भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्
भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः मुलुगु-जनपदस्य पालमपेट-स्थलं ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियमहत्त्वस्य स्मारकं घोषितम्। मन्दिरमिदं युनेस्को (UNESCO) सूच्यां सम्मिलितात् रामप्पामन्दिरात् समीपे वर्तते, तथा च स्वीयायै उत्कृष्टायै तक्षणकलायै (उत्कीर्णकलायै) स्थापत्यकलायै च प्रसिद्धम् अस्ति इति संस्कृति-मन्त्रालयेन विज्ञापितम्।
एतत् मन्दिरं ‘त्रिकूटालय’-शैल्यां निर्मितम् अस्ति। अत्र पूर्वाभिमुखः एकः मण्डपः, परितः च त्रीणि गर्भगृहाणि सन्ति। देशे राष्ट्रियमहत्त्वस्य स्मारकेभ्यः ‘प्राचीनस्मारक-पुरातत्त्वस्थल-अवशेष-अधिनियम, १९५८’ अन्तर्गतं संरक्षणं प्रदीयते। भारतीयपुरातत्त्वसर्वेक्षणं तादृशानां स्मारकानां संरक्षणस्य, अनुरक्षणस्य, सर्वसाधारणानां कृते नियन्त्रितप्रवेशस्य च व्यवस्थां करोति।
भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
