By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राजनैतिकवार्ताराष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/05/27 at 9:55 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

राष्ट्रीयवार्ता: 

  • राष्ट्रपतिः द्रौपदी मुर्मू नवदेहलीनगरस्य भारतमण्डपमे ब्रह्मकुमारीसङ्गठनेन आयोजिते कार्यक्रमे स्वच्छस्वस्थसमाजस्य आध्यात्मिकसशक्तिकरणस्य राष्ट्रियोत्सवं सम्बोधयन् उक्तं यत् आध्यात्मिकमूल्यानां विकासस्य आवश्यकता, आध्यात्मिकरूपेण सशक्तः भवितुञ्च वास्तविकं सशक्तिकरणं वर्तते। राष्ट्रपतिः मुर्मूः अवदत् यत् आध्यात्मिकमूल्यानि सर्वेषां धर्मानां जनान् एकीकरणं कुर्वन्ति।
  • विदेशमन्त्री डा. एस. जयशंकरः पापुआ न्यूगिनीदेशे भूस्खलनदुर्घटनायाः विषये दुःखं प्रकटितवान्।  जयशंकरमहोदयः सामाजिकमाध्यमेषु अवदत् यत् भारतस्य सहानुभूतिः पापुआ न्यूगिनीदेशस्य सर्वकारेण तत्रत्यै: जनै: सह चास्ति।
  • पर्यावरणानुकूलपरिवहनस्य प्रवर्धनार्थं महत्त्वपूर्णानि पदानि स्वीकृत्य इण्डियन ऑयल इत्यनेन भारतीयसेनायाः कृते अत्याधुनिकानि हाइड्रोजन- इन्धनयुक्तानि बसयानानि प्रदत्तानि।
  • भीषणचक्रवातः रेमल इति शनैः शनैः पूर्वोत्तरीय-भारतं प्रति वर्धते। अयं चक्रवातः सामान्य चक्रवाते परिवर्तितः अपि च बांग्लादेशस्य मंगला इत्यत्र अद्य प्रातः केन्द्रितो वर्तते। कस्याचित् होरायाः पूर्वं अस्य केन्द्र कोलकातानगरात् नवति किलोमीटरमिते दूरे स्थितमासीत्।
  • गुजरात प्रशासनेन राजकोट-स्थले टीआरपी-गेम-जोन इत्यत्र अग्निकाण्डे द्वौ आरक्षिबलाधिकारिणौ समेत्य सप्ताधिकारिणः निलम्बिताः ।
  • लोकसभानिर्वाचनस्य सप्तमान्तिमचरणाय च प्रचारभियानं तीव्रतया प्रचलति। राजनैतिकदलानां शीर्षनेतारः जनसभाः मार्गप्रदर्शनं च कुर्वन्ति। अस्मिन् चरणे जूनमासस्य प्रथमे दिनांके अष्टराज्यानां सप्तपञ्चाशदासनेभ्यः मतदानं भविष्यति। मतगणना जूनमासे चतुर्थे दिवसे भविष्यति।

हिमाचलवार्ता: 

  • काङ्ग्रेसस्य राष्ट्रियमहासचिव प्रियङ्का गान्धी सोमवासरे चम्बानगरे जनसभां सम्बोधयन्ती मोदीसर्वकारं बहु लक्षितवती। सा मोदीसर्वकारेण धनशक्त्या राज्यसर्वकारस्य पतनं कर्तुं प्रयतते इति आरोपं कृतवती। 
  • भारतीयजनतापक्षेण भवतां मतं चोरितम्। यदा भाजपा जनमतद्वारा सत्तापीठं प्राप्तुं न शक्नोत् तदा ते राजनैतिकविपण्यां षट् काङ्ग्रेसविधायकान् क्रीतवन्तः, एते विक्रीताः विधायकाः अधुना भाजपातः अभ्यर्थिनः सन्ति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सोमवासरे शाहपुरस्य चम्बीप्राङ्गणे आयोजितायां जनसभायां अवदत् यत् अतः जूनमासस्य प्रथमदिनाङ्के मतदानं कुर्वन् एतत् सामान्यनिर्वाचनं न मन्यताम्।
  • पूर्वमुख्यमन्त्री विपक्षनेता च जयरामठाकुरः हमीरपुरस्य बड़सरे जनसभां सम्बोधयन् अवदत् यत् मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: कथयति यत् निर्वाचनकाले बडसरे ५५ लक्षरूप्यकाणि प्राप्तानि। यस्य विषये सः अमूर्तान् आरोपान् कृतवान् अस्ति। सुक्खु:, तद् धनं कुतः प्राप्तम् इति कथयतु। भवन्तः केन सह मिलितवन्तः? केन तत् गृहीतम् ? कथं गृहीतम् ? कस्मिन् पुलिस-स्थानके प्रकरणं पञ्जीकृतम् आसीत् ? कस्य संस्थायाः पञ्जीकरणं कृतम् ? तत् धनं कुत्र गतम् ? अहं प्रत्येकस्मिन् स्तरे पृष्टवान्। माध्यमैः, अधिकारिभिः, सर्वैः उपायैः च ज्ञात्वा स्पष्टं जातं यत् एतादृशी घटना नाभवत् ।
  • हिमाचलप्रदेशस्य समतलक्षेत्रेषु, निम्नोच्चक्षेत्रेषु च जनाः तीव्रतापस्य सम्मुखीकरणं कुर्वन्ति। नारङ्गसचेतनाया:  (ऑरेन्ज अलर्ट) मध्ये सोमवासरे ऊना, हमीरपुरम् इत्यादिषु राज्यस्य सप्तनगरेषु अधिकतमं तापमानं ४० डिग्री सेल्सियसतः अधिकं जातम्।

You Might Also Like

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: election news, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himsanskritnews, himsanskritnews headlines, International news, LokSabha Election, National News, News Headlines, अन्ताराष्ट्रीय समाचार, प्रादेशिक समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, लोकसभा चुनाव, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Rahul Gandhi Rally : ‘मोदी भ्रष्टाचारस्य केन्द्रबिन्दुः, संविधानस्य उन्मूलनस्य स्वप्नं मा पश्येत्’
Next Article National News : प्रत्यक्ष-लाभार्थि-हस्तांतरणस्य माध्यमेन जनेभ्यः अष्टत्रिंशत्-लक्ष- रूप्यकाणि आवंटितानि- प्रधानमन्त्री
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?