By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : प्रत्यक्ष-लाभार्थि-हस्तांतरणस्य माध्यमेन जनेभ्यः अष्टत्रिंशत्-लक्ष- रूप्यकाणि आवंटितानि- प्रधानमन्त्री
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > National News : प्रत्यक्ष-लाभार्थि-हस्तांतरणस्य माध्यमेन जनेभ्यः अष्टत्रिंशत्-लक्ष- रूप्यकाणि आवंटितानि- प्रधानमन्त्री
राष्ट्रीयवार्ताः

National News : प्रत्यक्ष-लाभार्थि-हस्तांतरणस्य माध्यमेन जनेभ्यः अष्टत्रिंशत्-लक्ष- रूप्यकाणि आवंटितानि- प्रधानमन्त्री

डॉ मनोज शैल
Last updated: 2024/05/27 at 10:08 PM
डॉ मनोज शैल
Share
7 Min Read
SHARE

National News :

  1. विदेशमन्त्री डा. एस. जयशंकरः पापुआ न्यूगिनीदेशे भूस्खलनदुर्घटनायाः विषये दुःखं प्रकटितवान्।
  2. इण्डियन ऑयल इत्यनेन भारतीयसेनायाः कृते पर्यावरणानुकूलपरिवहनस्य प्रवर्धनार्थम् अत्याधुनिकानि हाइड्रोजन-इन्धनयुक्तानि बसयानानि प्रदातुम् अभिसन्धौ हस्ताक्षरं कृतम्।
  3. महिला-नेतृत्वेन ब्रह्मकुमारी-सङ्गठनं विश्वस्य प्रमुखेषु आध्यात्मिक-संस्थासु अन्यतमा वर्तते- राष्ट्रपतिः द्रौपदी मुर्मू।
  4. ऋतुविज्ञानविभागः – शनैः शनैः पूर्वोत्तरीय-भारतं प्रति वर्धते भीषणचक्रवातः रेमल इति
  5. गुजरात-प्रकरणम् – अग्निकाण्डे द्वौ आरक्षिबलाधिकारिणौ समेत्य सप्ताधिकारिणः निलम्बिताः
  6. लोकसभा-निर्वाचनम् – सप्तमान्तिमचरणाय च प्रचारभियानं तीव्रतया प्रचलति। राजनैतिकदलानां शीर्षनेतारः जनसभाः मार्गप्रदर्शनं च कुर्वन्ति।
  7. ओडिसा राज्ये विधानसभायाः द्विचत्वारिंशदासनेभ्यः भविष्यमाणाय मतदानाय प्रचाराभियानं चरमावस्थायाम्
  8. अरविन्दकेजरीवालेन स्वास्थ्यनिरीक्षणाय स्वीय-अल्पावधिक-मुक्ति-याचिकां सप्तदिनानि यावत् संवर्धयितुं सर्वोच्च्चन्यायालये याचिका प्रस्तुता
  9. प्रत्यक्ष-लाभार्थि-हस्तांतरणस्य माध्यमेन जनेभ्यः अष्टत्रिंशत्-लक्ष- रूप्यकाणि आवंटितानि- प्रधानमन्त्री

हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर:।

विदेशमन्त्री डा. एस. जयशंकरः पापुआ न्यूगिनीदेशे भूस्खलनदुर्घटनायाः विषये दुःखं प्रकटितवान्।  जयशंकरमहोदयः सामाजिकमाध्यमेषु अवदत् यत् भारतस्य सहानुभूतिः पापुआ न्यूगिनीदेशस्य सर्वकारेण तत्रत्यै: जनै: सह चास्ति। डॉ. जयशंकरः अवदत् यत् अस्मिन् कठिने काले भारतं स्वमित्रैः सह तिष्ठति।

