प्रधानमंत्री मोदी विश्वस्य सर्वाधिकलोकप्रियनेता
प्रधानमंत्री नरेन्द्र मोदी पुनः एकवारं विश्वस्य सर्वाधिकलोकप्रियनेतुः रूपेण प्रतिष्ठितः जातः। अमरीकी-दत्तांश-विश्लेषण-संस्थायाः ‘मॉर्निंग कंसल्ट’ इत्यस्याः नवीनतमे वैश्विकसर्वेक्षणे तेन ६८ प्रतिशतं (68%) अनुमोदन-मानाङ्काः (रैटिंग) प्राप्ताः। मार्च-मासस्य २ दिनाङ्कतः ८ दिनाङ्कपर्यन्तं कृते अस्मिन् सर्वेक्षणे प्रधानमंत्री मोदी अन्येभ्यः वैश्विकनेतृभ्यः बहु अग्रे अस्ति।
स्विट्जरल्याण्ड-देशस्य राष्ट्रपतिः गाय परमेलिन तथा दक्षिणकोरिया-देशस्य राष्ट्रपतिः ली जे-म्यंग च उभौ ६२ प्रतिशतं अङ्कान् प्राप्य द्वितीयस्थाने स्तः। चेक-गणराज्यस्य अर्जेण्टीना-देशस्य च नेतारौ क्रमशः ५७ प्रतिशतं तथा ५६ प्रतिशतं अनुमोदनं प्राप्तवन्तौ।
अस्य विपरीतम्, अमेरिका-देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः ३९ प्रतिशतं अङ्कान् एव प्राप्तवान्, सः शीर्षदशसु स्थानं प्राप्तुं न शक्तवान्। यूरोपीयनेतृषु ब्रिटेन-देशस्य प्रधानमंत्री कीर स्टारमरः २४ प्रतिशतं, फ्रांस-देशस्य राष्ट्रपतिः इमानुएल मैक्रों च केवलं १७ प्रतिशतं अङ्कैः सह सूच्यां प्रायः निम्नतमे स्थाने अस्ति। इयं श्रेणी (रैंकिंग) अनेकदेशानां वयस्कजनानां मतानुसारं ‘सप्तदिवसीय-गतिशील-औसत’ (7-day moving average) आधारेण निर्मिता अस्ति।
इदं नूतनं सर्वेक्षणं तस्मिन् समये आगतं, यदा प्रधानमंत्री मोदी गुजरातराज्यस्य मुख्यमंत्रित्वेन भारतस्य प्रधानमंत्रीत्वेन च स्वकार्यकालं योजयित्वा भारतस्य दीर्घकालसेवाप्रदातृषु नेतृषु अन्यतमः जातः अस्ति।
