मेधाविभ्यः प्रदास्यन्ते १६-१६ सहस्र-रूप्यकाणि, शिक्षकाणां रिक्तानि पदानि पूरयिष्यन्ते, युक्तीकरणम् अपि भविष्यति – शिक्षामंत्री
हिमसंस्कृतवार्ता: — शिमला ।
शिक्षा-मन्त्री-रोहितठाकुरस्य अध्यक्षतायां सोमवासरे शिक्षा-निदेशालये प्रदेशस्य विद्यालयेषु प्रचलतां विकासात्मक-कार्याणाम्, शैक्षणिक-गुणवत्तायाः, रिक्तानां पदानाम्, परीक्षा-परिणामस्य तथा च विविधानां योजनानां प्रगतेः विस्तीर्णा समीक्षा-गोष्ठी आयोजिता। गोष्ठ्याम् शिक्षा-सचिवः, शिक्षा-निदेशकः, अतिरिक्त-निदेशकः, समग्र-शिक्षा-परियोजनायाः परियोजना-निदेशकः, सर्वे मण्डल-उपनिदेशकाः विभागस्य च वरिष्ठाः अधिकारिणः उपस्थिताः आसन्। गोष्ठ्याम् शिक्षा-मन्त्रिणा निर्दिष्टाः यत् लोक-निर्माण-विभागस्य माध्यमेन लम्बितानां विद्यालय-निर्माण-कार्याणां विस्तीर्ण-समीक्षायै शीघ्रमेव लोक-निर्माण-विभागस्य सचिवेन सह सम्बद्धैः अधिकारिभिः साकं पृथक्-गोष्ठी आयोजयिष्यते। तेन प्रोक्तं यत् येषां विद्यालयानां निर्माण-कार्याणि स्वीकृतत्वात् अनन्तरम् अपि आरब्धुं न शक्तानि, तेषां विस्तीर्ण-स्थिति-वार्तां सर्वे मण्डल-उपनिदेशकाः शीघ्रमेव उपलब्धं कारयन्तु। तेन स्पष्टीकृतं यत् आगामि-मासे पुनः समीक्षा-गोष्ठीम् आयोजित्य प्रत्येकस्मिन् मण्डले विकास-कार्याणां प्रगतेः समीक्षा करिष्यते सम्बद्धानाम् अधिकारिणां उत्तरदायित्वं च निश्चितं करिष्यते।
पञ्च-लक्ष-रूप्यकाणि यावत् नागराणि (Civil) कार्याणि एस.एम.सी. कारयितुं शक्ष्यन्ति
गोष्ठ्यां निर्णयः गृहीतः यत् पञ्च-लक्ष-रूप्यकाणि यावत् नागराणि (Civil) कार्याणि विद्यालय-प्रबन्धन-समितयः (SMC) स्वकीय-स्तरे कारयितुं शक्ष्यन्ति, येन लघुषु विकास-कार्येषु तीव्रता आनेतुं शक्येत्। शिक्षा-मन्त्रिणा ज्ञापितं यत् ‘श्रीनिवास-रामानुजन-स्टूडेंट-डिजिटल-योजना’ इत्यस्याः अन्तर्गतं आहत्य ९,३५९ छात्राः लाभान्विताः सन्ति। एतेषु षट्-मण्डलानां ३,०८९ छात्राणां सञ्चय-कोषेषु (Bank Accounts) प्रति-छात्रं १६ सहस्र-रूप्यकाणां राशिः साक्षात् ‘डी.बी.टी.’ (Direct Benefit Transfer) इत्यस्य माध्यमेन प्रेषिता अस्ति, यदा च अवशिष्टानां ६,२७० छात्राणां वित्तकोष-संख्यासु एषा राशिः १५ अगस्त-दिनाङ्कात् पूर्वं प्रेषयिष्यते।
शिक्षायाः गुणवत्तां परिष्कर्तुं प्रभावकारिणी कार्ययोजना रचयिष्यते