अवधेयं वर्त्तते यत् शुक्रवासरे पापुआ न्यूगिनीदेशे भूस्खलनेन प्रायः द्विसहस्रं जनानां मृत्योः आशङ्का वर्तते।  राष्ट्रीयापदाकेन्द्रेण संयुक्तराष्ट्रसङ्घं प्रति पत्रे एतां सूचनां दत्ता अस्ति।

इण्डियन ऑयल इत्यनेन भारतीयसेनायाः कृते पर्यावरणानुकूलपरिवहनस्य प्रवर्धनार्थम् अत्याधुनिकानि हाइड्रोजन-इन्धनयुक्तानि बसयानानि प्रदातुम् अभिसन्धौ हस्ताक्षरं कृतम्।

हिमसंस्कृतवार्ता: – डॉ नरेन्द्रराणा सिरमौर: ।

पर्यावरणानुकूलपरिवहनस्य प्रवर्धनार्थं महत्त्वपूर्णानि पदानि स्वीकृत्य इण्डियन ऑयल इत्यनेन भारतीयसेनायाः कृते अत्याधुनिकानि हाइड्रोजन- इन्धनयुक्तानि बसयानानि प्रदत्तानि। सेनाप्रमुख- जनरलमनोजपाण्डेवर्यस्य भारतीयतैलस्य अध्यक्षस्य एस. एम. वैद्यस्य च उपस्थितौ इण्डियागेटस्थे राष्ट्रीययुद्धस्मारके आयोजिते कार्यक्रमे अभिसन्धौ हस्ताक्षरं कृतम्। अस्य उपक्रमस्य उद्देश्यं वाहनेषु हाइड्रोजन-बैटरी-आधारित-प्रौद्योगिक्याः प्रचारः अस्ति।  अस्मिन् अवसरे जनरल पाण्डेयः अवदत् यत् सेना पर्यावरणस्य रक्षणं मनसि कृत्वा स्वस्य परिचालनक्षमतां वर्धयितुं नूतनप्रौद्योगिकीम् अङ्गीकर्तुं प्रतिबद्धा अस्ति।

महिला-नेतृत्वेन ब्रह्मकुमारी-सङ्गठनं विश्वस्य प्रमुखेषु आध्यात्मिक-संस्थासु अन्यतमा वर्तते- राष्ट्रपतिः द्रौपदी मुर्मू।

हिमसंस्कृतवार्ता: – डॉ नरेन्द्रराणा सिरमौर: ।

राष्ट्रपतिः द्रौपदी मुर्मू नवदेहलीनगरस्य भारतमण्डपमे ब्रह्मकुमारीसङ्गठनेन आयोजिते कार्यक्रमे स्वच्छस्वस्थसमाजस्य आध्यात्मिकसशक्तिकरणस्य राष्ट्रियोत्सवं सम्बोधयन् उक्तं यत् आध्यात्मिकमूल्यानां विकासस्य आवश्यकता, आध्यात्मिकरूपेण सशक्तः भवितुञ्च वास्तविकं सशक्तिकरणं वर्तते। राष्ट्रपतिः मुर्मूः अवदत् यत् आध्यात्मिकमूल्यानि सर्वेषां धर्मानां जनान् एकीकरणं कुर्वन्ति। राष्ट्रपति मुर्मूः युवानां मध्ये आध्यात्मिकमूल्यानां प्रवर्तनार्थं ब्रह्मकुमारीपरिवारस्य प्रयत्नस्य प्रशंसाम् अकरोत्। सा अवदत् यत् महिलानेतृत्वेन ब्रह्मकुमारी-सङ्गठनं विश्वस्य प्रमुखेषु आध्यात्मिक-संस्थासु अन्यतमा संस्था वर्तते।

ऋतुविज्ञानविभागः – शनैः शनैः पूर्वोत्तरीय-भारतं प्रति वर्धते भीषणचक्रवातः रेमल इति

