ईरान-इजराइल-अमेरिका-सङ्घर्षस्य प्रभावं न्यूनीकर्तुं सर्वकारेण सप्त सशक्त-समूहानां गठनं कृतम्
ह्यः सायंकाले सर्वकारेण संसद्-भवन-परिसरे पश्चिम-एशिया-क्षेत्रस्य परिस्थितौ विचार-विमर्शाय एका सर्वदलीयसभा आहूता। रक्षा मन्त्री राजनाथ सिंहः अस्याः सभायाः अध्यक्षतां कृतवान्। अस्मिन् उपवेशने गृह मन्त्री अमित शाहः, विदेश मन्त्री सुब्रह्मण्यं जयशंकरः, पेट्रोलियम मन्त्री हरदीप सिंह पुरी, संसदीयकार्य मन्त्री किरेन रिजिजू, केन्द्रीय मन्त्री राजीव रंजनः (ललन सिंहः), जेडीयू-दलस्य कार्यकारी अध्यक्षः संजय झा इत्यादयः अन्ये नेतारः च उपस्थिताः आसन्।
सभायाः अनन्तरं प्रसारमाध्यमैः सह सम्भाषणे श्री रिजिजू महोदयः सर्वेभ्यः प्रतिभागीभ्यः सदस्येभ्यः धन्यवादं व्याहृतवान्। सः अवदत् यत् सर्वकारेण विपक्ष-नेतृणाम् सर्वेषां प्रश्नानां चिन्तानां च समाधानं कृतम् अस्ति। तेन इदमपि सूचितं यत् सर्वे विपक्षीदलाः अस्याः स्थितेः निवारणाय सर्वकारेण क्रियमाणेषु कार्येषु पूर्णसहयोगस्य आश्वासनं दत्तवन्तः।
अस्यां सभायां कांग्रेस-नेतारौ मुकुल वासनिक-तारिक अनवरौ, सीपीआई (एम) सांसदः जॉन ब्रिटासः, समाजवादी सांसदः धर्मेन्द्र यादवः अन्ये च विपक्ष-नेतारः उपस्थिताः आसन्।
इयं सभा पश्चिम-एशिया-क्षेत्रे वर्धमानस्य तनावस्य मध्ये आयोजिता, येन प्रमुखाः सामुद्रिक-मार्गाः बाधिताः अभवन, खाड़ी-देशेषु च भारतीय-नागरिकाणां सुरक्षां प्रति चिन्ता वर्धिता।
एषा सर्वदलीयसभा संसदि प्रधानमन्त्रिणः नरेन्द्रमोदिनः सम्बोधनस्य अनन्तरं अभवत्। स्वस्य वक्तव्ये प्रधानमन्त्रिणा उक्तं यत् ईरान-इजराइल-अमेरिका-सङ्घर्षस्य प्रभावं न्यूनीकर्तुं सर्वकारेण इंधन-आपूर्ति-शृङ्खला-उर्वरकादि-क्षेत्रेषु रणनीतयः निर्मातुं सप्त सशक्त-समूहानां गठनं कृतम् अस्ति।
