By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: लोकसेवा हि मनुष्यस्य परमो धर्मः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > लोकसेवा हि मनुष्यस्य परमो धर्मः
धर्मसंस्कृतिः

लोकसेवा हि मनुष्यस्य परमो धर्मः

डॉ.अमनदीप शर्मा
Last updated: 2023/12/13 at 6:48 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
6 Min Read
SHARE

लोकसेवा हि मनुष्यस्य परमो धर्मः

असमप्रदेशीय: विज्ञानशिक्षक:, नारदोपाध्याय:

न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम् ।
कामये दुःखतप्तानां प्राणिनामार्तिनाशनम् ।।

सर्वादौ श्रीमद्भागवतसदृशस्य भक्तिग्रन्थस्य रचयितारं पराशरपुत्रं, व्यासदेवम्, एवं कथावक्तारौ महान्तौ सुतशुकौ, हनुमत्प्रह्लादादिसमस्तान् परमसेवापरायणान् भगवद्भक्तान्, गोपीवृन्दान्, तथाच श्रीराधासहितं जगद्गुरुं परमेश्वरं श्रीकृष्णं सश्रद्धं वन्दे ।
अस्मिन् क्षणभङ्गुरे संसारे अत्रस्थं विद्यमानं यत्किमपि वस्तुपदार्थादिकं स्यात्, तत्सर्वं कालगत्या विनाशतां गच्छदस्ति । परन्तु कृतायाः सेवायाः फलं न कदापि विनश्यति । ‘कर्मानुगो गच्छति जीव एकः’ इति सूत्रानुसारं सदैव तत्फलं जीवात्मना सह लोकपरलोकादिषु सर्वत्र विचरद् भवति । अतः अस्मात् विनाशशीलात् दुःखरूप-संसारात् मुक्तिप्राप्त्यर्थं या वेदोक्तकर्मोपासना, सा ज्ञानेन समाना कथ्यते । कर्मसेवातः ज्ञानं, ज्ञानात् च भक्तिः सिध्यति । संस्कृतवाङ्मयस्य स्पष्टम् उद्घोषणं यत् –
‘सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ।।’

अर्थात् अस्मिन् मृत्युलोके स्वर्णपुष्पिता भगवती वसुन्धरा त्रिविधपुरुषाणां चयनं करोति, ये च वसुन्धरायाः स्वर्णपुष्पवत् स्युः । तेषु प्रथमः – ‘वीरभोग्या वसुन्धरा’ इति वचनस्य चरितार्थं कुर्वाणः वीरपुरुषः । द्वितीयः स हि, यो विद्यायां पारङ्गतो भूत्वा सर्वत्र पूजितो भवेत् । एवञ्च तृतीयः सः, यो निष्ठापूर्वकं प्राणिमात्रस्य सेवां कुर्वाणः सेवकः स्यादिति ।
सेवा-शब्दः ‘सेवृ-सेवने’ इति धातुतो निष्पन्नोऽस्ति । एतस्यार्थो दर्शनं, भक्तिः, सेवाकार्यम् इत्याद्यर्थे प्रयुज्यते । सेवार्थकाः पर्यायवाचिनः शब्दाः एवं भवेयुः – भक्तिः, परिचर्या, प्रसादना, शुश्रूषा, उपास्ति, वरिवस्या, परिष्टिः, उपचारः चेति । सर्वेऽपि मनुष्याः सर्वविधकार्यार्थं न सिद्धाः, सर्वेषां क्षमता भिन्ना भिन्ना भवति । ये केचन यदि शिक्षया उपजीविकां प्राप्नुयुः, तर्हि ते शिक्षोपजीविनः कथ्यन्ते । एवं प्रकारेण केचन वाणिज्योपजीविनः, केचन श्रमोपजीविनः, अन्ये केचन च सेवोपजीविनो भवेयुः । एवमेव जनसमाजः असदृशप्रकारकाणां जनानां समन्वयेन सङ्घटितो वर्तते, तथाच एकेन अपरस्य सहयोगात् हि समस्त-कार्यव्यापारः प्रचलन् भवति लोके । अयं समाजो यादृशः, तादृशं हि मानव-शरीरम् अपि । शरीरं विविधैः अङ्गैः रचितमस्ति । अस्मिन् सर्वेषाम् अङ्गानां कार्यं पृथक्पृथक् । यथा, सर्वाङ्गानां योगदानेन हि शरीरं सन्तुलितं भवति, तद्वत् समाजस्य प्रत्येकं जनेन स्वकार्यस्य सम्यक्तया सम्पादनं क्रियेत चेन्मात्रं समाजः सुचारुरूपेण अग्रे प्रचलति । अतः एकजनस्य कार्यं नाम अपरस्य कृते सेवा स्यात् । अस्मिन्नेव अभिप्राये भक्तकविः गोस्वामी तुलसीदासः कथयति –
‘सेवक कर पद नयन से मुख सो साहिबु होइ ।
तुलसी प्रीति कि रीति सुनि सुकबि सराहहिं सोइ ।।’
इति । (दोहावली – ५२३)

