By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृत भारती -: हरियाणाराज्ये संस्कृतभारत्या: प्रान्तगोष्ठी जाता
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > संस्कृत भारती -: हरियाणाराज्ये संस्कृतभारत्या: प्रान्तगोष्ठी जाता
संस्कृतगतिविधयः

संस्कृत भारती -: हरियाणाराज्ये संस्कृतभारत्या: प्रान्तगोष्ठी जाता

डॉ.अमनदीप शर्मा
Last updated: 2023/12/18 at 9:35 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

संस्कृत भारती -: हरियाणाराज्ये संस्कृतभारत्या: प्रान्तगोष्ठी जाता

संस्कृतभारती हरियाणा (न्यासः) द्वारा करनालस्थे विवेकानन्दविद्यालये प्रान्तगोष्ठी दिसम्बरमासस्य 16-17 दिनाङ्‌कयोःअभवत्।_
कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनेन अभवत् । दीपप्रज्वलनसमये अखिलभारतसहसङ्‌घनमन्त्री श्रीमान् जयप्रकाशगौतमः उपस्थितः आसीत् । अस्मिन् अवसरे वैदिकमन्त्राणाम् उच्चारणमभवत्।
तदनन्तरं सरस्वती वन्दना ध्येयमन्त्रः च अभवत् । अतिथीनां परिचयः प्रान्तसहमन्त्रिणा भूपेन्द्रशर्मणा कारितः। गोष्ठी-प्रास्ताविकं प्रान्तमन्त्रिणा प्रमोदशास्त्रिणा प्रस्तुतम्।मञ्चसञ्चालनं प्रान्तप्रचारप्रमुखेण सतेन्द्रकुमारेण कृतम्।तदनन्तरम् अग्रिमसत्रे अखिलभारतसहसङ्‌‌घटनमन्त्री_ श्रीमान् जयप्रकाशःदायित्वबोध:इति विषयम् अवलम्ब्य कार्यकतॄन् बोधितवान्।महोदयस्य उद्‌बोधनेन सर्वेऽपि कार्यकर्तारः प्रेरिताः, उत्साहिताः, ऊर्जावन्तः अग्रे संस्कृतकार्याय सिद्धाश्च अभवन्। तदन्तरम् विभागशः गोष्ठी अभवत्। तत्र प्रत्येकं विभागे किं किं कार्य जातम्।जनपदसम्मेलनम् प्रबोधवर्ग:च इत्यादिविषयेषु विस्तरेण चर्चा अभवत् । द्वितीयदिवसे प्रातः स्मरणम्, पञ्चाङ्‌गम् ऐक्य-मन्त्रेण दिनस्य शुभारम्भः अभवत्।
तदनन्तरम् अग्रिमसत्रे विभागप्रमुखैः आयामप्रमुखैश्च स्व-स्वविभागस्य स्व-स्वायामस्य वृत्तं प्रस्तुतम्। तत्पश्चात् क्षेत्रसङ्‌घनमन्त्रिणा श्रीमता नरेन्द्रकुमारेण सत्रं स्वीकृतम्।तस्मिन् सत्रे नरेन्द्रमहोदयः बोधितवान् यत् कार्यस्य, कार्यकर्तॄणां कार्यक्षेत्रस्य च वर्धनं कथं भवेत्। सःअग्रे उक्तवान् यत् नैर्यन्तरेण कार्यस्य समीक्षा करणीया।सङ्‌घटनं द्विधा वर्धते – विश्वासेन प्रवासेन च। कार्यवर्धनाय स्नेहबन्धः परमावश्यकःअस्ति। संस्कृतभारत्याः मूलकार्यम् अस्ति सम्भाषण-शिबिरचालनम्।
प्रबोधनवर्गः गुरुकुलसम्मेलनम् इत्यादिविषयेषु विस्तरेण चर्चा अभवत् ।
समापनसत्रे दायित्ववतां कार्यकर्तॄर्णां कार्यविषये स्पष्टता कृता। तदन्तरं नूतनदायित्वानां घोषणा जाता। अन्ते प्रान्तस्य न्यासस्य अध्यक्षेण श्रीमता डॉ रामनिवासमहोद‌येन पाथेयं प्रदत्तम्। महोदयःबोधितवान् अस्माभिःअहर्निशं संस्कृतकार्यस्य चिन्तनं कृत्वा कटिबद्धाश्च भूत्वा कार्यं करणीयम्। उपवेशने अस्मिन् प्रान्तविभागजनपदस्तरस्य सर्वे दायित्ववन्तः कार्यकर्तारः उपस्थिताः अभवन् । कार्यक्रमस्य समापनं कल्याणमन्त्रेण अभवत्।

You Might Also Like

जनगणना-२०२७ इत्यस्मिन् संस्कृतभाषायाः समुचितम् अभिलेखनं व्यापकजनजागरूकता च इत्येतदर्थं समस्तान् संस्कृतानुरागिनः प्रति आह्वानम्

परीक्षा-शुचितायै एन.टी.ए. (NTA) संस्थायाः महत् पदक्षेपः

देवभूमौ हिमाचले भवेत् एकः संस्कृत-विश्वविद्यालयः — कुलपतिना प्रो. बिहारीलालशर्मणा प्रदेशसर्वकारः साग्रहम् अभ्यर्थितः

सम्पूर्णानन्द-संस्कृत-विश्वविद्यालय-वाराणस्याः कुलपतिना प्रो. बिहारीलालशर्मणा सह ‘हिमसंस्कृतवार्ताया:’ पक्षत: डॉ. मनोजशैलेन विहितं शिष्टाचार-मेलनम्

विक्रमजीतसिंहसनातनधर्ममहाविद्यालये दशदिवसीयसंस्कृतसम्भाषणशिबिरस्य भव्यः समापनसमारोहः सम्पन्नः

TAGGED: संस्कृत गतिविधियां, संस्कृत भारती, संस्कृत भारती हरियाणा
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article अमिताभ बच्चन: ‘केबीसी’ इत्यस्य एकस्य प्रकरणस्य कृते ७.५ कोटिरूप्यकाणि गृह्णाति
Next Article अल्पसंख्यक: अधिकारदिवस:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?