By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचलनिर्वाचनम् : मण्डीविजयस्य नायकः अभवत् जयरामठाकुरः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमाचलनिर्वाचनम् : मण्डीविजयस्य नायकः अभवत् जयरामठाकुरः
हिमाचलवार्ता

हिमाचलनिर्वाचनम् : मण्डीविजयस्य नायकः अभवत् जयरामठाकुरः

डॉ.अमनदीप शर्मा
Last updated: 2024/06/05 at 8:43 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

हिमाचलनिर्वाचनम् : मण्डीविजयस्य नायकः अभवत् जयरामठाकुरः, क्षणमपि कङ्गनाया:पक्षं न त्यक्तवान्
हिमसंस्कृतवार्ता – लघ्वीकाशी मण्डी।
हिमाचले लोकसभानिर्वाचनं सम्पन्नम्। यस्मिन् लोकसभानिर्वाचनस्य मण्डीसंसदीयक्षेत्रस्य निर्वाचनम् बहु ऊष्णमासीत्। राजनैतिकयुद्धम् अभवत् अस्मिन् युद्धे एकतः मायानगर्याः राज्ञी अपरतः राजनीते राजा आसीत्, परन्तु मायानगर्याः राज्ञी राजनीते राजानं पराजयितुं सफला अभवत् । कारणं तत् कवचम् आसीत् यत् राज्ञा: विजये महत्त्वपूर्णां भूमिकां निर्वहति स्म, निर्वाचनक्षेत्रे च प्रचुरं परिश्रमं कृतवान। । सर्वै: सर्वाणि पात्राणि सम्यक् अवगतानि स्यु:। आम्, राजनैतिकयुद्धे काङ्ग्रेस-प्रत्याशी विक्रमादित्यसिंहस्य पराजयस्य, भारतीयजनतापक्षस्य प्रत्याशिन: च चलच्चित्र-अभिनेत्री-कङ्गना रानौताया: च विजयस्य मुख्यश्रेयः पूर्वमुख्यमन्त्रिणे विपक्षनेत्रे जयरामठाकुराय च गच्छति।

राजनैतिकं युद्धं कङ्गनायाः कृते सर्वथा नूतनः अनुभवः आसीत्, परन्तु जयरामसदृशस्य अनुभविनां समर्थनं यदा प्राप्तवती तदा विजयस्य पुष्टिः अभवत् । मण्डीसंसदीयासने जयरामठाकुरेण कृतस्य परिश्रमस्य परिणाम: सर्वेषां समक्षं वर्तते। सः सर्वेषु १७ विधानसभाक्षेत्रेषु यथासम्भवं ग्रामान् प्राप्य तत्रत्यानां जनानां साक्षात्कारं कृत्वा स्वविचारं प्रस्तुत्य सफलः अभवत् ।

जयरामठाकुर: प्रत्येकं मञ्चे मण्डीक्षेत्रस्य सम्मान, मानस्य, आत्मसम्मानस्य च विषय: प्रमुखतया स्थापित:। जयरामठाकुरस्य विषये अन्यैः नेतृभि: अनेकानि वचनानि उक्तानि परन्तु सः स्वयमेव शालीनतां प्रदर्शयति स्म, सभ्यतायाः परिधिमध्ये च वदति स्म । एतदेव कारणम् आसीत् यत् मण्डी-जनाः स्वस्य प्रियस्य नेतु: वचनस्य आदरं कृत्वा स्वस्य आज्ञापत्रं प्रदत्तवन्तः ।

You Might Also Like

चालानस्य स्थाने एव ‘रियल-टाइम’-अङ्कीय-भुक्ति:, ‘एचआरटीसी’-संस्थायै लप्स्यन्ते १५०० विद्युत्-बस-यानानि — मुख्यमन्त्री सुक्खू

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

एशियाई-क्रीडायाः स्वर्ण-विजेतृभ्यः कन्याभ्यः राजकीय-सेवा प्रत्येकं च एक-कोटि-रूप्यकाणां पुरस्कारः

राजकीय-उच्च-विद्यालय-धारस्य छात्रः अभिनवराणा देशे विद्यालयस्य नाम उज्ज्वलीकृतवान्

रेणुकाक्षेत्रे दशवर्षान्तरं भूयः व्याघ्रस्य गर्जनं श्रुतम्, अक्तूबरमासस्य द्वितीयादिनादारभ्य पयर्टकाः द्रष्टुं शक्ष्यन्ति

TAGGED: जयरामठाकुर
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article HP Election : षट् विधानसभाक्षेत्रेषु उपनिर्वाचने भाजपाया: द्वौ काङ्ग्रेसस्य चत्वारः च  अभ्यर्थिनः विजयं प्राप्तवन्तः
Next Article Shimla News : शिमलानगरे २९५ कोटिरूप्यकाणां व्ययेन निर्मिता भविष्यति नवबहारतः आईजीएमसीपर्यन्तं ८९० मीटरदीर्घा कन्दरा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?