By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: चम्बा-मण्डलस्य बहुचर्चित-गोवधप्रकरणे चत्वारः अभियुक्ताः निगृहीताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > चम्बा-मण्डलस्य बहुचर्चित-गोवधप्रकरणे चत्वारः अभियुक्ताः निगृहीताः
हिमाचलवार्ता

चम्बा-मण्डलस्य बहुचर्चित-गोवधप्रकरणे चत्वारः अभियुक्ताः निगृहीताः

डॉ मनोज शैल
Last updated: 2026/10/16 at 9:39 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

चम्बा-मण्डलस्य बहुचर्चित-गोवधप्रकरणे चत्वारः अभियुक्ताः निगृहीताः

हिमसंस्कृतवार्ता — चम्बा।

विकासखण्ड-चम्बायाः घघरोता-ग्रामपञ्चायते गोवधप्रकरणे आरक्षिभिः चत्वारः अभियुक्ताः निगृहीताः (बन्दीकृताः)। सदर-आरक्षिकस्थानकस्य थाना प्रभारी-निरीक्षकस्य रमणचौधरि-महोदयस्य नेतृत्वे आरक्षिदलम् उचितपदक्षेपं कृत्वा प्रकरणस्य समाधानप्राप्तौ सफलताम् अलभत। गोवंशस्य अवशेषाणां प्राप्तेः अनन्तरमेव आरक्षिविभागः अभियुक्तानाम् अन्वेषणे संलग्नो जातः आसीत्। अस्मिन् प्रकरणे क्षेत्रे व्याप्तस्य आक्रोशस्य मध्ये आरक्षिणां पदक्षेपः महत्त्वपूर्णः मन्यते। विज्ञाप्यते यत् गोवधघटनायाः अनन्तरम् आरक्षिभिः जलेदा-अरण्यात् उडाण-धारं यावत् व्यापकम् अन्वेषणाभियानं सञ्चालितम् आसीत्।

षट्चत्वारिंशत्सदस्यीयम् (४६) आरक्षिदलं क्षेत्रस्य विविधान् भागान् अन्वेष्णेन सह धारक्षेत्रे स्थितानां पशुकुटीराणां गभीरतया अन्वेषणम् अकरोत्। एतदतिरिच्य आरक्षिविभागेन प्रश्नोत्तराय विंशतिः (२०) जनाः आरक्षिकस्थाने समाहूताः आसन्। एतेषु अष्टतः दशपर्यन्तं जनैः सह पृच्छा कृता। आरक्षिणां सक्रियपदक्षेपानन्तरं प्रकरणस्य अन्वेषणम् अग्रे प्रसृतम्, अधुना च चत्वारः अभियुक्ताः निगृहीताः सन्ति। अपरत्र, चम्बा-मण्डलस्य अतिरिक्तारक्षिपर्यवेक्षकेण (ASP) दिनेशशर्मणा चतुर्णाम् अभियुक्तानां निग्रहणस्य पुष्टिः कृता। तेन विज्ञापितं यत् प्रकरणे नियमानुगुणं विधिककार्यविधि: क्रियमाणा अस्ति। आरक्षिविभागः प्रकरणसम्बद्धानां तथ्यानां प्रमाणानां च आधारेण अग्रे कार्यविधि: विधास्यति।

You Might Also Like

हिमाचलप्रदेशस्य संस्कृतभाषासंरक्षणसंवर्धनप्रवर्तकस्य पूर्वमुख्यमंत्रिण: श्रीजयरामस्य यशोगाथा

कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयेन महाराष्ट्रस्य दुष्कालपीडितक्षेत्राणां सर्वेषां छात्राणां परीक्षाशुल्क-विमुक्तेः निर्देशाः निर्गताः

सेवाभारती-बिलासपुर-पक्षतः AIIMS-बिलासपुर-चिकित्सालयाय पञ्च चक्रासनयन्त्राणि (व्हीलचेयर) समर्पितानि

द्विगुणादपि अधिकानि संवृत्तानि पीजी-चिकित्सा-आसनानि, षट्सु सर्वकारीय-आयुर्विज्ञान-महाविद्यालयेषु ३२० आसनानां वृद्धिः, अधुना ५९७ आसनानि

वर्षर्त्वापदा-प्रकरणे एनजीटी-संस्थायाः कठोरं रूपम्, अधिकारिणः अनुपस्थितौ मुख्यसचिवं प्रति निर्देशः

TAGGED: Chamba News, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, चम्बा समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article वर्षर्त्वापदा-प्रकरणे एनजीटी-संस्थायाः कठोरं रूपम्, अधिकारिणः अनुपस्थितौ मुख्यसचिवं प्रति निर्देशः
Next Article द्विगुणादपि अधिकानि संवृत्तानि पीजी-चिकित्सा-आसनानि, षट्सु सर्वकारीय-आयुर्विज्ञान-महाविद्यालयेषु ३२० आसनानां वृद्धिः, अधुना ५९७ आसनानि
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?