Kinnar Kailash Yatra – श्रद्धालूनां कृते आवश्यकी वार्ता: किन्नौर-कैलाश-यात्रा अधुना स्थगिता
हिमसंस्कृतवार्ता: — किन्नौर:।
तीर्थयात्रिणां सुरक्षां सर्वोपरि-प्राथमिकतां मत्वा मण्डलप्रशासनेन किन्नौर-कैलाश-यात्रा २०२६ आगाम्यादेशं यावत् स्थगिता। यात्राशृङ्खलायां हिमनदानां (ग्लेशियर), अस्थिरशैलानां, भूस्खलनस्य च वर्धमानं सङ्कटं दृष्ट्वा एषः निर्णयः गृहीतः। प्रशासनेन अयं निर्णयः विशेष-अन्वेषणचमोः (टोही दल) प्रतिवेदनस्य आधारेण विहितः।
मन्त्रिणः उपवेशनोत्तरं कृतं मार्गस्य निरीक्षणम्
१२ जून् दिनाङ्के राजस्व-उद्यानकृषि-जनजातीयविकास-जनशिकायतनिवारणमन्त्रिणः जगत्सिंहनेगिनः अध्यक्षतायाम् आयोजिते उच्चस्तरीय-उपवेशने यात्राशृङ्खलायाः सुरक्षायाः समीक्षा कृता आसीत्। उपवेशनोत्तरं मार्गस्य स्थितेः आकलनं कर्तुं वनविभागस्य स्थानीयप्रशासनस्य च निरीक्षणे कस्याश्चित् विशेष-अन्वेषणदलस्य सङ्घटनम् विहितम्। दलेन २१ जून् दिनाङ्के यात्राशृङ्खलायाः विस्तृतं निरीक्षणं कृतम्।
अन्वेषणदलेन सूचिताः बहवः गम्भीराः सङ्कटाः
प्रतिवेदनानुसारं ‘मिलिंग खाटा’ स्थानात् शिवलिंगं यावत् बृहन्तः हिमनदाः (ग्लेशियर) तेषाम् उपरि च अस्थिरशैलाः विद्यन्ते। गुफायाः सोरङ्ग-क्षेत्रस्य मध्ये बहुषु स्थानेषु शैलानां पतनेन मार्गः बाधितः असुरक्षितश्च जातः अस्ति। निरन्तरं वर्धमानेन तापमानेन हिमः तीव्रगत्या विलीनः (पिघल) भवति, येन भूस्खलनस्य शैलपतनस्य च भयं भूयः प्रवृद्धम्। ‘मिलिंग खाटा’ स्थानात् पवित्रगुफां यावत् सम्पूर्णः मार्गः अत्यधिक-जोखिमयुक्तः मन्यते।
सुरक्षां वीक्ष्य यात्रायां प्रतिबन्धः
प्रशासनस्य कथनं वर्तते यत् वर्तमानपरिस्थितिसु यात्रायाः आरम्भः श्रद्धालूनां रक्षकदलानां च कृते सङ्कटपूर्णः भवितुं शक्नोति। अतः यात्रा आगाम्यादेशं यावत् स्थगिता वर्तते। मार्गस्य सुरक्षितघोषणायाः परमेव यात्राप्रारम्भस्य उपरि निर्णयः ग्रहीष्यते।
श्रद्धालुभ्य: प्रार्थना
उपायुक्तेन डॉ. अमितकुमारशर्मणा श्रद्धालवः प्रार्थिताः यत् ते स्वसुरक्षां ध्यात्वा आगाम्यादेशं यावत् किन्नौर-कैलाश-यात्रां प्रति न गच्छेयुः, प्रशासनस्य च निर्देशाणाम् अनुपालनं कुर्युः।