 हिमसंस्कृतवार्ता । भीषणचक्रवातः रेमल इति शनैः शनैः पूर्वोत्तरीय-भारतं प्रति वर्धते। अयं चक्रवातः सामान्य चक्रवाते परिवर्तितः अपि च बांग्लादेशस्य मंगला इत्यत्र अद्य प्रातः केन्द्रितो वर्तते। कस्याचित् होरायाः पूर्वं अस्य केन्द्र कोलकातानगरात् नवति किलोमीटरमिते दूरे स्थितमासीत्। सम्प्रति पूर्वदिशां अस्यं च प्रति अग्रे सरति। भारतर्तु-विज्ञानविभागस्य महानिदेशकः डॉ. मृत्युमजय-महापात्रः अद्य मध्याह्ने नवदिल्ल्यां वार्ताहरान् संसूचयत् यत् पश्चिमबंगालराज्ये प्रतिकूल- ऋतुः सामान्यो भविष्यति। असौ निगदितवान् यत् अद्य केवलम् अस्य राज्यस्य पूर्वी-जनपदेषु अतिवृष्टिः सम्भाव्यते। तीव्रवायुप्रवाहात् जलतरंगाच्च उत्तरी-ओडिसायाः तटे सागरस्थितिः प्रतिकूला जाता। विभागेन राज्यस्य बालासोर-भद्रक-केन्द्रपाडा-जगतसिंहपुर जनपदानां केषुचित् भागेषु मध्यवृष्ट्या साके तीनवायोः चक्रवातस्य च सम्भावना प्रकटिता।

गुजरात-प्रकरणम् – अग्निकाण्डे द्वौ आरक्षिबलाधिकारिणौ समेत्य सप्ताधिकारिणः निलम्बिताः

गुजरात प्रशासनेन राजकोट-स्थले टीआरपी-गेम-जोन इत्यत्र अग्निकाण्डे द्वौ आरक्षिबलाधिकारिणौ समेत्य सप्ताधिकारिणः निलम्बिताः । अस्माकं वार्ताहरेण संसूचितं यत् शनिवासरे सञ्जातायां अस्यां दुर्घटनायां न्यूनातिन्यूनं त्रिंशत्-जना मृत्युमुपगताः इति आशंका वर्तते। घटनायाः निरीक्षणाय अतिरिक्तारक्षि-महानिदेशकस्य सुभाष-त्रिवेदिनः अध्यक्षतायां पञ्चसदस्यानां एकस्य विशिष्ट-दलस्य एसआईटी इत्येतस्य निर्माणं कृतम्।

लोकसभा-निर्वाचनम् – सप्तमान्तिमचरणाय च प्रचारभियानं तीव्रतया प्रचलति। राजनैतिकदलानां शीर्षनेतारः जनसभाः मार्गप्रदर्शनं च कुर्वन्ति।

लोकसभानिर्वाचनस्य सप्तमान्तिमचरणाय च प्रचारभियानं तीव्रतया प्रचलति। राजनैतिकदलानां शीर्षनेतारः जनसभाः मार्गप्रदर्शनं च कुर्वन्ति। अस्मिन् चरणे जूनमासस्य प्रथमे दिनांके अष्टराज्यानां सप्तपञ्चाशदासनेभ्यः मतदानं भविष्यति। मतगणना जूनमासे चतुर्थे दिवसे भविष्यति। बिहारराज्ये पटनासाहिब-संसदीय क्षेत्रस्य खुसरूपुर-क्षेत्रे कांग्रेसनेता राहुलगांधी प्रोक्तवान् यत् एनडीए इति प्रशासनं द्विकोटि-युवभ्यः वृत्यवसरस्य प्रदानस्य वचनं न पूरितम्। असौ कथितवान् यत् प्रधानमन्त्री एतदर्थं उत्तरं निज-प्रतिवेदनपत्रे प्रददातु। श्रीगांधी पाटलिपुत्र-आरा-संसदीय क्षेत्रान्तर्गतं पालीगंज-आरा- जनपदयो नैर्वाचनिक-जनसभायाः कृते सज्जो वर्तते। लोकसभा निर्वाचनस्य सप्तमे चरणे जूनमासस्य प्रथमे दिनांके एतेषु क्षेत्रेषु निर्वाचनं भविष्यति। राजदनेता तेजस्वी-प्रसाद यादव: जहानाबाद-लोकसभाक्षेत्रस्य घोसी-क्षेत्रे आक्षिप्तवान् यत् भारतीय जनता पार्टीति दलं संविधानस्यावसानं वाञ्छति। भाजपेतिदलस्य वरिष्ठनेता मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः पाटलिपुत्र संसदीय क्षेत्रात् भाजपा-प्रत्याशिनः समर्थने घटनायाः मनेर-स्थले जनसभाः कुरूते। ओडिसाराज्ये बीजेडी प्रमुखः मुख्यमन्त्री नवीनपटनायकः केन्द्रपारा-लोकसभा-क्षेत्रस्य बरूआ क्षेत्रे जनसमागमं सम्बोधितवान्।