तेन निर्दिष्टं यत् येषां विद्यालयानां परीक्षा-परिणामः २५ प्रतिशत-मितः न्यूनः अस्ति, तत्र सम्बद्धाः मण्डल-उपनिदेशकाः स्वयं निरीक्षणं करिष्यन्ति तथा च शिक्षायाः गुणवत्तां परिष्कर्तुं प्रभावकारिणीं कार्ययोजनां रचयिष्यन्ते। २०२५-२६ वर्षे प्रतिकूल-परीक्षा-परिणाम-युतेषु १२३ प्रकरणेषु विभागीय-कार्याचरिणा निरन्तरा अस्ति तादृशेषु प्रकरणेषु अधुना मण्डल-उपनिदेशकैः अपि स्वकीयाः परामर्शः दातव्याः भविष्यन्ति। रोहितठाकुरेण उक्तं यत् दुर्घट-जनजातीय-क्षेत्रेषु शिक्षकाणां रिक्तानां पदानां पूरणाय विशेष-प्रस्तावः रचयिष्यते येन दूरस्थ-क्षेत्रेषु शिक्षा-व्यवस्था प्रभाविता न भवेत्। तेन ज्ञापितं यत् ५७६ शिक्षकाणां पदानां पूरणस्य प्रक्रिया प्रचलन्ती अस्ति, यासु शारीरिक-शिक्षा (Physical Education), टी.जी.टी. आर्ट्स, टी.जी.टी. नॉन-मेडिकल तथा च टी.जी.टी. मेडिकल इत्येतानि पदानि सम्मिश्रितानि सन्ति। गोष्ठ्यां विभागीय-पदोन्नति-प्रकरणानां समीक्षां कुर्वता शिक्षा-मन्त्रिणा शिक्षा-निदेशकः निर्दिष्टः यत् सर्वाः लम्बिताः पदोन्नति-प्रक्रियाः शीघ्रमेव पूर्णतां नेतव्याः तथा च पात्राणाम् अधिकारिणां कर्मचारिणां च प्रकरणानां समयबद्ध-निवारणं निश्चितं क्रियेत।
लम्बितानां कार्याणां तीव्रता आनयितुं निर्देशः
तेन विद्यालयेषु रोजगारोन्मुखी-शिक्षायाः प्रोत्साहनस्य उद्देशेन कौशल (Skill) आधारीकृत-विषयाणां पाठ्यक्रमाणां च नूतन-विकल्पानां विकासस्य निर्देशः अपि दत्तः। अस्मिन् विषये शिक्षा-विभागः विस्तीर्णां कार्ययोजनां रचयिष्यति। विकासात्मक-कार्याणां समीक्षा-काले ज्ञापितं यत् ‘समग्र-शिक्षा’ तथा च ‘पी.डी.एन.ए.’ इत्यनयोः अन्तर्गतं २०२३-२४ तः २०२५-२६ तमस्य वर्षस्य यावत् ८२.३७ कोटि-रूप्यकाणि प्रसारितानि सन्ति। एतेषु ५८० कार्याणि पूर्णानि संजातानि, यदा च २८५ कार्याणि प्रगतौ सन्ति तथा च १५२ कार्याणि अधुना अपि आरब्धानि न अभवन्। शिक्षा-मन्त्रिणा सर्वेषां लम्बितानां कार्याणां तीव्रता आनयितुं सम्बद्ध-संस्थानां (Agencies) नियता समीक्षां कर्तुं च निर्देशः दत्तः।
अ-बोर्ड-कक्षाणां परीक्षाः दिसम्बर-मासे कर्तुं बलम्
समेज-क्षेत्रे आपद: क्षतिग्रस्त-विद्यालयस्य निर्माण-कार्ये विलम्बम् आदाय शिक्षा-मन्त्रिणा रोषः प्रकटितः सम्बद्ध-अधिकारिणः च त्रिभ्यः दिनेभ्यः अभ्यन्तरे संयुक्त-निरीक्षणं कृत्वा निर्माण-कार्यस्य प्रारम्भं कारयितुं निर्दिष्टाः। तेन प्रोक्तं यत् ‘बजट’-धनस्य उपलब्धतायां सत्याम् अपि कस्यापि निर्माण-कार्यस्य अनावश्यक-विलम्बः स्वीकृतः न भविष्यति। गोष्ठ्याम् एतदपि निर्णयः गृहीत: यत् २०२७ तमस्य वर्षात् दशम-द्वादश-बोर्ड-कक्षाः विहाय अन्यासां कक्षाणां वार्षिक-परीक्षाः दिसम्बर-मासे आयोजयितुं दिशि कार्यं करिष्यते तथा च अस्य अनुरूपं शैक्षणिक-सत्रं जनवरी-मासात् प्रारब्धुं कार्ययोजना रचयिष्यते
शिक्षकाणां युक्तीकरणे चर्चा
