By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: धर्मशालायां भक्तैः सश्रद्धया आचरितः श्रीसत्यसाईंजन्मोत्सवः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > धर्मशालायां भक्तैः सश्रद्धया आचरितः श्रीसत्यसाईंजन्मोत्सवः
धर्मसंस्कृतिःहिमाचलवार्ता

धर्मशालायां भक्तैः सश्रद्धया आचरितः श्रीसत्यसाईंजन्मोत्सवः

डॉ.अमनदीप शर्मा
Last updated: 2025/11/23 at 9:12 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
1 Min Read
SHARE

धर्मशालायां भक्तैः सश्रद्धया आचरितः श्रीसत्यसाईंजन्मोत्सवः
हिमसंस्कृतवार्ताः डॉ.अमनदीप शर्मा। नवम्बरमासस्य २३ दिनांकः श्रीसत्यसाईंबाबा इत्यस्य प्राक्ट्योत्सवरूपेण आविश्वे भक्तजनैः सश्रद्धया आचर्यते। अस्मिन् वर्षे इतोऽपि हर्षेण उत्सवोऽयं मानितः। वस्तुतः वर्षोऽयं भगवतः साईंदेवस्य शताब्दसमारोहत्वेन सर्वत्र मान्यते। गतसप्ताहे आन्ध्रप्रदेशस्य पुट्टापर्थी इति स्थानके यत्र श्रीसत्यसाईंबाबा इत्यस्य दिव्यधामः विराजते तत्र भव्ये एकस्मिन् कार्यक्रमे देशस्य प्रधानमन्त्रिणाऽपि आशीर्वादः ग्रहीतः। श्रीसत्यसाईंदेवस्य शताब्दीसमारोहे भारतस्य विविधेषु प्रान्तेषु विविधाः साप्ताहिकाः कार्यक्रमाः आयोजिताः, तत्रैव हिमाचलप्रदेशेऽपि कार्यक्रमस्य उत्साहः सर्वत्र दृश्यते। रविवासरे २३ दिनांके धर्मशालायाः रामनगरस्थे शिवनगरे श्रीसत्यसाईदेवस्य भव्ये मन्दिरे हवनादिभिः कृत्यैः कीर्तनारार्तिक्यैश्च शताब्दजन्मोत्सवः भक्तैः आचरितः। अस्मिन् अवसरे कार्यक्रमस्य विषये प्रतिपादयन् साईभक्तः मदनशर्मा उक्तवान् यत् अस्मिन् सम्पूर्णे सप्ताहे धर्मशालानगरे शताब्दसमारोहस्य पूर्णः आसीत्, यत्र रथयात्राभिः कीर्तनैः च सम्पूर्णं नगरं गुञ्जायमानमिव शोभायमानं जातम्। मदनशर्मणोक्तं यत् श्रीसत्यसाईंसेवासंगठनं न केवलं धार्मिकोत्सवेषु संलग्नः भवति, अपितु सेवाकार्येषु सर्वदा अग्रे तिष्ठति। धर्मशालायाः चिकित्सालये संगठनेन निःशुल्कभोजनव्यवस्था सञ्चाल्यते, तत्रैव बालविकासस्य गतिविधिष्वपि विशेषावधानं दीयते। ध्यातव्यमस्ति यत् श्रीसत्यसाईंबाबा इदानीं स्थूलरूपेणास्यां धरायां न विद्यते परञ्च तस्य कोटिशः भक्तानां हृदयेषु तस्यानुभूतिः सदैव विद्यमाना अस्ति।

You Might Also Like

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

व्यवस्थापरिवर्तनेन राज्ये “नीलक्रान्तिः” इत्यस्य आरम्भं भवति, युन: स्वग्रामेषु जीविका: लप्स्यन्ते

एम्स् बिलासपुरे हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्या सटीकं, सुरक्षितं च सुलभं चिकित्सोपचारं भविष्यति

PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article *गाजोल-महाविद्यालये अनुसंधानप्रस्तुतीकरणयोः कौशलविकासाय राष्ट्रीयसिम्पोजियम् आयोजितम्* 
Next Article गाजोलमहाविद्यालये एकदिवसीया व्याख्यानमाला गौरवपूर्णतया सम्पन्नम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?