ओडिसा राज्ये विधानसभायाः द्विचत्वारिंशदासनेभ्यः भविष्यमाणाय मतदानाय प्रचाराभियानं चरमावस्थायाम्

ओडिसा राज्ये विधानसभायाः द्विचत्वारिंशदासनेभ्यः भविष्यमाणाय मतदानाय प्रचाराभियानं चरमावस्थायां वर्तते। ओडिसाराज्यस्य मुख्यमन्त्री बीजूजनतादलस्य प्रमुखः च नवीनपटनायकः केन्द्रपाड़ा-संसदीय क्षेत्रस्य अन्तर्गतं बरुआ इत्यत्र एकां जनसभां सम्बोधितवान्। प्रधानमन्त्री भाजपादलस्य वरिष्ठनेता च नरेन्द्रमोदी लोकसभा-विधानसभा निर्वाचनाभ्यां दलस्य प्रत्याशिभ्यः प्रचाराय अस्मिन् सप्ताहे ओडिसायाः यात्रां करिष्यति। श्री अमितशाहः श्वः ओडिसायां चांदबाली-कोरेई-निमापारा इत्येतेषु स्थलेषु जनसभाः सम्बोधयिष्यति। कांग्रेस-दलाध्यक्षः मल्लिकार्जुन खरगे अपि अस्य मासस्य नवविंशति दिनांके ओडिसायां नैर्वाचनिकप्रचारं करिष्यति। कांग्रेस-दलस्य वरिष्ठनेता राहुलगांधी अस्य मासस्य त्रिंशत्-दिनांके सिमुलिया इत्यत्र जनान् सम्बोधयिष्यति। 

अरविन्दकेजरीवालेन स्वास्थ्यनिरीक्षणाय स्वीय-अल्पावधिक-मुक्ति-याचिकां सप्तदिनानि यावत् संवर्धयितुं सर्वोच्च्चन्यायालये याचिका प्रस्तुता

दिल्ल्याः मुख्यमन्त्रिणा आम आदमी पार्टीति दलस्य राष्ट्रिय-संयोजकेण अरविन्दकेजरीवालेन स्वास्थ्यनिरीक्षणाय स्वीय-अल्पावधिक-मुक्ति-याचिकां सप्तदिनानि यावत् संवर्धयितुं सर्वोच्च्चन्यायालये याचिका प्रस्तुता। अत्रावधी प्रर्वतन निदेशालयेन गतसप्ताहे दिल्ल्याः एकस्मिन् न्यायालये श्रीकेजरीवालस्य अल्पावधिक-याचिकाया-समाप्तेरनन्तरं न्यायिक निगडनं चतुर्दश-दिनानि यावत् संवर्धयितुं याचिका प्रख्यापिता।

प्रत्यक्ष-लाभार्थि-हस्तांतरणस्य माध्यमेन जनेभ्यः अष्टत्रिंशत्-लक्ष- रूप्यकाणि आवंटितानि- प्रधानमन्त्री

