मुख्यमंत्री सुखविन्दरसिंहसुक्खुः- विधायककोषः न निरुद्ध:
चिन्ता मा कुर्यात् जयरामठाकुरः
हिमसंस्कृतवार्ता- शिमला।
विधायकक्षेत्रस्य निधिं स्थगयितुं पूर्वमुख्यमन्त्री विपक्षनेता जयरामस्य वक्तव्यस्य उपरि मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः प्रतिवचनम् अकरोत्। पत्रकारैः सह अनौपचारिकं वार्तालापं कृत्वा मुख्यमन्त्री अवदत् यत् कोऽपि विधायककोषः न निरुद्ध: अस्ति। एतत् साधयितव्यं भविष्यति, यतोहि तस्य घोषणा च बजटे कृता अस्ति। जयरामं लक्ष्यं कृत्वा सः अवदत् यत् विधायकः धनार्थं किमर्थम् एतावत् नैराश्यमनुभवति? सः राज्यस्य जनानां विषये चिन्तां कुर्यात्। आपदासमये केन्द्रात् साहाय्यं न याचितवान्। केन्द्रे लम्बितस्य १० सहस्रकोटिरूप्यकाणाम् आपदाश्रयराशिं स्थगयितुं भाजपानेतारः कार्यं कुर्वन्ति इति उक्तवान्।
ध्यातव्यं वर्तते यत् जयरामठाकुरः अधुनैव मण्डीनगरे पत्रकारसम्मेलने राज्यसर्वकारं लक्ष्यं कृतवान् यत् सः विधायकक्षेत्रनिधे: २ कोटिदशलक्षरूप्यकाणां राश्या: अन्तिमांशं न प्राप्तवान्। यदि द्वयोः दिवसयोः अन्तः अंश: न प्राप्यते तर्हि भाजपाविधायकाः प्राथमिकतासभायाः बहिष्कारं करिष्यन्ति इति सः उक्तवान् आसीत्। विपक्षनेता अवदत् यत् सः स्वस्य कार्यकाले बजटे एतस्य प्रावधानं कृतवान्, परन्तु निर्वाचन आचारसंहितायां आरोपणात् अन्तिमांशं दातुं न शक्तवान्। अधुना वर्तमानसर्वकारेण विधायकक्षेत्रनिधे: ५० लक्षरूप्यकाणां अन्तिमांशं स्थगितम् अस्ति।