By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: प्रियङ्का गान्धी बालकेभ्यः सन्देशं प्रेषितवती, उक्तवती—निराशाः मा भवत, ऋतु: सम्यक् भवति चेत् अवश्यं मिलितुम् आगमिष्यामि
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > प्रियङ्का गान्धी बालकेभ्यः सन्देशं प्रेषितवती, उक्तवती—निराशाः मा भवत, ऋतु: सम्यक् भवति चेत् अवश्यं मिलितुम् आगमिष्यामि
हिमाचलवार्ता

प्रियङ्का गान्धी बालकेभ्यः सन्देशं प्रेषितवती, उक्तवती—निराशाः मा भवत, ऋतु: सम्यक् भवति चेत् अवश्यं मिलितुम् आगमिष्यामि

डॉ मनोज शैल
Last updated: 2026/08/18 at 10:21 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

प्रियङ्का गान्धी बालकेभ्यः सन्देशं प्रेषितवती, उक्तवती—निराशाः मा भवत, ऋतु: सम्यक् भवति चेत् अवश्यं मिलितुम् आगमिष्यामि

हिमसंस्कृतवार्ता: – शिमला।

ऋतो: प्रतिकूलतायाः कारणेन मण्डीजनपदस्य देउरी इत्यत्र आयोजिते कार्यक्रमे प्राप्तुं न शक्नुवती काङ्ग्रेस-महासचिवा तथा सांसद् प्रियङ्का गान्धी बालकेभ्यः सन्देशं प्रेषयित्वा तेषां उत्साहं वर्धितवती। मुख्यमन्त्रिणः राजनैतिक-सलाहकारः सुनील शर्मा बिट्टू समारोहस्थले तस्याः सन्देशं पठित्वा श्रावितवान्। प्रियङ्कया उक्तम्—“बालकाः, यूयं निराशाः मा भवत। यदा एव ऋतु: सम्यक् भविष्यति, तदा अहं युष्माभिः सह मिलितुं अवश्यं आगमिष्यामि।”

प्रियङ्का गान्धी देउरी-स्थले वर्षे २०२३ तमे घटितायाः प्राकृतिक-आपद: समयस्य परिस्थितीनां स्मरणं कुर्वती उक्तवती यत् १२ सितम्बर २०२३ दिनाङ्के सा स्वनेत्राभ्यां एतां त्रासदीं दृष्टवती आसीत्।

तदनन्तरं गतत्रिषु वर्षेषु जनाः परिश्रमेण धैर्येण च क्षतिग्रस्तं विद्यालयभवनं पुनः निर्मितवन्तः, यत् प्रशंसनीयम् अस्ति। अधुना नूतनभवने बालकानां कक्षाः प्रारब्धाः सन्ति।

बालकैः सह संवादं कुर्वती प्रियङ्का उक्तवती यत् विद्यालयः केवलं अध्ययनस्य स्थानं नास्ति, अपितु स्वप्नानां कौशलस्य च विकासाय उड्डयनस्य माध्यमम् अपि अस्ति। कश्चित् अभियन्ता, चिकित्सकः, क्रीडकः, कलाकारः अथवा अभिनेता भवितुम् इच्छति। बालकानां कौशलस्य विकासस्य आरम्भः विद्यालयादेव भवति।

सा विद्यार्थिभ्यः एकाग्रचित्तेन अध्ययनं कर्तुं, प्रसन्नतया क्रीडितुं, स्वप्नानां आशानां च विषये मुक्तरूपेण अभिव्यक्तिं कर्तुं च आह्वानं कृतवती। सा संविधानस्य मूल्यानां, समानतायाः, प्रेम्णः, एकतायाः भ्रातृत्वस्य च महत्त्वं ज्ञातुं विद्यार्थिभ्यः कथितवती।

You Might Also Like

संग्रहण-तन्त्रं समूलम् उत्पाटयिष्यामः; छात्राः प्रश्नान् पृच्छेयुः चेत् उत्तरम् अवश्यं लभ्येत् -राहुलगान्धी

आपदाश्रयस्य १५०० कोटिरूप्यकाणां कृते प्रधानमन्त्रिणं प्रति पत्रम्, मुख्यमन्त्री अवदत्—आवश्यकता भवति चेत् पुनरपि स्मारकपत्रं प्रेषयिष्यते

अधिकारिणां स्थानान्तरणाय सर्वकारेण न्यूनतम-कार्यकालः निर्धारणीयः – उच्च-न्यायालयः

प्रो. बिहारीलालशर्मा पुनः सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदे नियुक्तः; कुलाधिपतिना आनन्दीबेन-पटेल-वर्यया प्रसारित: आदेशः

स्वातंत्र्यदिवसविशेष: – राष्ट्र-प्रेम्णा पीतं वीरगति-सुधारसम्, हिमाचलस्य १७३८ सैनिकाः राष्ट्राय आत्मार्पणम् अकुर्वन्

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article आपदाश्रयस्य १५०० कोटिरूप्यकाणां कृते प्रधानमन्त्रिणं प्रति पत्रम्, मुख्यमन्त्री अवदत्—आवश्यकता भवति चेत् पुनरपि स्मारकपत्रं प्रेषयिष्यते
Next Article संग्रहण-तन्त्रं समूलम् उत्पाटयिष्यामः; छात्राः प्रश्नान् पृच्छेयुः चेत् उत्तरम् अवश्यं लभ्येत् -राहुलगान्धी
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?