अजयदेवगणस्य दूरदर्शने पुनः भविष्यति प्रवेशः, प्रथमवारं करिष्यति अपराधप्रदर्शिन्याः (क्राइम-शो इत्याख्यस्य) सञ्चालनम्
वार्ताहर: – जगदीश डाभी (मुम्बई)
(हिमसंस्कृतवार्ता:) बॉलीवुड-चलच्चित्रजगतः बहवः महान्तः अभिनेतारः दूरदर्शनकार्यक्रमाणां सञ्चालनं कुर्वन्ति, येषु सलमान-खान-अमिताभ-बच्चन-सदृशानां ताराणां नामानि समाविष्टानि सन्ति। सलमानखानः सुदीर्घकालात् ‘बिग्-बॉस्’-कार्यक्रमस्य सञ्चालनं करोति। अधुना बॉलीवुड-जगतः ‘सिङ्घम्’ अजयदेवगणः अपि दूरदर्शने सञ्चालकरूपेण दृश्यमानः भविष्यति। तथापि, तस्य कार्यक्रमे कोऽपि प्रतियोगी न भविष्यति, यतो हि सः कस्यापि ‘रियलिटी-शो’-कार्यक्रमस्य न, अपि तु एकस्य अपराध-प्रदर्शनस्य (क्राइम-शो-कार्यक्रमस्य) सञ्चालनं करिष्यति।
अजयदेवगणः अनेकभ्यः दशकेभ्यः चलच्चित्रेषु कार्यं करोति। तेन अद्यावधि बहूनि उत्तमानि चलच्चित्राणि दत्तानि। अधुना सः प्रथमवारं दूरदर्शने सञ्चालकस्य भूमिकायां दृश्यमानः भविष्यति। वृत्तान्तानुसारम्, अजयः एकस्य अपराध-प्रदर्शनस्य (क्राइम-शो-कार्यक्रमस्य) सञ्चालनं करिष्यति, यस्मिन् अपराधसम्बद्धाः सत्याः घटनाः दर्शिताः भविष्यन्ति। एषः कार्यक्रमः ‘सोनी-टीवी’-वाहिन्याम् प्रसारितः भविष्यति। प्राप्तवार्तानुसारम्, अजयः अस्य कार्यक्रमस्य कृते स्वस्वीकृतिं दत्तवान् अस्ति अस्य छायाङ्कनं (शूटिंग्) च शीघ्रमेव आरब्धं भवितुम् अर्हति।
#AjayDevgn
