दुर्गमतर-क्षेत्रे ‘बड़ा भङ्गाल’ इत्यस्मिन् त्रातारूपेण प्राप्तः सुक्खूः, १५ वर्षेभ्यः परं कश्चित् मुख्यमन्त्रिणं दृष्ट्वा प्रसन्नाः ग्रामीणाः
हिमसंस्कृतवार्ता: — काङ्गड़ा ।
प्रायः पञ्चदशवर्षाणां (१५ वर्षाणाम्) सुदीर्घान्तरालस्य परं हिमाचलप्रदेशस्य मुख्यमंत्रिणं स्वमध्ये प्राप्य न केवलं काँगड़ामण्डलस्य अपितु प्रदेशस्य दुर्गमतरस्य कठिनतमस्य च क्षेत्रस्य ‘बड़ा भङ्गाल’ इत्यस्य जनाः हर्षेण प्रफुल्लिताः अभवन्। विशेषतः तेषां यूनां प्रसन्नतायाः सीमा नासीत् यैः सद्यः एव बाल्यकालस्य देहली उल्लङ्घिता, प्रथमवारं च कस्यचित् मुख्यमन्त्रिणः दर्शनस्य स्वप्नः पूर्णः जातः। प्रायः सार्धैकदशकात् (१.५ दशकात्) परं कश्चित् मुख्यमन्त्री न केवलं ‘बड़ा भङ्गाल’ क्षेत्रस्य प्रवासं कृतवान्, अपितु सुखविन्दरसिंहसुक्खूः सम्पूर्णं रात्रिं स्थानीयजनैः सह व्यतीत्य कञ्चित् नूतनं कीर्तिमानम् अपि प्रस्थापितवान्।
एषः प्रथमोऽवसरः नास्ति यदा सुक्खूः दुर्गमक्षेत्रं प्राप्य जनानां सुख-दुःखानि विभक्तवान्। ‘सर्वकारः ग्रामस्य द्वारे’ इति कार्यक्रमस्य नूतनचिन्तनेन सह सः निरन्तरं तादृशेषु कठिनेषु क्षेत्रेषु रात्रौ तिष्ठति, यत्र प्रायः कोऽपि नेता गन्तुं रुचिं न दर्शयति। एतस्मात् पूर्वं तेन शिमला मण्डलस्य ‘डोडरा-क्वार’ तथा ‘कुपवी’, कुल्लू मण्डलस्य ‘बागा सराहन’ समेतानां जनजातीयमण्डलानां लाहौल-स्पित्याः किन्नौरस्य च दूरस्थग्रामाणां प्रवासं कृत्वा तत्रत्यानां जनानां मध्ये रात्रिवासं विहितं तेषां समस्यानां कठिनतानां च निवारणम् अपि कृतम्।
मुख्यमन्त्रिणं स्वमध्ये प्राप्य ‘बड़ा भङ्गाल’ क्षेत्रस्य जनेषु उत्सवमयो वातावरणः आसीत्। स्थानीयनिवासिभिः मुख्यमन्त्रिणः आभारः प्रकटितः यत् वर्ष २०११ तः परं प्रथमवारं कश्चित् मुख्यमन्त्री ‘बड़ा भङ्गाल’ क्षेत्रस्य प्रवासं कृत्वा तेषां वार्तां पृष्टवान्। क्षेत्रे प्रथमवारं कस्यचित् मुख्यमन्त्रिणः रात्रिप्रवासेन स्थानीयलोकाः अतीव उत्साहिताः आसन्, तैश्च विश्वासः प्रकटितः यत् मुख्यमन्त्रिणः घोषणाभिः प्रशासनाय दत्तनिर्देशैश्च ‘बड़ा भङ्गाल’ क्षेत्रस्य विकासाय नूतनः आयामः प्राप्स्यति। ‘बड़ा भङ्गाल’ प्रवासकाले मुख्यमन्त्री पूर्णरूपेण स्थानीयसंस्कृतौ परम्परासु च रञ्जितः अदृश्यत। तेन पारम्परिकवेषभूषा ‘चोला-डोरा’ धृत्वा सांस्कृतिककार्यक्रमेषु भागः गृहीतः तथा स्थानीयजनैः सह पारम्परिकलोकनृत्ये अपि सहभागिता कृता।
मुख्यमन्त्रिणः स्थानीयकृषकाणां क्षेत्राणां भ्रमणं कृत्वा तेषां समस्याः निकटात् ज्ञाताः। तेन कृषकैः सह राजमाषस्य (राजमाह) कृषेः, उत्पादनस्य, विपणनस्य (मार्केटिंग) च सम्बद्धानां विषयाणाम् उपरि विस्तरेण चर्चा कृता, मेषपालकानां समस्याः अपि श्रुताः। तेन कथितं यत् राज्यसर्वकारः सम्पूर्णप्रदेशे प्राकृतिककृषिं प्रोत्साहयति, कृषकेभ्यः च तेषाम् उपजस्य उचितमूल्यं सुनिश्चितं कर्तुं न्यूनतमसमर्थनमूल्यं प्रापयति। तेन प्रख्यापितं यत् सर्वकारेण ऊर्णस्य (ऊन का) समर्थनमूल्यं १०० रूप्यकाणि प्रतिकिलोग्रामं निर्धारितं, येन मेषपालकाः स्थानीयकृषकाश्च लाभान्विताः भविष्यन्ति। ‘बड़ा भङ्गाल’ क्षेत्रस्य जनाः अपि सर्वकारस्य अस्याः योजनायाः लाभं ग्रहीतुं शक्नुवन्ति।
मुख्यमन्त्रिणा प्रतिपादितं यत् प्राकृतिककृषिं प्रोत्साहितुं राज्यसर्वकारेण ‘राजीव गांधी प्राकृतिक खेती स्टार्ट-अप योजना’ प्रवर्तिता अस्ति। अस्याः अन्तर्गतं प्राकृतिककृष्या उत्पादितस्य गोधूमस्य न्यूनतमसमर्थनमूल्यं ६० रूप्यकेभ्यः वर्धयित्वा ८० रूप्यकाणि प्रतिप्रतिकिलोग्रामं, मक्की (मक्का) इत्यस्य ४० रूप्यकेभ्यः वर्धयित्वा ५० रूप्यकाणि प्रतिप्रतिकिलोग्रामं तथा पाङ्गीघात्यां उत्पादितस्य यवस्य (जौ) समर्थनमूल्यं ६० रूप्यकेभ्यः वर्धयित्वा ८० रूप्यकाणि प्रतिप्रतिकिलोग्रामं कृतम् अस्ति। एतदतिरिच्य, हरिद्रायाः (हल्दी) न्यूनतमसमर्थनमूल्यं ९० रूप्यकेभ्यः वर्धयित्वा १५० रूप्यकाणि प्रतिप्रतिकिलोग्रामं विहितं, यत्रैव आर्द्रकस्य (अदरक) कृते ३० रूप्यकाणि प्रतिप्रतिकिलोग्रामं समर्थनमूल्यं निर्धारितं वर्तते। अस्मिन् अवसरे स्थानीयविधायकः किशोरीलालः, उपायुक्तः हेमराजबैरवा तथा आरक्षक-अधीक्षकः (SP) कुलभूषणवर्मा समेताः अन्ये गणमान्याः अपि उपस्थिताः आसन्।
