By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मुकेशअग्निहोत्री अवदत्— जलशक्तिविभागे अस्मिन् वित्तवर्षे पूरयिष्यन्ते ४,००० पदानि, भविष्यति जलशुद्धीकरणम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > मुकेशअग्निहोत्री अवदत्— जलशक्तिविभागे अस्मिन् वित्तवर्षे पूरयिष्यन्ते ४,००० पदानि, भविष्यति जलशुद्धीकरणम्
हिमाचलवार्ता

मुकेशअग्निहोत्री अवदत्— जलशक्तिविभागे अस्मिन् वित्तवर्षे पूरयिष्यन्ते ४,००० पदानि, भविष्यति जलशुद्धीकरणम्

डॉ मनोज शैल
Last updated: 2026/07/25 at 9:32 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

मुकेशअग्निहोत्री अवदत्— जलशक्तिविभागे अस्मिन् वित्तवर्षे पूरयिष्यन्ते ४,००० पदानि, भविष्यति जलशुद्धीकरणम्

हिमसंस्कृतवार्ता: — ऊना ।

उपमुख्यमन्त्रिणा मुकेशअग्निहोत्रिणा प्रोक्तं यत् जलशक्तिविभागे अस्मिन् वित्तवर्षे प्रायः ४,००० पदेषु नियुक्तिः विधास्यते। तेन कथितं यत् पर्याप्त-जनशक्तिं (मैनपावर) विना कापि योजना सफला भवितुं न शक्नोति। अतः सर्वकारः विभागं सुदृढं विधातुं युवकेभ्यः जीविका-प्रदानाय च विशेष-बलं यच्छन् अस्ति। उपमुख्यमंत्री शनिवासरे हरोली-क्षेत्रस्य पालकवाह-सभागारे जलशक्तिविभागस्य, हमीरपुर-मण्डलस्य पक्षतः आयोजितायाः ‘जलसंभरण-सेचन-योजनानां सञ्चालनं, संवर्धनं, जलगुणवत्ता-निरीक्षणम्’ इति विषये एकदिवसीयायाः कार्यशालायाः अभिसंमुखीकरण-कार्यक्रमस्य च सम्बोधनं करोति स्म। अस्मिन् अवसरे तेन विभागस्य उत्कृष्टं कार्यं कुर्वन्तः कर्मचारिणः सम्मानिताः अपि कृताः। तेन नवनियुक्ताः पैरा-पम्प-ऑपरेटर्, पैरा-फिटर्, मल्टीपरपज-वर्कर् तथा च वाटर-गार्ड इति कर्मचारिणः विभागस्य ध्वजवाहकाः प्रोक्ताः कथितं च यत् प्रदेशस्य जनेभ्यः स्वच्छं सुरक्षितं च पेयजलं प्रापयितुं तेषां महती भूमिका अस्ति। तेन उक्तं यत् तेषां भविष्यत् उज्ज्वलं वर्तते ते च धैर्येण सह कार्यं कुर्वन्तः तिष्ठेयुः। एषा ५८ वर्षीयावधिं यावत् पेंशन-लाभयुक्ता सेवा अस्ति। तेन विश्वासः प्रदत्तः यत् वर्तमान-सर्वकारस्य कार्यकाले एतेषां कर्मचारिणां हितैः सम्बद्धाः निर्णायकाः निर्णयाः ग्रहीष्यन्ते।

 

२,००० कोटिरूप्यकाणां व्यापका योजना प्रवर्तिष्यते

मुकेशअग्निहोत्रिणा कथितं यत् प्रदेशे पेयजलस्य गुणवत्तां परिष्कर्तुं जलशुद्धीकरणव्यवस्थां च आधुनिकीं विधातुं प्रायः २,००० कोटिरूप्यकाणां व्यापका योजना प्रवर्तिष्यते। योजनायाः अन्तर्गतं आधुनिक-प्रविधि-आधारिताः जलशुद्धीकरण-प्रणाल्यः स्थापयिष्यन्ते, येन प्रदेशवासिभ्यः स्वच्छं सुरक्षितं च पेयजलं प्राप्स्यति जलजन्यासु व्याधिषु अपि ह्रासः आगमिष्यति। तेन प्रोक्तं यत् जलशक्तिविभागः इमां योजनां चरणबद्ध-रूपेण प्रवर्त्यन् अस्ति।

 

