By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: दीपावली– प्रकाशपर्व आत्मज्योतिषः उत्सवः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > दीपावली– प्रकाशपर्व आत्मज्योतिषः उत्सवः
दिवसविशेषःधर्मसंस्कृतिः

दीपावली– प्रकाशपर्व आत्मज्योतिषः उत्सवः

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2025/10/19 at 11:34 PM
डॉ.निशिकान्तः पाण्डेयः
Share
6 Min Read
SHARE

दीपावली– प्रकाशपर्व आत्मज्योतिषः उत्सवः

डाॅ. रणजीत कुमार तिवारी
सहाचार्योध्यक्षः
सर्वदर्शनविभागः
कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयः

दीपज्योतिः परब्रह्म दीपज्योतिर्जनार्दनः।
दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तु ते॥
शुभं करोति कल्याणमारोग्यं धनसंपदा।
शत्रुबुद्धि–विनाशाय दीपज्योतिर्नमोऽस्तु ते॥
दीपस्य ज्योतिः एव ईश्वरस्वरूपा, परब्रह्मरूपा च। सा अज्ञानाधर्मयोः अन्धकारं नाशयति। यदा वयं दीपं प्रज्वालयामः, तदा सः केवलं बाह्यं प्रकाशं न करोति,
अपितु अन्तःकरणस्थितं पाप-तम-दुष्टविचारांश्चापि निवारयति।
दीपः मङ्गलस्य, समृद्धेः, सुस्वास्थ्यस्य च प्रतीकः अस्ति।
अस्य ज्योतिः शुभविचारान्, निर्मलभावान्, सत्कर्माणि च प्रेरयति।
दीपप्रज्वलनं तु जीवनस्य प्रत्येकक्षणे सकारात्मकभाव-ज्ञान-दयादाक्षिण्स्य च प्रसारणं सूचयति।
अज्ञानरूपद्वेष-अहङ्काररूपतमश्च अपहृत्य जीवनं प्रकाशमयं करोति।
एतेन श्लोकद्वयेन अस्माभिः ज्ञायते यत् दीपः केवलं रोचनं प्रकाशं च न ददाति,
सः एव ईश्वरः, यः अस्माकं जीवनं शुभता–ज्ञान–कल्याण–प्रकाशेन पूरयति।

भारतीयसंस्कृतेः परम्परायां दीपावली सर्वेषु उत्सवेषु शोभनतमा, पवित्रतमा च अस्ति।
एषा केवलं दीपप्रज्वलनस्य सन्धिः न, किन्तु तमसः प्रकाशं प्रति, अज्ञानाज्ज्ञानं प्रति, मिथ्याचरणात् सत्यं प्रति च गमनस्य प्रतीकः अस्ति।
दीपावली भारतीयपरम्परायाः तस्य दिव्यरूपस्य प्रत्यक्षाभिव्यक्तिरस्ति,
यस्मिन् बाह्यालोकेन सह अन्तर्स्थितात्मज्योतिरपि प्रबुद्धा भवति।
दीपावली केवलं गृहसज्जायां वा दीपशोभायां नास्ति, अस्य सारः अन्तःकरणे जागरणे एव अस्ति, यः मनुष्यस्य स्वस्य अन्तर्स्थितं प्रकाशं प्रत्यभिज्ञापयति।
यदा जगत् सर्वमन्धकारे आच्छादितो भवति,
तदा भारतस्य प्रत्येकगृहे, प्रत्येकहृदये च दीपाः प्रज्वाल्यन्ते । ते उद्घोषयन्ति यत् प्रकाशान्धकारयोः मध्ये प्रकाशः सदैव जयति। एषा एव सनातनसंस्कृतेः आत्मा,
या युगयुगान्तरम् उद्घोषयति – ‘तमसो मा ज्योतिर्गमय’ अर्थात् हे प्रभो! अन्धकारात् प्रकाशं नय। दीपप्रकाशः केवलं गृहाणि न आलोकयति,
अपि तु विचारान्, भावनाः, कर्माणि च आलोकयति।
दीपस्य लघुज्योतिः अस्मान् स्मारयति यत्
जीवनस्य सारः केवलं स्वार्थजीवने नास्ति अपितु परार्थप्रकाशे एवास्ति।
यथा एकः दीपः अन्यं दीपं ज्वालयन्नपि अविनश्यभावेन स्वयमपि प्रकाशितो भवति,
तथैव यदा वयं ज्ञान-प्रेम-करुणां च वितरामः,
तदा जगदधिकं प्रकाशितं भवति।
दीपावली कालदेशादीनाम् परिसीम्नि न वर्तते ।
उत्सवोयं शिक्षयति यदा वयम् अन्तस्तमः, अविद्याम्, क्रोधम्, लोभम्, ईर्ष्याम् अहङ्कारं च नाशयामः,
तदा एव आत्मज्योतिः प्रज्वलति।
यदा हृदये शान्तिः, ज्ञानं, करुणा च जाग्रति,
तदा एव सच्चिदानन्दमयी दीपावली भवति।
भारतीयसंस्कृतेः प्रत्येकम् उत्सवः कश्चन गूढार्थं वहति।
दीपावली अपि केवलं बाह्य–उल्लासस्य पर्व न, अपितु अहङ्काराद् आत्मतत्त्वं प्रति, भोगात् योगं प्रति,
संसारात् संस्कारं प्रति नेतुं प्रेरयति।
यथा दीपस्य ज्योतिः सदैवोर्ध्वं गच्छति,
तद्वदेव उच्चादर्शेषु, श्रेष्ठकर्मसु, निर्मलविचारेषु च मानवजीवनमपि निरतम् ऊर्ध्वगामी भवेत् ।
दीपावली अस्मान् बोधयति यत् यथार्थप्रकाशः बाह्ये न,
अपि तु अन्तरात्मनि एव।
यदा मनसि दीपः प्रज्वलति, तदा जगदपि सत्येन आलोकितं भवति।

