योगविषये किञ्चिच्चिन्तनम्-नारदोपाध्यायः
पातञ्जलयोगदर्शनस्य साधनपादे अन्तःकरणस्य शुद्ध्यर्थं केचनोपायाः सूत्रमाध्यमेन उल्लिखिताः सन्ति ।
१) तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः।
अर्थात् तपश्चर्या, स्वाध्यायः, ईश्वरशरणागतिः चेति त्रिप्रकारकः क्रियायोगः कथ्यते ।
२) समाधिभावनार्थः क्लेशतनूकरणार्थश्च ।
क्रियायोगोऽयं समाधेः सिद्ध्यर्थं, तथा अविद्यादिक्लेशानां क्षीणीकरणार्थं युज्यते ।
३) अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ।
अविद्या, अस्मिता, रागः, द्वेषः, अभिनिवेशः चेति पञ्च क्लेशाः कथ्यन्ते । एते जीवाय प्रपञ्चे भ्रामयित्वा, महादुःखं प्रददाति, तस्मात् क्लेशाः प्रोक्ताः ।
४) अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ।
अविद्यानामकः क्लेशः प्रसुप्तः, तनुः, विच्छिन्नः, उदारः चेति चतुरवस्थायां वर्तमाने तिष्ठति, एतेषां वर्णनम् उत्तरसूत्रे प्रदत्तमस्ति । तेषाम् अस्मितादिक्लेशानां चतुर्णामेव कारणम् अविद्या वर्तते ।
५) अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ।
अनित्यम्, अपवित्रं, दुःखम्, अनात्मा इत्यादिषु वस्तुषु नित्यं, पवित्रं, सुखम्, आत्मभावः इत्यादीनाम् अनुभूतिः हि अविद्या नाम ।
६) दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ।
दृक्-शक्तिः, दर्शनशक्तिः चानयोः एकात्मता, समानता वा हि अस्मिता नामधेया ।
७) सुखानुशयी रागः ।
सुखप्रतीतेः अनुकर्ता हि रागः कथ्यते ।
८) दुःखानुशयी द्वेषः ।
एवं दुःखप्रतीतेः अनुकर्ता च द्वेषः नामधेयः क्लेशः वर्तते ।
९) स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ।
यः परम्परागतेन स्वभावेन प्रवर्तमानः स्यात्, एवं यस्मात् विद्वान् अपि मूढवत् आचरति, अर्थात् विवेकशीलपुरुषेषु अपि यः विद्यमानः स्यात्, सः मरणादिभयरूपः क्लेशः अभिनिवेशः कथ्यते इति, शम् । (क्रमशः)
— नारदः ।
