By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: रामजन्मभूमि-मन्दिर-समर्पणराशि-चौर्ये नवीन-एसआईटी-गठनम्, सर्वोच्चन्यायालयः स्थितिप्रतिवेदनम् अयाचत
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > रामजन्मभूमि-मन्दिर-समर्पणराशि-चौर्ये नवीन-एसआईटी-गठनम्, सर्वोच्चन्यायालयः स्थितिप्रतिवेदनम् अयाचत
राष्ट्रीयवार्ताः

रामजन्मभूमि-मन्दिर-समर्पणराशि-चौर्ये नवीन-एसआईटी-गठनम्, सर्वोच्चन्यायालयः स्थितिप्रतिवेदनम् अयाचत

डॉ.अमनदीप शर्मा
Last updated: 2026/07/28 at 3:23 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

रामजन्मभूमि-मन्दिर-समर्पणराशि-चौर्ये नवीन-एसआईटी-गठनम्, सर्वोच्चन्यायालयः स्थितिप्रतिवेदनम् अयाचत

अयोध्यायां रामजन्मभूमि-मन्दिर-न्यासेन (ट्रस्ट) प्राप्तस्य समर्पणधनस्य चौर्यप्रकरणे सोमवासरे सर्वोच्चन्यायालयस्य (सुप्रीम कोर्ट) समक्षम् उत्तरप्रदेशसर्वकारस्य पक्षं उपस्थापयन् सॉलिसिटर जनरल तुषार मेहता अवदत् यत् प्रकरणस्य पारदर्शिशोधनाय (निष्पक्षजांच) पुनः नूतना एसआईटी (विशेषतपासदलम्) गठिता अस्ति। सर्वोच्चन्यायालयस्य पूर्वनिर्देशानां अनुपालनं कुर्वद्भिः अस्याः नूतनायाः एसआईटी-संस्थायाः कमानम् वरिष्ठेभ्यः अधिकारिभ्यः समर्पितम्। लखनऊ-क्षेत्रस्य आरक्षि-महानिरीक्षकः (आईजी) किरण एस अस्याः एसआईटी-संस्थायाः प्रमुखः नियुक्तः अस्ति। त्रिपाठिके (त्रिस्तरीय) एसआईटी-दले आईजी-किरण एस महोदयात् अतिरिच्य द्वौ अपरौ वरिष्ठौ आईपीएस-अधिकारिणौ सम्मिलितौ स्तः। एतयोः अयोध्या-क्षेत्रस्य उप-आरक्षि-महानिरीक्षकः (डीआईजी) सोमेन वर्मा, अयोध्यायाः वरिष्ठ-आरक्षि-अधीक्षकः (एसएसपी) गौरव ग्रोवर च शामिलौ स्तः।

प्रधानन्यायाधीशः सूर्यकान्तः, न्यायाधीशः जॉयमाल्य बागची, न्यायाधीशः वी मोहना च एतेषां पीठेन अस्मिन् अन्तरे परामर्शः दत्तः यत् वित्तीय-अनियमितानाम् अन्वेषणाय अस्मिन् दले कश्चन सनदी-लेखाकारः (चार्टर्ड अकाउंटेंट) अपि सम्मिलितः भवेत्। न्यायालयस्य एतस्मिन् परामर्शे सॉलिसिटर जनरल तुषार मेहता सहमतिं प्रकटितवान्, न्यायालयं च आश्वस्तवान् यत् एसआईटी-दले एकः सनदी-लेखाकारः अपि नियोजिष्यते।

न्यायालयः अन्वेषणस्य स्थितिप्रतिवेदनं (स्टेटस रिपोर्ट) उपस्थापयितुम् निर्देशम् अयच्छत्। विचारणाकाले याचिकाकर्तुः अधिवक्त्रा न्यायालये याचना कृता यत् राममन्दिर-न्यासेन प्राप्ताः सर्वाः रसीद-पत्र्यः क्षेत्रवारं जालपुटे (वेबसाइट) सार्वजनिकीक्रियेरन्, येन सामान्याः जनाः अस्याः सर्वां सूचनां प्राप्नुयुः। सः अवदत् यत् एषा काचित् विरोधात्मका याचिका नास्ति, अपि तु पारदर्शितायै आवश्यकी अस्ति। याचिकाकर्तॄणां पक्षतः वरिष्ठ-अधिवक्ता देवदत्त कामतः अवदत् यत् सम्पूर्णदेशात् जनाः शतम्, पञ्चशतम्, सहस्रं वा रूप्यकाणि ददति। तेषां विवरणमपि न्यासस्य जालपुटे भवेत्। अत्र सॉलिसिटर जनरल तुषार मेहता याचिकाकर्तुः अस्य परामर्शस्य विरोधम् अकरोत्, अवदत् च यत् अस्मिन् संवेदनशीले प्रकरणे विना कारणं खळभळः (सनसनी) न उत्पादनीयः।

सम्प्रति सर्वोच्चन्यायालयेन उत्तरप्रदेशसर्वकारेण गणितायाम् एसआईटी-संस्थायां नियुक्ताः त्रयः आईपीएस-अधिकारिणः अभिलेखेषु (रिकॉर्ड पर) गृहीताः। सहैव न्यायेन स्वकीय-आदेशे उक्तं यत् अग्रिमायां विचारणायां अस्मिन् प्रकरणे एसआईटी स्वकीय-अन्वेषणस्य स्थितिप्रतिवेदनम् उपस्थापयिष्यति। अस्य प्रकरणस्य अग्रिमा विचारणा अधुना सप्ताहद्वयानन्तरं भविष्यति।

You Might Also Like

भाजपा-दलस्य राज्यसभा-सांसदेन हर्षमहाजनेन सह गृह मन्त्रिणः अमितशाहस्य शिष्टाचारमेलनम्

राष्ट्रमण्डल-क्रीडासु मीराबाई-चानू-वर्गायाः स्वर्णिमं प्रदर्शनम्

परीक्षा-परिष्काराय नन्दन-निलेकणि-महोदयस्य अध्यक्षतायां उच्च-स्तरीय-समित्याः गठनम्: प्रधानमन्त्री नरेन्द्रमोदी

‘मन की बात’ भारतं स्वस्य वैज्ञानिकीं प्राविधिकीं क्षमतां निरन्तरं वर्धयति-प्रधानमन्त्री

‘विकसित-वाइब्रेंट-विलेज-कार्यक्रम-२०२६’ इत्यस्य सहभागिभिः सह प्रधानमन्त्रिणः संवादः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article कुमामोटो-प्रान्ते ७.१ तीव्रतायाः शक्तिशाली भूकम्पः, सुनामी-चेतावनी च निर्गता
Next Article अग्नेश्वर-महादेव-मन्दिरस्य महत्त्वम्, एकस्मिन् गर्भगृहे द्वे शिवलिङ्गे सम्मुखे स्थापिते
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?