फिनासिंह-सेचन-परियोजनायै ३०० कोटिरूप्यकाणि

तेन ज्ञापितं यत् काङ्गड़ामण्डलस्य फिनासिंह-सेचन-परियोजनां पूरयितुं ३०० कोटिरूप्यकाणि स्वीकृत्य दत्तानि सन्ति। तेन उक्तं यत् प्रदेशे जलशक्तिविभागस्य कोटिशः रूप्यकाणां विकासपरियोजनासु वेगेन कार्यं प्रचलति। उपमुख्यमन्त्रिणा मादकद्रव्य-दुर्व्यसनस्य विरुद्धं निर्णायके युद्धे सर्वेषां सहयोगः आहुतः तेन प्रोक्तं यत् दुर्व्यसन-सम्बद्धेषु प्रकरणेषु संलिप्ताः ३६ कर्मचारिणः सेवायाः निष्कासिताः सन्ति। तेन कथितं यत् सर्वकारः अस्मिन् विषये किमपि शैथिल्यं न सहिष्यते।

 

मुकेशेन भाजपा-नेतॄन् प्रति व्यङ्ग्यपातं कृतम्

तेन उक्तं यत् विकासकार्येषु राजनीतिं कुर्वन्तः जनाः जनता सम्यक् जानाति। भाजपा-नेतॄन् प्रति व्यङ्ग्यपातं कुर्वन् तेन कथितं यत् ये स्वयं काञ्चन सिद्धिं न गणयितुं शक्नुवन्ति, तेभ्यः परेषां कृतानि विकासकार्याणि अपि न रोचन्ते। तेन प्रोक्तं यत् तस्य एकमेव लक्ष्यं स्वर्णिमस्य विकसितस्य च हरोली-क्षेत्रस्य निर्माणम् अस्ति। सः राजनीतिं न, अपितु विकासस्य राजनीतिं विश्वसिति जनतायाः हिते च कार्यं कुर्वन् स्थास्यति। उपमुख्यमन्त्रिणा उद्घोषितं यत् आगामिसंवत्सरात् जलशक्तिविभागे उत्कृष्टं कार्यं कुर्वताम् कर्मचारिणां सम्माननस्य परम्परा आरप्स्यते। तेन कर्मचारिणः आहुताः यत् ते स्वकीयेन उत्कृष्टेन कार्येण व्यवहारेण च जनानां विश्वासं जयन्तु विभागस्य च प्रतिष्ठां इतोऽपि सुदृढां कुर्वन्तु।

You Might Also Like

जंतर-मंतर-आन्दोलनस्य समर्थनम्: शिमला-नगरे निसृता सिक्थदीप-यात्रा (कैंडल-मार्च), मुख्यमन्त्री सुक्खू: अपि सम्मीलितः; दत्ता श्रद्धाञ्जलिः

विदेशात् एम.बी.बी.एस. (MBBS) कृतवतां स्नातकानाम् ‘इंटर्नशिप’-अवधिः एकवर्षं भविष्यति, मुख्यमंत्री सुक्खू-महोदयेन दत्ताः निर्देशाः

हिमाचले अधुना ‘द्वीप’-आनन्दः, प्रदेशस्य अस्मिन् मण्डले सज्जीभविष्यति परियोजना

आचार्यदेवेंद्रशर्मणः नेतृत्वे सिरमौर-उपशिक्षानिदेशकेन सह वार्ता सफला; शीघ्रं निर्गमिष्यन्ति आदेशाः

मुख्यमन्त्रिणा सुक्खू-महोदयेन ‘थीमैटिक-गार्डन’-परियोजनायाः शुभारम्भः कृतः, ४ कोटिरूप्यकाणां राशिः अपि प्रसारिता

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, Mukesh agnihotri, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, उपमुख्यमंत्री मुकेश अग्निहोत्री, दिव्य हिमाचल समाचार, मुकेश अग्निहोत्री, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article विदेशात् एम.बी.बी.एस. (MBBS) कृतवतां स्नातकानाम् ‘इंटर्नशिप’-अवधिः एकवर्षं भविष्यति, मुख्यमंत्री सुक्खू-महोदयेन दत्ताः निर्देशाः
Next Article जंतर-मंतर-आन्दोलनस्य समर्थनम्: शिमला-नगरे निसृता सिक्थदीप-यात्रा (कैंडल-मार्च), मुख्यमन्त्री सुक्खू: अपि सम्मीलितः; दत्ता श्रद्धाञ्जलिः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?