अल्पसंख्यक: अधिकारदिवसः
डॉ नरेन्द्रराणा सिरमौर: ।
भारते अल्पसंख्यकाधिकारदिवसः अल्पसंख्यकसमुदायानाम् अधिकारानां रक्षणार्थं प्रतिवर्षं दिसम्बरमासस्य अष्टादशदिनाङ्के आचर्यते। अवधेयं वर्त्तते यत् प्रत्येकस्मिन् राष्ट्रे भिन्नाः जातीयभाषिकधार्मिका: अल्पसंख्याकाः समूहाः सन्ति । भारतस्य संविधानेन सर्वेषां नागरिकानां कृते समानाधिकारः प्रदत्तः अस्ति तथा च भाषावैज्ञानिक-जातीय-सांस्कृतिक-धार्मिक-अल्पसंख्याकानां अधिकाराणां रक्षणार्थं अनेकाः उपायाः स्वीकृताः । अपि च, अनुसूचितजनजातीनां अनुसूचितजातीनां च जनानां सहितं तेषां जाति-संस्कृतेः, समुदायस्य च अपेक्षां विना आर्थिकरूपेण सामाजिकरूपेण वा वंचिताः जनाः सन्ति । अत: अयं दिवसः अल्पसंख्यकसम्बद्धानां विषयाणां तेषां सुरक्षायाश्च विषये जनान् प्रेरयितुं शिक्षितुं च केन्द्रितः अस्ति ।
अल्पसंख्यक: अधिकारदिवस:
नमो नमः मित्राणि! अहमस्मि डॉ. नरेन्द्रराणा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। अहं सिरमौर-जनपदस्य कोटी उतरोऊ इत्याख्यस्य ग्रामस्य निवासी अस्मि । किञ्च स्वग्रामात् एव संस्कृतस्य-प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ता: माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment