SENSEX ; शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः
(हिमसंस्कृतवार्ताः – दिलीप: (नादौनम्)
बुधवासरे शेयरविपणौ उत्थान-अवस्था अनुभूता । ततः परं कालवृद्धेः कारणात् सेन्सेक्सः ३३.५७ अंकाः अथवा ०.०४८% लाभं प्राप्य ६९,५८४.६० इति स्थले आगत्य स्थिर: अभवत् । प्रातःकाले ६९,६४८.५६ अंकैः सह सेन्सेक्सः उद्घाटितः। तदनन्तरं शीघ्रमेव क्षयः अभवत् तथा च मध्याह्ने १२.०० वादनस्य समीपे सेन्सेक्सः ६९,१००.५६ इति न्यूनतमस्तरं प्राप्तवान् । पश्चात् यदा क्रेतारः सक्रिया: अभवन्। तदा विक्रेतृणां दबावः दुर्बलः अभवत् तथा च सेन्सेक्सः हरितवर्णात् उपरि आरुह्य निमीलितः अभवत् । ५० शेयरयुक्त: बी०एस०ई० बेन्चमार्क निफ्टी २०,९२६.३५ इति मूल्ये समाप्तः, यः १९.९५ अंकाः अथवा ०.०९५ प्रतिशतं अधिकः अभवत् ।