एतस्य भावो यत् सेवकः सदा हस्तपादनेत्राद्यङ्गवत् भवेत्, स्वामी च मुखसमानः स्यात् । इत्थं प्रकारेण स्वामिसेवकयोः प्रशंसनं सुकवयः कुर्वन्ति इति । अभिप्रायो यत् यथा मुखं स्वयं भोजनं कुर्वत् सर्वेषां अङ्गानां पोषणं करोति, तथैव स्वामी अपि सेवकस्य सम्यक्तया पोषणं करोति इति । गोस्वामिना सम्यक् हि उक्तम् –
‘मुखिआ मुखु सो चाहिऐ खान पान कहुं एक ।
पालइ पोषइ सकल अङ्ग तुलसी सहित बिबेक ।।’

इति । (दोहावली- ५२२)
सेवा न केवलं स्वामिनो हि भवति, अपितु निःस्वार्थभावेन स्वमित्रं, पुत्रः, पत्नी, पतिः, गुरुजनः, माता, पिता, स्वजनः, समाजः, राष्ट्रं, पशुः, प्राणी इत्यादीनां सर्वेषां भवति । सेवा सदैव ईश्वरीयभावेन कर्तव्या, तदा हि सेवायाः महत्त्वं वर्धते । समाज हि प्रभोः एकविराट्स्वरूपः कथ्यते ।
‘सीय राममय सब जग जानी ।
करउं प्रनाम जोरि जुग पानी ।।’