प्रधानमन्त्री भाजपेतिदलस्य च वरिष्ठः नेता नरेन्द्रमोदी प्रावोचत् यत् आत्मनिर्भर-लक्ष्यान्तर्गतं स्वदैशिकप्रतिभा संवर्धनं वृत्यवसर-क्षमतानां संवर्धनमिति उद्देश्यं वर्तते। एकस्मिन् वार्ता-अभिकरणे स्वीय-साक्षात्कारे श्रीमोदी उक्तवान् यत् प्रत्यक्ष-लाभार्थि-हस्तांतरणस्य माध्यमेन जनेभ्यः अष्टत्रिंशत्-लक्ष- रूप्यकाणि आवंटितानि। प्रधानमन्त्री सबलं प्रत्त्यपादयत् यत् प्रशासनस्य प्रत्येकस्मिन् निर्णयकेन्द्रे राष्ट्रप्रधानं एव भवति।

प्रजानां कल्याणाय दानं अतिविशिष्टं आध्यात्मिक मूल्यमपि वर्तते- राष्ट्रपतिः

राष्ट्रपतिपदासीना द्रौपदामुर्मुः अवदत् यत् निःस्वार्थेण कल्याणस्य भावनया ओतप्रोतं सम्भूय कार्यनिष्पादनं आन्तरिक-आध्यात्मिकतायाः सामाजिक-अभिव्यक्तिः अस्ति। अनया समुदीरितं यत् प्रजानां कल्याणाय दानं अतिविशिष्टं आध्यात्मिक मूल्यमपि वर्तते। राष्ट्रपतिः मुर्मुः ब्रह्माकुमारीज द्वारा नवदिल्ल्याः भारतमण्डपस्थले आयोजिते एकस्मिन् समारोहे शुद्ध-स्वस्थ-समाजयोः कृते आध्यात्मिक-शक्तिकरणस्य राष्ट्रियोद्धाटने एकां जनसभां सम्बोधयन्ती आसीत्। राष्ट्रपतिः अग्रे प्रावोचत् यत् स्वस्थमानसिकतैव समग्रकल्याणं भवतीति। अपि च आध्यात्मिक-शक्तिरणमेव यथार्थ-सशक्तिकरणं वर्तते। अपरत्र आध्यात्मिकमूल्यं सर्वेषां धर्माणां जनान, परस्परं संयोजयति।

व्यायामविद्यायां स्वर्णपदकं विजित्य दीपाकर्माकरेण विरचितः इतिहासः

व्यायाम विद्यायां, उज्बेकिस्तानस्य ताशकंद नगरे एशियन्-चैम्पियनशिप-क्रीडायां भारतस्य प्रथमं स्वर्णपदकं प्राप्य दीपा कर्माकरेण रचितः इतिहासः। त्रिंशतवर्षीया ओलिम्पियन् इत्येषा महिलानां वाल्ट् इत्यस्याम्‌अन्तिमस्पर्धायां त्रयोदश दशमलव पंच षड् अङ्क पञ्जीकृतवती।

यूरोपीय-चरणस्य चतुर्थक्रीडायां भारतम् अर्जेण्टीना-देशं पञ्च- चतुर्भिः अड्कैः पराजयत

हॉकी-क्रीडायां बेल्जियम्-देशस्य आन्ट्व-नगरे एफ. आई. एच. हाकी-प्रो-लीग् इत्यस्य यूरोपीय चरणस्य चतुर्थक्रीडायांभारतम् अर्जेण्टीना-देशं पञ्च- चतुर्भिः अड्कैः पराजयत। तदनन्तरं भारतं जून्-मासस्य प्रथमे दिनाङ्‌के जर्मनी-देशेन सह स्पर्धिष्यति।

 

You Might Also Like

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, International news, National News, अन्तर्राष्ट्रीय समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article Priyanka Gandhi Chamba Rally : मोदी धनशक्त्या सर्वकारं पातुं प्रयतितवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?