International Gita Olympiad : राजकीय-उच्च-विद्यालय: बिजन-ढलवानस्य छात्रै: लिखिता अन्ताराष्ट्रीया-गीता-ओलम्पियाड- परीक्षा
संस्कृत-ओलम्पियाड्-परीक्षायामपि विद्यालयस्य छात्रः गौरवः राज्यस्तरे प्रथमस्थानं प्राप्तवान् अस्ति
हिमसंस्कृतवार्ता- लघ्वीकाशी मण्डी।
केन्द्रीयसंस्कृतविश्वविद्यालयः,नवदिल्ली भारतीयसंस्कृतेः संस्कृतस्य च संरक्षणाय प्रवर्धनाय च छात्राणां मध्ये संस्कृतं संस्कृतिं च प्रति रुचिः निष्ठा च वर्धयितुं समये समये विविधानि कार्याणि आयोजयति। यस्मिन् गतवर्षे संस्कृत-ओलम्पियाडस्य आयोजनं जातम् यस्मिन् राजकीय-उच्चविद्यालयस्य बिजन-ढलवानस्य छात्रः गौरवः राज्ये प्रथमस्थानं प्राप्य स्वर्णपदकं प्राप्तवान्। अधुना केन्द्रीयसंस्कृतविश्वविद्यालयेन गीताज्ञानद्वारा छात्राणां जनमानसः च ज्ञानं वर्धयितुं मंगलवासरे विद्यालयस्य छात्राणां कृते अन्ताराष्ट्रीयगीताओलम्पियाड् ऑनलाइनपरीक्षायाः आयोजनं कृतम्। यस्यां राजकीय-उच्च-विद्यालय: बिजन-ढलवानस्य षट् छात्रा: भागं स्वीकृतवन्त:। विद्यालयस्य संस्कृतशिक्षकः डॉ. मनोजकुमारशैलः अवदत् यत् एषा प्रतियोगिता केन्द्रीयसंस्कृतविश्वविद्यालयेन चतुर्षु स्तरेषु – पार्थस्तरः, कृष्णस्तरः, अर्जुनस्तरः, केशवस्तरः च आयोजिता अस्ति। यस्मिन् पार्थः कृष्णः च स्तरः विद्यालयस्य छात्राणां कृते तथा अर्जुनः केशवः च स्तरः महाविद्यालयस्य छात्राणां सामाजिकानां च कृते अस्ति। । प्रतियोगितायां छात्राणां पृथक् पृथक् प्रवेश-परिचयः कूटाङ्का: च आसन् ।
विद्यालयस्य मुख्याध्यापिका मोनिका ठाकुर अवदत् यत् श्रीमद्भगवद्गीता समाजे उत्तममानवगुणानां विकासाय उपयोगी अस्ति। केन्द्रीयसंस्कृतविश्वविद्यालयस्य इयं अन्ताराष्ट्रीयगीताओलम्पियाडपरीक्षा भारतीयज्ञानपरम्परायाः सार्वत्रिकान् प्रेरणादायकान् च विचारान् जनसामान्येषु छात्रेषु च अवश्यमेव प्रसारयिष्यति। अस्यां गीता-ओलम्पियाड्-क्रीडायां भागं गृह्णन्तः सर्वे छात्राः अभिनन्दन-पात्राः सन्ति तथा च तेन सह विद्यालयस्य संस्कृत-शिक्षकस्य डॉ. मनोज कुमार शैल: अपि यतोहि तस्य प्रयत्नेन विद्यालयस्य छात्राः राज्यस्तरस्य संस्कृतस्पर्धासु भागं गृहीत्वा सम्मानं प्राप्तवन्तः तथा च संस्कृत-ओलम्पियाड्-प्रतियोगितायां विद्यालयस्य छात्रः गौरवः राज्ये प्रथमस्थानं प्राप्य स्वर्णपदकं प्राप्तवान् । डॉ. मनोजकुमारशैलः अपि प्रारम्भिकशिक्षा उपनिदेशकेन संस्कृताय कृतकार्येभ्य: प्रशंसापत्रेण सम्मानितः अस्ति।