धार्मिक–सामाजिक–आध्यात्मिक–महत्त्वम् – दीपावलीः भारतीयसंस्कृतेः एतादृशः उत्सवः अस्ति, यस्मिन् धर्मः, समाजः, आत्मा च एकत्र आलोकमयाः दृश्यन्ते।
एतत् केवलं पूजापाठस्य दिनं न,
अपि तु धर्मे श्रद्धायाः, समाजे सौहार्दस्य, आत्मनि चेतनायाश्च पुनर्जागरणस्य प्रतीकः। दीपावली अनेकपवित्र–अवतार–घटनाभिः सम्बद्धा।
प्रसिद्धतमा कथा श्रीरामस्य वर्तते। यदा सः सीता-लक्ष्मणाभ्यां च सह वनवासं समाप्त्य अयोध्यां प्रत्यागच्छत्, तदा सम्पूर्णं नगरं दीपैः आलोकितं जातम्।
तत्तु केवलं राजस्य प्रत्यागमनं न अपितु धर्म–मर्यादा–आदर्शस्य पुनर्स्थापनस्य उत्सवः आसीत्।
अयोध्यायाः प्रत्येकदीपः सन्देशं ददाति – अधर्मः यथा प्रबलोऽपि स्यात्, अन्ततः धर्म एव विजयी भवति।
जैनधर्मेऽपि एषः दिवसः पवित्रः,
यतः एतस्मिन् दिने भगवान् महावीरः निर्वाणं प्राप।
अयं तु आत्मनः परममुक्तेः, प्रकाशस्य च चरमावस्थायाः प्रतीकः।
दीपावल्याः दीपाः जैनपरम्परायाम् आत्मज्ञानज्योतिषः स्मरणं कुर्वन्ति,
या बन्धनानि भित्वा शुद्धचेतनायां प्रतिष्ठापयति।
सिखपरम्परायाम् एषः दिवसः “बन्दीछोडदिवस” इति पूज्यते।
एतस्मिन् दिने ‘गुरुहरगोविन्दजी’ नाम्नः महान् मनीषीकल्पः
मुगलाततायिशासकस्य कारागारात् सवतन्त्रताप्रेमिबद्धनां मुक्तिं कारितवान्।
अतः सः दिवसः केवलं धार्मिकः न, अपि तु मानवता–करुणा–स्वातन्त्र्यस्य आदर्शः।
आर्यसमाजेऽपि एषः दिनः महर्षेः दयानन्दस्य समाधिदिवसः इति श्रद्धया मन्यते।
ते ज्ञानसत्ययोः दीपः आसन्, येन अन्धविश्वास–अविद्या–रूढीनां तमः नाशितः।
एवं दीपावलीः केवलम् एकस्य धर्मस्य पर्व न,
किन्तु सर्वधर्म–समन्वयस्य प्रतीकः।

