विद्यालयप्रबन्धनसमित्या ( SMC) बिजन-ढलवान विद्यालयाय विद्युत्व्यजनानि दत्तानि
हिमसंस्कृतवार्ता- लघ्वीकाशी मण्डी।
राजकीय-उच्च-विद्यालय: बिजन-ढलवान शिक्षाखण्ड सदर-१ जिला मण्डी इत्यस्य विद्यालयप्रबन्धनसमित्या (SMC) बुधवासरे भीषणतापेन छात्रेभ्य: आश्रयं दातुं त्रीणि विद्युत्व्यजनानि दत्तानि यस्य उपयोगः छात्राणां कक्षाकक्षेषु भविष्यति। अस्य उदात्तकार्यस्य कृते विद्यालयस्य बिजन-ढलवानस्य मुख्याध्यापिका मोनिका ठाकुर इत्यनया विद्यालय-प्रबन्धन-समितिं प्रति आभारं प्रकटितम्। मुख्याध्यापिका अवदत् यत् विद्यालयस्य प्रबन्धनसमिति: (एस.एम.सी.) छात्रकल्याणार्थं सहकार्यं कुर्वन् अस्ति। अस्य विद्यालयस्य उन्नयनं २०१७ तमे वर्षे अभवत्। परन्तु अधुना यावत् केवलं कक्षद्वये एव कक्षा: प्रचलन्ति। यस्मात् कारणात् कक्षाणां अभावात् छात्राणां अध्ययने बाधा अभवत्। एसएमसी इत्यनेन सहकार्यं कृत्वा द्वौ कुटीरौ (शेड) सज्जीकृतौ येन छात्राणां कृते कक्षाः उपलभ्यन्ते। संस्कृतशिक्षकः विद्यालयस्य एस. एम. सी. प्रभारी च डॉ. मनोजशैलः अवदत् यत् अस्मिन् विद्यालये एस. एम. सी., शिक्षकाणां समन्वयः अतीव उत्तमः अस्ति। विद्यालयप्रबन्धनसमित्या सह विद्यालयस्य शिक्षका: छात्राणां हिताय विद्यालयस्य च सृजनात्मककार्यक्रमेषु आर्थिकरूपेण समये समये सहकार्यं कुर्वन्ति।