By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राजनैतिकवार्ताराष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/05/14 at 10:43 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

राष्ट्रीया-वार्ता:

  • भारतेन केन्यादेशे जलप्रलयपीडितानां सहायार्थं भारतीयवायुसेनायाः विशेषविमानेन ४० टन औषधानि, चिकित्सासामग्रीः अन्ये च उपकरणानि मानवीयसहायतायाः द्वितीयं भागं प्रेषितम्। भारतेन विद्युत्- उत्पादनसामग्री, मूलभूत-स्वच्छता-सुविधाः, स्वच्छतासामग्री, शिशुभोजनं, मलेरिया- डेंगू- निदानसामग्री, विषविरोधी-उपचाराः च प्रेषिताः।
  • फ्रान्सदेशस्य कान्सनगरे ७७तमः कान्स- चलचित्र- महोत्सवः आरभ्यते। अस्मिन् द्वादशदिवसीयकार्यक्रमे भारतमपि भागं गृह्णाति। भारतीयप्रतिनिधिमण्डले भारतसर्वकारस्य राज्यसर्वकारस्य च प्रतिनिधय: चलच्चित्रक्षेत्रसम्बद्धाः जनाः च सन्ति। अस्मिन् महोत्सवे भारते प्रथमवारं भारतपर्वणः आयोजनं भवति।  चलचित्रमहोत्सवे भारतमण्डपः भारतीयचलचित्रक्षेत्रस्य विविधकार्यक्रमेषु भागं ग्रहीतुं मञ्चरूपेण कार्यं करिष्यति।
  • प्रधानमन्त्रिणा नरेन्द्रमोदिना गतदिवसे वाराणसी- निर्वाचनक्षेत्रात् नामांकनं पूरितम्। अवधेयं वर्त्तते यत् सप्तमे अन्तिमे च चरणे वाराणसीनगरे निर्वाचनं भविष्यति, गतदिवसे अस्य चरणस्य नामाङ्कनं पूरयितुं अन्तिमः दिवसः आसीत्।
  • रामचरितमानसः, पंचतन्त्रः, सहृदयालोक-लोकनश्च यूनेस्को इत्यस्य विश्व- एशिया- प्रशांतक्षेत्रीय- संस्मरणपञ्जिकायां समाविष्टाः सन्ति।  संस्कृतिमन्त्रालयेन उक्तं यत् एषः समावेशः भारतस्य कृते गौरवपूर्णः क्षणः अस्ति, यतोहि अनेन देशस्य समृद्धसाहित्यसांस्कृतिकविरासतां पुनः पुष्यति।
  • नेपालस्य प्रसिद्ध: पर्वतारोही कामी रीता शेरपा सर्वाधिकं माउण्ट एवरेस्ट आरोहणस्य स्वस्य विश्वविक्रमं भङ्गं कृतवान्।  ५४ वर्षीयः अयं पर्वतारोही २९ तमे वारं ८,८४९ मीटर ऊर्ध्वं एतत् शिखरं प्राप्तवान्।

हिमाचलवार्ता: 

  • राजकीय-उच्च-विद्यालय: बिजन-ढलवानस्य छात्रै: लिखिता अन्ताराष्ट्रीया-गीता-ओलम्पियाड- परीक्षा। पूर्वमपि संस्कृत- ओलम्पियाड- परीक्षायामपि विद्यालयस्य छात्रः गौरवः राज्यस्तरे प्रथमस्थानं प्राप्तवान्
  • मंगलवासरे भारतीयजनतापक्षस्य प्रत्याशी चलचित्राभिनेत्री च कङ्गनारणौत देशे सर्वत्र उष्णासनं जातं मण्डीसंसदीयक्षेत्रम् इत्यस्मात् निर्वाचनाधिकारिण: अपूर्वदेवगनस्य समक्षं नामाङ्कनपत्रं पूरितवती। नामाङ्कनात् पूर्वं भाजपया पड्डलप्राङ्गणतः उपायुक्तस्य कार्यालयं प्रति भव्यं मार्गप्रदर्शनं कृतम्। अस्मिन्  सहस्राधिका: भाजपा कार्यकर्तारः भागं गृहीत्वा घोषोद्घोषै: नगरे सर्वत्र नृत्यं गायनं च कृत्वा उपायुक्त- कार्यालयस्य द्वारं प्राप्तवन्तः।
  • हिमाचले लोकसभानिर्वाचनानां विधानसभा- उपनिर्वाचनानां च कृते काङ्ग्रेसस्य शीर्षनेतृत्वेन मंगलवासरे स्वस्य स्टार-प्रचारकाणां सूची प्रकाशिता। स्टार- अभियानकानां सूच्यां काङ्ग्रेस-राष्ट्रीय-अध्यक्षः मल्लिकार्जुन-खड़गे, सोनियागान्धी, राहुलगान्धी, प्रियंका गान्धी, केसी वेणुगोपालः इत्यादयः ४० नेतारः सन्ति।
  • सप्तमे चरणे हिमाचलप्रदेशस्य चतुर्भ्य: लोकसभासनेभ्य:, षट्विधानसभासनेभ्य: च जूनमासस्य प्रथमदिनाङ्के आयोज्य कुलम् ८४ प्रत्याशिन: निर्वाचनसमरे स्पर्धयिष्यन्ति। नामाङ्कनस्य अन्तिमदिने मंगलवासरे कुलम् २७ अभ्यर्थिनः नामाङ्कनं पूरितवन्तः। एतेषु मण्डी संसदीय निर्वाचनक्षेत्रस्य भाजपा प्रत्याशी कङ्गना रणौत अपि अन्तर्भवति। लोकसभानिर्वाचनार्थं पञ्चमहिलासहिताः कुलम् ५१ अभ्यर्थिनः नामाङ्कनं कृतवन्तः, षट् विधानसभाक्षेत्रेषु उपनिर्वाचनार्थं तिसृभि: महिलाभि: सह ३३ अभ्यर्थिनः नामाङ्कनं कृतवन्तः।
  • हिमाचलप्रदेशे लोकसभानिर्वाचनाय भाजपाप्रत्याशीनां प्रचारार्थं तारकप्रचारकाणां सूची प्रकाशिता अस्ति। अस्यां सूचौ प्रधानमंत्री मोदी, जेपी नड्डा सहितं बृहत् भाजपानेतॄणां नामानि समाविष्टाणि सन्ति। २० दिनाङ्कतः परं हिमाचले नेतॄणां सभायाः संख्या वर्धते। सम्प्रति देशस्य अन्येषु राज्येषु निर्वाचनस्य गतिः प्राप्ता अस्ति । २५ दिनाङ्के मतदानस्य षष्ठचरणस्य अनन्तरं हिमाचले २५ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं बहूनां निर्वाचनसभाः अपेक्षिताः सन्ति।

You Might Also Like

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: election news, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himsanskritnews, himsanskritnews headlines, LokSabha Election, National News, News Headlines, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, लोकसभा चुनाव, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article International Gita Olympiad : राजकीय-उच्च-विद्यालय: बिजन-ढलवानस्य छात्रै: लिखिता अन्ताराष्ट्रीया-गीता-ओलम्पियाड- परीक्षा
Next Article Lok Sabha Election 2024 : भाजपया हिमाचले तारक-प्रचारकाणां सूची प्रकाशिता, मोदी-शाह सहित एतानि बृहन्नामानि समाविष्टाणि
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?