By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: विदेशात् एम.बी.बी.एस. (MBBS) कृतवतां स्नातकानाम् ‘इंटर्नशिप’-अवधिः एकवर्षं भविष्यति, मुख्यमंत्री सुक्खू-महोदयेन दत्ताः निर्देशाः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > विदेशात् एम.बी.बी.एस. (MBBS) कृतवतां स्नातकानाम् ‘इंटर्नशिप’-अवधिः एकवर्षं भविष्यति, मुख्यमंत्री सुक्खू-महोदयेन दत्ताः निर्देशाः
हिमाचलवार्ता

विदेशात् एम.बी.बी.एस. (MBBS) कृतवतां स्नातकानाम् ‘इंटर्नशिप’-अवधिः एकवर्षं भविष्यति, मुख्यमंत्री सुक्खू-महोदयेन दत्ताः निर्देशाः

डॉ मनोज शैल
Last updated: 2026/07/25 at 9:29 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

विदेशात् एम.बी.बी.एस. (MBBS) कृतवतां स्नातकानाम् ‘इंटर्नशिप’-अवधिः एकवर्षं भविष्यति, मुख्यमंत्री सुक्खू-महोदयेन दत्ताः निर्देशाः

हिमसंस्कृतवार्ता: — शिमला।

मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खू महोदयेन पात्रेभ्यः वैदेशिक-चिकित्सा-महाविद्यालयेभ्यः एम.बी.बी.एस. (MBBS) कृतवद्भ्यः कोविड-१९ विभिषिका-काले उत्पन्नानाम् अपरिहार्य-परिस्थितीनां कारणेन ‘ऑन-लाइन’ माध्यमेन अध्ययनं कृतवद्भ्यः छात्रेभ्यः एकवर्षस्य प्रशिक्षणस्य (इंटर्नशिप) अनुमतिं प्रदातुं निर्देशाः दत्ताः। मुख्यमन्त्रिणा शनिवासरे छात्रैः सह स्वास्थ्यविभागस्य वरिष्ठ-अधिकारिभिः सह च आयोजितायाः उपवेशनस्य अध्यक्षतां कुर्वता प्रतिपादितं यत् राज्यसर्वकारः प्रभावितानां छात्राणां चिन्तानां समाधानं निष्पक्षेण, व्यावहारिकेण, छात्रहितैषिणा च दृष्टिकोणेन करिष्यति। प्रदेशसर्वकारः एतत् सुनिश्चितं कर्तुं कटिबद्धः अस्ति यत् कोविड-१९ विभिषिका-काले उत्पन्नानाम् परिस्थितीनां कारणेन प्रभाविताः योग्याः छात्राः कस्यापि प्रकारस्य हानिं न सहेरन्।

सुक्खू-महोदयेन प्रोक्तं यत् विदेशात् चिकित्सा-स्नातकं कृतवतां छात्राणां ‘इंटर्नशिप’-अवधिं आदाय अनिश्चयः उत्पन्नः अभवत्, यतो हि एकस्यैव शैक्षणिक-गणस्य (Batch) छात्रेभ्यः पृथक्-पृथक् अवधिः निर्धारिता आसीत्। केभ्यश्चित् छात्रेभ्यः एकवर्षस्य ‘प्रशिक्षणम्’ अनुमता, यदा च तादृशीष्वेव परिस्थितिषु कोविड-१९ काले पठनं कृतवद्भ्यः अन्येभ्यः छात्रेभ्यः वर्षद्वयस्य ‘इंटर्नशिप’ कर्तुं निर्देशाः दत्ताः। तेन कथितं यत् ‘राष्ट्रीय-चिकित्सा-आयोगेन’ (NMC) विभिषिका-काले ऑन-लाइन-माध्यमेन पठितवतां वैदेशिक-चिकित्सा-स्नातकानां कृते प्रतिपूरक-प्रशिक्षण-अवधेः उपयुक्ततायाः आकलनस्य अधिकारः राज्यसर्वकारेभ्यः समर्पितः अस्ति। एन.एम.सी. (NMC) संस्थायाः प्रावधानानि छात्रैः सोढाः वास्तविकीः कठिनता: च ध्यात्वा राज्यसर्वकारेण पात्र-अभ्यर्थिभ्यः ‘इंटर्नशिप’-अवधिः एकवर्षं निर्धारितुं निर्णयः गृहीतम्।

मुख्यमन्त्रिणा स्वास्थ्यविभागः निर्दिष्टः यत् सर्वाः आवश्यकाः औपचारिकताः शीघ्रं पूरयित्वा आवश्यकाः आदेशाः सद्यः प्रसारणीयाः, येन प्रभाविताः छात्राः अविलम्बं स्वकीयां ‘इंटर्नशिप’ आरब्धुं पूरयितुं वा शक्नुयुः। अनेन निर्णयेन प्रभावितेभ्यः चिकित्सा-स्नातकेभ्यः महती साहाय्यता लप्स्यते ते च निष्प्रतिबन्धं स्वकीयं चिकित्सा-जीवनम् (Career) अग्रे नेतुं शक्ष्यन्ति। अनेन राज्ये चिकित्सा-शिक्षायाः स्वास्थ्य-सेवानाम च गुणवत्ता अपि स्थास्यति। उपवेशने प्रधान-परामर्शक: (मीडिया) नरेशचौहानः, स्वास्थ्यसचिवः आशीषसिंहमारः, चिकित्सा-शिक्षा-निदेशकः डॉ. गोपालबेरी च उपस्थिताः आसन्।

You Might Also Like

जंतर-मंतर-आन्दोलनस्य समर्थनम्: शिमला-नगरे निसृता सिक्थदीप-यात्रा (कैंडल-मार्च), मुख्यमन्त्री सुक्खू: अपि सम्मीलितः; दत्ता श्रद्धाञ्जलिः

मुकेशअग्निहोत्री अवदत्— जलशक्तिविभागे अस्मिन् वित्तवर्षे पूरयिष्यन्ते ४,००० पदानि, भविष्यति जलशुद्धीकरणम्

हिमाचले अधुना ‘द्वीप’-आनन्दः, प्रदेशस्य अस्मिन् मण्डले सज्जीभविष्यति परियोजना

आचार्यदेवेंद्रशर्मणः नेतृत्वे सिरमौर-उपशिक्षानिदेशकेन सह वार्ता सफला; शीघ्रं निर्गमिष्यन्ति आदेशाः

मुख्यमन्त्रिणा सुक्खू-महोदयेन ‘थीमैटिक-गार्डन’-परियोजनायाः शुभारम्भः कृतः, ४ कोटिरूप्यकाणां राशिः अपि प्रसारिता

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article हिमाचले अधुना ‘द्वीप’-आनन्दः, प्रदेशस्य अस्मिन् मण्डले सज्जीभविष्यति परियोजना
Next Article मुकेशअग्निहोत्री अवदत्— जलशक्तिविभागे अस्मिन् वित्तवर्षे पूरयिष्यन्ते ४,००० पदानि, भविष्यति जलशुद्धीकरणम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?