नीट-विषये (NEET) केन्द्रसर्वकारः चर्चायै सज्जः, विरोधाभासे विपक्षे दृश्यते भेदः
हिमसंस्कृतवार्ता: – नवदेहली।
नीट-प्रश्नपत्र-प्रकटन-प्रकरणे (पेपर लीक) केन्द्रसर्वकारः संसदि चर्चायै सज्जः अभवत्। बुधवासरे विपक्षस्य कोलाहलस्य विरोधप्रदर्शनस्य च मध्ये संसदीयकार्यमन्त्री किरेन-रिजिजू वर्येण लोकसभायाम् उद्घोषितं यत् सर्वकारः नीट-प्रश्नपत्र-प्रकटनस्य विषये चर्चायै प्रस्तुतः अस्ति। रिजिजू वर्येण उक्तं यत् छात्राः अस्माकं सर्वोच्चप्राथमिकता सन्ति। वयं नीट-प्रश्नपत्र-प्रकटनस्य विषये संसदि विस्तृतां चर्चां वाञ्छामः। बुधवासरे संसदि विपक्षस्य सदस्यैः प्रदर्शनकर्तृणां उपरि आरक्षकैः (पुलिस) कृतायाः बर्बरतायाः विषयः उत्थापितः तथा च प्रधानमन्त्रिणः वक्तव्यस्य याचना कृता।
अखिलेशयादवेन प्रधानमन्त्रिणः वक्तव्यस्य याचना कृता
समाजवादी-दलस्य (सपा) अध्यक्षः अखिलेशयादवः बुधवासरे अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना ‘राष्ट्रीय पात्रता सह प्रवेश परीक्षा’ (नीट) प्रश्नपत्र-प्रकटन सदृशे गम्भीरविषये लोकसभायाम् आगत्य वक्तव्यं दातव्यम्। यादववर्यः अद्य लोकसभायां नीट-प्रश्नपत्र-प्रकटनस्य तथा छात्राणाम् उपरि आरक्षकाणां विधिकार्यविधे: विरुद्धं विपक्षसदस्यानां कोलाहलस्य मध्ये अवदत् यत् यदि प्रधानमन्त्री संसदः बहिः अस्मिन् विषये वक्तव्यं दातुं शक्नोति, तर्हि संसद्यपि आगत्य स्वपक्षं किमर्थं न उपस्थापयति।
यादववर्येण उक्तं यत् प्रश्नपत्र-प्रकटनस्य विषयः काङ्ग्रेस-भारतीयजनतापार्टी-समाजवादीदलानां कस्यापि एकस्य दलस्य सम्बद्धः नास्ति, अयम् तु छात्राणां यूनां च विषयः अस्ति तथा च एका महती समस्या वर्तते। तेन प्रोक्तं यत् अस्य कृते विविधानि राजनैतिकदलानि युध्यन्ते। तेन कथितं यत् छात्रैः सह आरक्षकैः बर्बरता कृता, कन्यानां वस्त्राणि विदारितानि। छात्राणां हस्तपादाः भङ्गीकृताः। इदं अतीव गम्भीरं प्रकरणम् अस्ति। एतत् सर्वं दृष्ट्वा एव तेषां विवशतायां प्रधानमन्त्रिणः आवासस्य समीपे उपवेशनं कर्तुं गन्तव्यम् अभवत्।
अस्मात् पूर्वं तेन संसदि वक्तुं अनुमतिम् न दत्त्वा भृशं रोषं प्रकटयन् उक्तं यत् केवलं काङ्ग्रेस-भारतीयजनता-दलाभ्यामेव वक्तुं दीयते, किम् एतयोः मध्ये कश्चन सन्धिः अभवत्? तदनन्तरं अध्यक्षः ओम-बिरला वर्येण तस्मै स्वपक्षमुपस्थापयितुम् अनुमतिः दत्ता।