रामधर्मदीपः, महावीरनिर्वाणज्योतिः, गुरुकरुणालौः दयानन्दसत्याग्निश्च —
सर्वेऽपि एकस्य प्रकाशस्य स्वरूपाः।
दीपावली उद्घोषयति — विविधेषु मतेषु स्थिताः ज्योतिषः एकैव सन्ति —
आत्मप्रकाशस्य ज्योतिः, या सर्वान् एकत्र बध्नाति, समरसतां जनयति, विश्वं च आलोकयति।
आधुनिकसन्दर्भे दीपावली
कालपरिवर्तनेन दीपावली अपि स्वरूपं परिवर्तयति।
यत्र पूर्वं एषा आत्मालोक–पारिवारिक–एकतानां पर्व आसीत्,
तत्र अधुना केषुचित् स्थलेषु भौतिक–उपभोग–प्रतिस्पर्धारूपेण दृश्यते।
इदं परिवर्तनं युगप्रवृत्तेः परिणामः अस्ति,
तथापि दीपावल्याः वास्तविकसन्देशः गम्भीरः, संयमितः, सुसंस्कृतश्च अस्ति।
सा अस्मान् स्मारयति, विकासः केवलं बाह्यवैभवे न,
किन्तु अन्तःशुद्धौ, संयमे, करुणायां च निहितः।
पर्यावरणीयचेतना —
यदा पृथ्वी ध्वनिधूमाभ्यां दूष्यते,
तदा दीपावल्यां पर्यावरणचिन्ता अत्यन्तावश्यकाः।
अत्यधिकपटाखोपयोगः, रासायनिकवर्णाः च —
एते सर्वे न केवलं प्रदूषणं जनयन्ति,
किन्तु पक्षी–पशु–प्रकृतिसन्तुलनाय अपि घातकाः।
सत्योत्सवः सः एव यः प्रकृत्या सह सामञ्जस्यं स्थापयति।
अतः अस्माभिः हरित–दीपावली इति सङ्कल्पः कर्तव्यः —
मृददीपैः, पुष्पैः, प्राकृतिकवर्णैः च सज्जां कृत्वा,
वृक्षारोपणेन च पृथ्वीमित्र–उत्सवः करणीयः।
दीपस्य प्रकाशः शिक्षयति — अल्पसाधनेन अपि महानुज्ज्वलं कारयितुं शक्यते।
एकः लघु–दीपः अपि घनतमसः नश्यति करोति —
एषः , आत्मबलस्य आशायाः च प्रतीकः।
यदि वयं स्वच्छता–संयम–संवेदनां च स्वीकुर्मः,
तर्हि दीपावली केवलं गृहे न, अपि तु पृथिव्याः सर्वत्र शान्त्याः, आनन्दस्य च आलोकं वितरिष्यति।
मानवतासेवायाः सन्देशः —
दीपावली केवलं स्वसुखस्य पर्व न,
किन्तु सामूहिकसुखस्य उत्सवः।
यदा वयं स्वसमृद्धेः अंशम् अन्येभ्यः दद्मः,
तदा दीपावली पूर्णार्था भवति।
निर्धनगृहे दीपप्रज्वलनम्, अनाथालये मिष्टान्नदानं, वृद्धाश्रमे सेवा च —
एषः एव अस्य पर्वणः सच्चिदानन्दभावः।
दीपस्य अर्थः — केवलम् आत्मालोकनं न, अपि तु अन्येषां तमोनिवारणम्।
दीपावली अस्मान् शिक्षयति — मानवता एव परमो धर्मः।
अन्येषां मुखे हास्यं लप्स्यते चेत्, तद् एव सर्वोच्चं पूजनम्।
नवजागरणस्य प्रेरणा
दीपस्य प्रकाशः केवलम् एकदिवसस्य उत्सवः न भवतु,
अपि तु जीवनमार्गदर्शनं भवतु — एतदेव अस्य प्रकृतप्रयोजनम्।
प्रत्येकदीपः अस्मान् स्मारयति —
अन्धकारेऽपि आशाज्योतिः प्रज्वालयितुं शक्यते।
विचारेषु सत्यप्रकाशः, कर्मसु सदाचारतेजः,
आचरणे सेवालोकश्च लभ्यते चेत् — तदा एव दीपावली यथार्था।
एषा शिक्षयति — प्रकाशशक्तिः बाह्ये न, अन्तःकरणे एव।
सा आत्मज्योतिः सर्वान् एकत्र बध्नाति, सर्वेषु प्रेमप्रवाहं सञ्चारयति।
अतः आगच्छाम — अस्मिन् दीपावल्यां वयं सर्वे प्रतिजानीमहि
हृदये सत्यदीपम्, मनसि शान्तिदीपं जीवने मानवतादीपं च प्रज्वालयाम।
एषा एव सच्चिदानन्दमयी दीपावली,
यत्र प्रत्येकहृदयम् आलोकितं भवति, प्रत्येकजीवनम् आह्लादितं
सम्पूर्णं जगद् आत्मज्योतिषाऽऽवृतं च भवति।

You Might Also Like

पण्डितअटलबिहारीवाजपेयी महोदयस्य व्यक्तित्वं कृतित्वं च(जन्मदिवसविशेष:)

चालदा महासु महाराज : – हिमाचले प्रवेशे एव शिविकाधारकाः परिवर्तिता:, ३ किलोमीटरक्षेत्रे वितानानि स्थापितानि, ५०,००० जनानां कृते भोजः च अभवत्, अतिविशिष्टायोजनम्

*सामसीमहाविद्यालये- गीताजयन्तीमहोत्सवः पालितः* 

*गीताजयन्त्युत्सवपरिपालनेन सर्वदर्शनमन्थनपरिषदः १०८ व्याख्यानमालासु षोडशतमं व्याख्यानं सुसम्पन्नम्।* 

GITA JAYANTI 2025 – कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालये साडम्बरं गीताजयन्त्युत्सवः परिपालितः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article *केन्द्रीयसंस्कृतविश्वविद्यालयस्य ओलंपियाड२०२५ इत्यस्य पुरस्कारवितरणी समारोहानुष्ठानम्* 
Next Article अनुष्ठानात् संवादे संलग्नता अधिका महत्त्वपूर्णा भवति – दलाई लामा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?