By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: प्रो. बिहारीलालशर्मा पुनः सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदे नियुक्तः; कुलाधिपतिना आनन्दीबेन-पटेल-वर्यया प्रसारित: आदेशः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > प्रो. बिहारीलालशर्मा पुनः सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदे नियुक्तः; कुलाधिपतिना आनन्दीबेन-पटेल-वर्यया प्रसारित: आदेशः
हिमाचलवार्ता

प्रो. बिहारीलालशर्मा पुनः सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदे नियुक्तः; कुलाधिपतिना आनन्दीबेन-पटेल-वर्यया प्रसारित: आदेशः

डॉ मनोज शैल
Last updated: 2026/08/17 at 3:50 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

प्रो. बिहारीलालशर्मा पुनः सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदे नियुक्तः; कुलाधिपतिना आनन्दीबेन-पटेल-वर्यया प्रसारित: आदेशः

हिमसंस्कृतवार्ता — वाराणसी।

उत्तर-प्रदेशस्य राज्यपालवर्यया तथा च सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलाधिपतिना आनन्दीबेन-पटेल-महोदयया प्रो. बिहारीलालशर्मा पुनः त्रीणि वर्षाणि यावत् सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य (वाराणसी) कुलपति-रूपेण नियुक्तः कृतः।

अस्मिन् सन्दर्भे ‘लोक-भवनम्’ लखनऊ-तः १७ अगस्त २०२६ दिनाङ्के प्रसारिते आदेशे कुलाधिपतिना उक्तं यत् उत्तर-प्रदेश-राज्य-विश्वविद्यालय-अधिनियम-१९७३ इत्यस्य धारा-१२ इत्यस्याः उपधारा-१ इत्यस्याः प्रदत्त-शक्तीनां प्रयोगं कुर्वती सा प्रो. बिहारीलालशर्मा-महोदयं कार्यभार-ग्रहण-तिथेः आरभ्य वर्ष-त्रयस्य अवधये सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदे नियुङ्क्ते।

ज्ञातव्यमस्ति यत् प्रो. बिहारीलालशर्मा-महोदयः संस्कृत-जगतः लब्धप्रतिष्ठः विद्वान्, कुशल-प्रशासकः, राष्ट्रिय-स्तरे च संस्कृत-प्रचार-प्रसारार्थं समर्पितः व्यक्तित्ववान् वर्तते। तस्य कार्यकाल-विस्तारेण संस्कृत-विद्वत्-समाजे हर्षस्य तरङ्गः व्याप्तः अस्ति।

देवभूमिहिमाचलस्य संस्कृतपरिवारपक्षतः हार्दम् अभिनन्दनम् 

 

प्रो. बिहारीलालशर्मा-महोदयस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदे पुनर्नियुक्तौ सत्यां हिमाचल-राजकीय-संस्कृत-शिक्षक-परिषदः संरक्षक:, पूर्व-प्रदेशाध्यक्ष: डॉ मनोजशैल: परिषद: प्रदेशाध्यक्ष: कमलकान्त: गौतम:, महासचिव: डॉ अमनदीप: शर्मा वित्तसचिव: लोकपाल: तथा च सर्वै: सदस्यै: हिमसंस्कृतवार्ता-परिवारस्य समस्त-सदस्यैः च तस्मै हार्दं वर्धापनं कार्तज्ञ्यं च व्याहृतम्।

डॉ मनोजशैलेन प्रोक्तं यत् प्रो. बिहारीलालशर्मा-महोदयस्य मार्गदर्शने सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः नूतनान् सोपानान् प्राप्स्यति संस्कृत-शिक्षायाः च सर्वतोभावेन विकासः भविष्यति। समस्त-देवभूमिहिमाचल-संस्कृत-परिवारः तस्य यशस्वी-कार्यकालाय मङ्गलमयाः अनन्ताश्च शुभकामनाः प्रस्तौति।

You Might Also Like

स्वातंत्र्यदिवसविशेष: – राष्ट्र-प्रेम्णा पीतं वीरगति-सुधारसम्, हिमाचलस्य १७३८ सैनिकाः राष्ट्राय आत्मार्पणम् अकुर्वन्

Independence Day 2026-‘व्यवस्था-परिवर्तनात् स्वावलम्बनं प्रति हिमाचलम्’ — स्वतन्त्रता-दिवसे मुख्यमन्त्रिणः राज्य-स्तरीय-सम्बोधनम्, अनेकासां जनकल्याण-योजनानाम् उद्घोषणम्

मुख्यमन्त्रिण: हमीरपुराय शिक्षायै स्वास्थ्याय च महान् उपहार:, उद्घाट्यते हिमाचलस्य प्रथम: विज्ञानमहाविद्यालय:

देशभक्तेः गीतैः एव सीमितं न स्वातन्त्र्यदिवसस्य उत्सवः, वेषभूषया अपि मातृभूमेः प्रेम्णः सन्देशः

प्रदेशस्य विद्यालयेषु १७ अगस्त-दिनाङ्के अवकाशः भविष्यति, मुख्यमन्त्रिणा सुक्खुना बिलासपुरे कृता घोषणा

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article रणवीरसिंहः ‘धुरन्धर’ इति चलच्चित्रस्य अनन्तरम् अनन्या-बिरलामहोदयया सह ‘ज़ॉम्बी’ इत्यस्मिन् चलच्चित्रे दर्शनं दास्यति। चलच्चित्रस्य चित्रोतलनं प्रारब्धम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?