By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: वास्तविकः वैरागी कः? प्रेरिका कथा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > वास्तविकः वैरागी कः? प्रेरिका कथा
धर्मसंस्कृतिःप्रेरिका कथा

वास्तविकः वैरागी कः? प्रेरिका कथा

डॉ.अमनदीप शर्मा
Last updated: 2026/06/19 at 6:55 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

वास्तविकः वैरागी कः? प्रेरिका कथा
एकस्याः नद्याः तटे एकः साधुः वसति स्म। प्रतिदिनम् एकः अशिक्षितः नाविकः तं नौकायाम् उपवेश्य अस्मात् तटात् पारं तटं नयति स्म। प्रतिफलरूपेण सः किमपि न गृह्णाति स्म।तथापि भगवद्वस्त्रधारिणः साधोः समीपे दातुं धनं कुत्र आसीत्?
नाविकः सरलः आसीत्, यद्यपि सः विद्यालयं न गतवान् तथापि बुद्ध्या धनी आसीत्। साधुः मार्गे ज्ञानं ददाति स्म – कदाचित् ईश्वरस्य सर्वव्यापकत्वं बोधयति स्म, कदाचित् च गीतायाः श्लोकान् अर्थसहितं श्रावयति स्म।
नाविकः अरित्रं (चप्पू) चालयति स्म, परन्तु कर्णौ मनः च द्वयमपि साधोः वचनेषु एव सल्लग्नं करोति स्म। बाबावर्यस्य वचनानि साक्षात् तस्य हृदये प्रविशन्ति स्म।
एकस्मिन् दिने परं तटं प्राप्य साधुः नाविकं स्वकुटीरं नीतवान्। सः अवदत् – “वत्स! अहं पूर्वं महान् व्यापारी आसम्। प्रासादः, धनं, सेवकाः च सर्वम् आसीत्। परन्तु एकस्यां दुर्घटनायां सम्पूर्णं परिवारं नष्टम् अभवत्। अस्य धनस्य अहं इदानीं किं करोमि? त्वं एतत् गृह्हाण। तव जीवनस्य परिष्कारः, पुत्राणां भविष्यं च उज्ज्वलं भविष्यति।”
नाविकः हस्तौ बद्ध्वा अस्मयत (मुस्कुराया) – “न बाबा! एतत् धनं अहं ग्रहीतुं न शक्नोमि। मुधा (मुफ्त का) धनं गृहे आगते एव श्रमः नश्यति। पुत्राः कार्यं त्यक्ष्यन्ति, आलस्यम् आगमिष्यति, लोभः च वर्धिष्यते। ततः पापम् अपि अनुपदम् (पीछे-पीछे) आगमिष्यति।”
“भवता एव तु पाठितं यत् कणे-कणे रामः वसति। मह्यं तु इदानीं एतासु तरङ्गेषु अपि स एव दृश्यते। यदा तस्य दृष्टिः प्रतिक्षणं मयि अस्ति, तर्हि अहं चिन्ता किं करोमि? अहं स्वम् अरित्रं चालयिष्यामि, नौकां च खेयिष्यामि (चलाता रहूँगा)। अवशिष्टं सर्वं तस्मिन् एव समर्पितवान्।”
साधोः नेत्रे अश्रुपूर्णे अभवताम्। यस्मै सः ज्ञानं ददाति स्म, वास्तविकाशयेन स एव तस्मात् महान् ज्ञानी जातः।
तर्हि वास्तविकः वैरागी कः?
एकः सः साधुः – येन दुःखम् आगतं तर्हि गृहं त्यक्तं, भगवद्वस्त्रं धृतं, ग्रन्थाः कण्ठस्थीकृताः, प्रवचनदानं च शिक्षितम्। परन्तु मनसः धनस्य ममता न गता। बहुवर्षेभ्यः परम् अपि सः सुपात्रं कस्यचित् अन्वेषणं करोति स्म यत् कस्मै ददामि।
द्वितीयः सः नाविकः – यस्य समीपे प्रातःकालस्य रोटिकायाः ज्ञानं नास्ति यत् सायङ्काले मिलिष्यति वा न वा। भगवद्वस्त्रं न धृतं, गृहं न त्यक्तं, संन्यासोऽपि न गृहीतः। परन्तु संसारे स्थित्वा अपि संसारात् निर्लिप्तः अभवत्। गीतां केवलं न श्रुतवान्, अपितु जीवनं जीवति स्म। क्षणाधें एव लक्षशः धनस्य मोहं त्यक्तवान्।
वैराग्यं वस्त्रेषु न, अपितु मनसः अवस्थायां वसति।

You Might Also Like

कूडल अझगर मन्दिरम्: भूमौ न पतति मन्दिरशिखरस्य छाया, षट्पादपरिमितो (६ फीट) अस्ति विग्रहः

सनातनसंस्कृति-सामाजिकसेवयोः सङ्गमस्थलम् अभवत् घुग्घर-कालीबाडी-महोत्सवः

ज्योतिर्लिङ्गेषु काशीविश्वनाथमहिमा

गीर-सोमनाथस्य लघुबालकेन रचितः इतिहासः ७०० श्लोकान् कण्ठस्थीकृत्य प्राप्ता ‘गीताभूषण’ उपाधिम्

विक्रमसंवत् २०८३ ‘रौद्र’ नाम संवत्सरः तथा भारतीय-नववर्षम् (चैत्र-शुक्ल-प्रतिपदा) इत्यस्य वैदिक-ज्योतिषीय-वैज्ञानिक-आधारः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article कूडल अझगर मन्दिरम्: भूमौ न पतति मन्दिरशिखरस्य छाया, षट्पादपरिमितो (६ फीट) अस्ति विग्रहः
Next Article वीवाटेक-2026 सम्मेलने प्रधानमन्त्रिणा मोदीवर्येण भारतं नवोन्मेषस्य प्रौद्योगिक्याः च वैश्विकं केन्द्रं घोषितम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?