मेसिना भङ्गितः रोनाल्डो-वर्येण स्थापितः कीर्तिमानः, पादकन्दुक-विश्वचषके सर्वाधिक-गोलकर्ता क्रीडकः
अर्जेन्टीना देशस्य प्रसिद्धः पादकन्दुक-क्रीडकः लियोनेल मेसिः बुधवासरे पादकन्दुक-विश्वचषके पुर्तगाल देशस्य क्रिस्टियानो रोनाल्डो-वर्यस्य कीर्तिमानं (रिकॉर्ड) अभङ्क्षीत्। अल्जीरिया देशस्य विरुद्धं तेन त्रयः (३) गोलाः कृताः। अधुना सः पादकन्दुक-विश्वचषके हैट्रिक (त्रिवारं क्रमेण गोल) कर्ता वरिष्ठतमः (सर्वाधिक-आयुष्कः) क्रीडकः अभवत्। विश्वचषके मेसि-वर्यस्य एषा प्रथमा हैट्रिक-अपि अस्ति। रोनाल्डो-वर्येण २०१८ तमे वर्षे विश्वचषके ३३ वर्षायुषि रूस देशस्य विरुद्धं हैट्रिक-गोलाः कृताः आसन्। अधुना मेसिना ३८ वर्षायुषि एतादृशं कृत्वा रोनाल्डो-वर्यस्य कीर्तिमानः भङ्गितः। मेसि-वर्यस्य एषा हैट्रिक एकास्मिन् विशिष्टे अवसरे आगता। तेन २००६ तमे वर्षे जून-मासस्य १७ दिनाङ्के एव फीफा-विश्वचषके स्वस्य प्रथमः प्रितियोगिता-मैचः क्रीडितः आसीत्। ३८ वर्षीयः मेसिः अल्जीरिया देशस्य विरुद्धं १७ तमे, ६० तमे, ७६ तमे च निमेषे (मिनट) गोलं चकार। सः ७८ निमेषाणाम् अनन्तरं क्रीडाङ्गणाह् (मैदान) बहिः अगच्छत्। मेसि-वर्यस्य अनेन उत्कृष्ट-प्रदर्शनेन अर्जेन्टीना देशेन ‘ग्रुप-जे’ इत्यस्य प्रतिस्पर्धायां अल्जीरिया देशः ३-० इति अन्तरेण पराजितः। मेसिः अधुना यावत् ११ अन्तर्राष्ट्रिय-हैट्रिक कृतवान् अस्ति। एषा क्रीडा अमेरिका देशस्य कैनसस नगरस्य ‘एरोहेड’ क्रीडाङ्गणे (स्टेडियम) अभवत्।
मेसिना भङ्गितः रोनाल्डो-वर्येण स्थापितः कीर्तिमानः, पादकन्दुक-विश्वचषके सर्वाधिक-गोलकर्ता क्रीडकः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
