इत्यैतै: च ३४१  मतानि प्राप्तानि।

विधानसभानिर्वाचनक्षेत्रं गगरेटम्

गगरेटविधानसभाक्षेत्रात् काङ्ग्रेसस्य राकेशकालिया ३५७६८ मतानि प्राप्य चैतन्यशर्माणं पराजितवान्।  राकेशकालिया इत्यस्य समीपस्थप्रतिद्वन्द्वी भाजपापक्षस्य चैतन्यशर्मां २७२८१ मतानि प्राप्तवान्।

निर्दलीय अमितवशिष्ठ: ५७०, अशोक: सौंखाला ३२३, मनोहरलाल: शर्मा २८८, नोटा ६०६ मतानि प्राप्तानि।

बड़सर-विधानसभानिर्वाचनक्षेत्रम्

बड़सरविधानसभाक्षेत्रात् भाजपायाः इन्द्रदत्तलखनपालः ३३०८६ मतानि प्राप्य तस्य समीपस्थप्रतिद्वन्द्विनं काङ्ग्रेसस्य सुभाषचन्दं च पराजितवान्, यः ३०९६१ मतानि प्राप्तवान्। निर्दलीय: प्रत्याशी विशालकुमारः ४५२, नोटा ३२३ मतानि च प्राप्तवन्तौ।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: election results, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, HP Election, HP vidhansabha, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल चुनाव, हिमाचल चुनाव नतीजे
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Lok Sabha Election Results : प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् एनडीए-सङ्घटनं तृतीयवारं केन्द्रे सर्वकारस्य निर्माणं करिष्यति
Next Article हिमाचलनिर्वाचनम् : मण्डीविजयस्य नायकः अभवत् जयरामठाकुरः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?