सर्वोच्चन्यायालयः अयोध्यामन्दिरविषये राजनीतिकीकरणं न कर्तुं संतर्जना अयच्छत्
सर्वोच्चन्यायालयः उत्तर प्रदेश सर्वकारं प्रति अयोध्यायाः राममन्दिरे दानराशेः कथित-अपहारस्य (गबनस्य) अन्वेषणाय विशेष-अन्वेषण-दलस्य (SIT/एसआईटी) गठनस्य सम्भावनायाः विषये सूचनां प्रदातुम् अकथयत्। न्यायालयः याचिकाकर्तृभ्यः अस्य विषयस्य राजनीतिकीकरणं न कर्तुं संतर्जना अयच्छत्।प्रधानन्यायाधीशस्य सूर्यकान्तस्य, न्यायमूर्तेः जॉयमाल्यबागचिनः, न्यायमूर्तेः वी. मोहनायाः च पीठः उत्तर प्रदेश सर्वकारस्य पक्षतः उपस्थितं सॉलिसिटर जनरल तुषार मेहता महोदयम् एतस्मिन् विषये निर्देशान् ग्रहीतुम् अकथयत् यत्— ‘किम् प्रथम-सूचना-पत्रस्य (FIR) पञ्जीकरणात् पूर्वं सम्पूर्णस्य प्रकरणस्य अन्वेषणं कुर्वते एसआईटी-दलाय एव स्थानीय-आरक्षकाणां (पुलिस) स्थाने अस्य मामलेस्य अन्वेषणभारः पोषयितुं शक्यते?’
सर्वोच्चन्यायालयः अस्याः याचिकायाः उपरि जुलै-मासस्य २७ तमे दिनाङ्के पुनः शृणोष्यति , यदा उत्तर प्रदेश सर्वकारः एतस्मिन् प्रकरणे एसआईटी-अन्वेषणस्य विषये सूचनां दास्यति। प्रधानन्यायाधीशः अवदत् यत् एतत् अपराधस्य एकं साधारणं प्रकरणम् अस्ति, न्यायालयस्य कार्यं च केवलम् उचित-अन्वेषणं सुनिश्चितं करणम् एव अस्ति। तुषार मेहता महोदयः अकथयत् यत् अन्वेषणं प्रचलद् अस्ति तथा च अष्ट जनाः गृहीताः (अरेस्ट कृताः) सन्ति। सः अवदत् यत् सत्यस्य अन्वेषणाय एसआईटी-दलस्य गठनम् अभवत्। अधुना आरक्षकाः (पुलिस) अस्य अन्वेषणं कुर्वन्तः सन्ति। एसआईटी-दलेन दृष्टं यत् एतस्मिन् संज्ञेय-अपराधः अस्ति।
सर्वोच्चन्यायालयः अयोध्यामन्दिरविषये राजनीतिकीकरणं न कर्तुं संतर्जना अयच्छत्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