शिक्षकाणां युक्तीकरणे (Rationalization) चर्चां कुर्वता निर्णयः गृहीत: यत् येषु प्राथमिक-विद्यालयेषु छात्राणां सङ्ख्या न्यूना शिक्षकाणां सङ्ख्या च अधिका अस्ति, ततः अतिरिक्ताः शिक्षकाः एक-शिक्षक-युतेषु अथवा रिक्त-पद-युतेषु विद्यालयेषु स्थानान्तरिताः करिष्यन्ते। क्रीडा-गतिविधिभ्यः प्रोत्साहनं दातुं ‘समग्र-शिक्षा’ इत्यस्याः अन्तर्गतं प्राप्तैः १३ कोटि-रूप्यकैः ‘रिवॉल्विंग-फंड’ (Revolving Fund) स्थापयितुं निर्णयः गृहीत:। साकमेव अप्रयुक्तानां क्रीडा-सामग्रीणां ‘स्पोर्ट्स-फंड’-इत्यस्य च आवश्यकता-युतेषु विद्यालयेषु पुनः वितरणं करिष्यते।
विभागस्य ‘स्पोर्ट्स-वेब-पोर्टल’-इत्यस्य शुभारम्भः
गोष्ठ्याः अन्तरे शिक्षा-विभागस्य आधुनिकस्य ‘स्पोर्ट्स-वेब-पोर्टल’-इत्यस्य शुभारम्भः अपि कृतः। अस्य ‘पोर्टल’-माध्यमेन क्रीडा-प्रतियोगितानां, ‘स्पोर्ट्स-हॉस्टल्स’-इत्येतेषां, क्रीडकानां ‘डिजिटल-डाटाबेस’-इत्यस्य, ‘ऑनलाइन’-प्रमाणपत्राणां, ‘लाइव’-प्रसारणस्य तथा च क्रीडा-गतिविधिनां ‘रियल-टाइम’-निरीक्षणस्य सुविधा उपलब्धा भविष्यति। गोष्ठ्यां विभागीय-अनुशासनात्मक-प्रकरणानाम् अपि समीक्षा कृता। शिक्षा-मन्त्रिणा स्पष्टीकृतं यत् छात्राणां सुरक्षायाः, वित्तीय-पारदर्शितायाः प्रशासनिक-अनुशासनस्य च सम्बद्धेषु प्रकरणेषु कस्यापि प्रकारस्य शिथिलता सह्यः न भविष्यति तथा च दोषियिणां अधिकारिणां कर्मचारिणां च विरुद्धं नियमानुकूलं कठोर-कार्याचरिणा निरन्तरा स्थास्यति।
विद्यालयीय-क्रीडाभ्यः अङ्कीयडयनम्, एस.एस.ए.-इत्यस्याः नूतनं ‘जालपत्रं’-प्रसारितम्
प्रदेशस्य शिक्षा-मन्त्रिणा रोहितठाकुरेण सोमवासरे ‘हिमाचल-स्कूल-स्पोर्ट्स-एसोसिएशन’ (HSSA) इत्यस्याः आधिकारिक-वेबसाइट-पोर्टलम् www.hssa.co.in इत्यस्य शुभारम्भः कृतः। अस्य प्रयासस्य उद्देश्यं प्रदेशे विद्यालयीय-क्रीडानाम् अङ्कीकरणं (Digitization) अस्ति। मन्त्रिणा रोहितठाकुरेण प्रोक्तं यत् एतत् अङ्कीय-मञ्चं विदवयालयीय-क्रीडा-प्रतियोगिताः अधिकाः पारदर्शिकाः, प्रभावकारिण्यः तन्त्रज्ञान-आधारिताश्च रचयिष्यति। तेन ज्ञापितं यत् क्रीडकेभ्यः, शिक्षकेभ्य:, अधिकारिभ्यः, सामान्य-नागरिकेभ्यः च सर्वाः आवश्यकाः सूचनाः एकेनैव मञ्चेन सुलभतया उपलब्धाः भविष्यन्ति। अस्मिन् अवसरे शिक्षा-सचिवः राकेशकंवरः, राज्य-परियोजना-निदेशकः राजेशशर्मा, स्कूल-शिक्षा-निदेशकः आशीषकोहली च उपस्थिताः आसन्। एतत् आधुनिकं ‘वेब-पोर्टलम्’ विद्यालयीय-क्रीडा-गतिविधिनाम् सुचारु-सञ्चालनाय विकसितम् अस्ति। अस्य माध्यमेन क्रीडा-प्रतियोगिताभिः सम्बद्धाः सर्वाः सेवाः एकेनैव अङ्कीय-मञ्चे उपलब्धाः सन्ति। ‘पोर्टल’-मध्ये क्रीडकानां, विद्यालयानां प्रतियोगितानां च केन्द्रीकृतम् अङ्कीयम् ‘डाटाबेस’ अपि सम्मिलितम् अस्ति।