(रा०च०मा०)
निःस्वार्थसेवा नाम प्रभुपूजा समाना । येन सेवाधर्मः स्वीकृतः, तेन जीवनसुखं प्राप्तमेव । सेवायाः अर्थो हि स्वार्थं विहाय परमार्थः, त्यागः, बलिदानं चेत्यस्य मार्गस्य स्वीकरणम् । भर्तृहरेः कथनं यत् ‘सेवाधर्मः परमगहनो योगिनामप्यगम्यः ।’ इति ।
अर्थात् सेवाधर्मो योगिनामपि अगम्यः, अत्यन्तं कठिनश्च । सेवाभावेन प्रेरितः सन् यः कोऽपि मनुष्यो यदि प्राणिमात्रस्य सेवां करोति, तर्हि तस्य ग्रन्थीनां छेदनं जायते, विशेषतः अहंग्रन्थिकायाः । यदा अहंभावो विगलितो भवेत्, एवं सेवाभावो विकसितः स्यात् तदा अवसादादिकं निषेधात्मकतत्त्वं, कुण्ठाबोधः च निर्मूलीभवतः, ततो जीवनदायक-मूल्यानां प्रतिष्ठा भवति, एवं जीवने ‘सत्यं शिवं सुन्दरम्’ इति भावस्य उदयो भवति । सेवाधर्मस्य स्वीकरणानन्तरं मनुष्यस्य संकीर्णतागर्ततः उद्धरणम्, उत्थानं च भवति, तथा ‘सोऽहम्’ इत्यस्य विस्तारः जायते । सङ्कीर्णता नाम मृत्युः, एवं विस्तारो नाम जीवनं स्यात् । मोहः सङ्कीर्णताम् आवहति, प्रेम च व्यापकं भवति । यदा हृदयं सेवाभावेन परिपूर्णं स्यात्, तदा मनुष्यस्य अहंग्रन्थेः उदात्तीकरणं सहजतया सम्भवति, मिथ्याहंभावः न तिष्ठति, न वा क्वापि व्यक्तिगत-प्रतिष्ठायाः प्रश्नो हि उदेति । तस्य कृते सेवा, परोपकारः च सर्वोपरि भवति । सः अहङ्कार-ईर्ष्या-द्वेष-घृणादिभ्यः विमुक्तः स्यात्, तस्य दृष्ट्यां सर्वं समानं, न वा लेशमात्रमपि उच्च-नीचत्वं तिष्ठेत् । अहङ्कारः नाम कश्चन व्याधिरेव, यः मनुष्यम् अहर्निशं तुदेत् । अत एव भारतस्य सर्वेऽपि सज्जनाः दीनदुःखिनां सेवा हि परम-पुण्यप्रदा इति उक्तवन्तः ।
सेवाव्रतिनां कृते प्राणिमात्रं सेव्यं भवति । व्यक्तिः कुटुम्बार्थं, कुटुम्बं राष्ट्रार्थं, राष्ट्रञ्च मानवतार्थं भवति । सेवाव्रतस्य धारणं नाम मानवतायाः उपासना । तस्मात् अखिलविश्वम् एकं कुटुम्बवत् भवति – ‘वसुधैव कुटुम्बकम्’ इति । वास्तविकः सेवकः सः, यः कस्यचन प्रेम्णा सेवां करोति, तस्य अपेक्षा यत् सेव्यस्य सुखप्राप्तिः स्यादिति । परन्तु यः आयवेतनादिकस्य उपरि आश्रित्य सेवाम् आचरेत्, सः सेवकः न कथ्यते । सः तु स्वार्थी हि केवलम् । तादृशी सेवा स्वार्थोपेता सेवा उच्यते । सः हि मूलतः सेवकः, यः आत्मनः कृते सुखस्वार्थं न इच्छति, केवलं स्वामिनः, परेषां च कृते सुखं प्रापयितुम् इच्छति । शबरी अन्धकारसमये अपि दूरं यावत् मार्गस्य मार्जनम् अकरोत्, किमर्थम् इत्युक्ते अनेन मार्गेण हि रामः आगच्छेत् इति आशया ।
जो सेवक साहिबहि संकोची ।
निज हित चहइ तासु मति पोची ।।

(रा०च०मा० २/२६८/४)
यः सेवकः स्वामिनं सङ्कोचे पातयित्वा स्वसुखम् इच्छेत्, सः तु दुर्बुद्धिः हि स्यात् । अत एव संसारे पुत्रः, स्त्री इत्यादियुक्तः यः परिवारः स्यात्, सः स्वकीयः इति अमत्वा भगवतः हि स्यादिति मन्तव्यम् । कृषिः, वाणिज्यं, व्यापारः, पदप्रतिष्ठा इत्यादिकमेतत् सर्वमपि भगवतः सेवार्थं हि स्यादिति मन्तव्यं मनुष्यैः । सेवायाम् अनन्यतायाः आवश्यकता भवति । तस्मात् व्यासदेवः आह यत् यदपि कार्यं क्रियेत, तत् नारायणाय समर्पणीयमिति –
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वानुसृतस्वभावात् ।
करोति यद् यत् सकलं परस्मै
नारायणायेति समर्पयेतत् ।।
(श्रीमद्भा० ११/२/३६)

       L

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

चालदा महासु महाराज : – हिमाचले प्रवेशे एव शिविकाधारकाः परिवर्तिता:, ३ किलोमीटरक्षेत्रे वितानानि स्थापितानि, ५०,००० जनानां कृते भोजः च अभवत्, अतिविशिष्टायोजनम्

GITA JAYANTI 2025 – कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालये साडम्बरं गीताजयन्त्युत्सवः परिपालितः

GITA JAYANTI – गीताजयन्त्युत्सवपरिपालनेन सर्वदर्शनमन्थनपरिषदः १०८ व्याख्यानमालासु षोडशतमं व्याख्यानं सुसम्पन्नम्।

धर्मशालायां भक्तैः सश्रद्धया आचरितः श्रीसत्यसाईंजन्मोत्सवः

TAGGED: जनसेवा का महत्व, लोक सेवा, श्रीमद् भागवत पुराण में सेवा का महत्व, सेवा, सेवा का महत्व
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article अजकला रे छोरुआं रा बखरा ई कम्म- रविन्द्रकुमार
Next Article SENSEX शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?