एनडीए-संसदीयदलस्य साप्ताहिक-उपवेशनम्, दीर्घतमकालं यावत् निर्वाचित-प्रधानमन्त्री इत्यस्मै नरेन्द्रमोदिमहोदयाय अभिनन्दन-प्रस्तावः
राष्ट्रीय-लोकतांत्रिक-गठबन्धनस्य (NDA) संसदीयदलस्य साप्ताहिकी रणनीति-उपवेशनं (बैठक) संसदभवनस्य परिसरे प्रचलन् अस्ति। एतत् उपवेशनम् प्रधानमन्त्री नरेन्द्रमोदी सम्बोधयति। उपवेशनस्य अन्तरे एनडीए-गठबन्धनस्य सहयोगी-दलानि भारतस्य दीर्घतमकालं यावत् निर्वाचित-प्रधानमन्त्रित्वेन स्थितवान् इति कृत्वा श्रीमोदिमहोदयाय वर्धापन-प्रस्तावम् (बधाई-प्रस्तावम्) अपि पारितं करिष्यन्ति। गठबन्धनस्य पूर्णम् ऐक्यं (एकतां) प्रदर्शयितुम् एतादृशानि उपवेशनानि पारम्परिकरूपेण संसदः सत्रस्य समये प्रति-मङ्गलवासरं आयोज्यन्ते।
