सर्वासु मिथ्यवार्तासु ‘पूर्णविरामः’, देशे न भविष्यति ‘लॉकडाउन’ इति, केन्द्रेण स्पष्टीकृता स्थितिः
हिमसंस्कृतवार्ता:- नवदेहली।केन्द्रीयवित्तमन्त्री निर्मलासीतारमण महोदया डीजल- पेट्रोल इत्यनयोः उत्पादशुल्के (Excise Duty) कृतायाः न्यूनताया: निर्णयस्य प्रशंसां कुर्वती अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी न इच्छति स्म यत् (पेट्रोलियम पदार्थस्य) आपणिकमूल्यानि (Retail Prices) वर्धेरन्। वित्तमन्त्रिण्या इन्धनस्य न्यूनतां (Shortage) निधाय देशे कोविड-विभुषिकाकालस्य इव ‘लॉकडाउन’ (तालाबन्दी) स्थापनस्य चर्चाः अपि निराकृताः। सा स्पष्टीकृतवती यत् देशे इन्धनस्य कापि न्यूनता नास्ति, तालाबन्दीसदृशं किमपि न भविष्यति। सीतारामणमहोदया डीजल-पेट्रोल इत्यनयोः उत्पादशुल्के दश- दश रूप्यकाणां कर्तनस्य नूतननिर्णयस्य विषये अवदत् यत् प्रधानमन्त्री इच्छति स्म यत् उपभोक्ताणां कृते मूल्यानि न वर्धेरन्। सा ‘लॉकडाउन’ इति चर्चायाः उपरि अवदत्- “अहं जनान् आश्वासयितुम् इच्छामि यत् किमपि ‘लॉकडाउन’ न भविष्यति… अहं चकिता अस्मि यत् केचन नेतारः कथयन्ति यत् तालाबन्दी भविष्यति तथा इन्धनस्य न्यूनता भविष्यति। एताः वार्ताः निराधाराः (बेबुनियाद) सन्ति।” सा अवदत् यत् राजनैतिकक्षेत्रस्य जनैः क्रियमाणाः एतादृशाः टिप्पण्यः चिन्ताजनकाः सन्ति। कोवि़ड-काले यथा दृष्टं, तादृशं किमपि न भविष्यति।
किमर्थं न्यूनीकृतं पेट्रोल-डीजल इत्यनयोः उत्पादशुल्कम्?
उत्पादशुल्के कर्तनस्य विषये सा अवदत् यत् पश्चिम- एशिया (West Asia) क्षेत्रे प्रचलतः सङ्घर्षस्य स्थितिं ध्यानं निधाय प्रधानमन्त्रिणा एका गोष्ठी आहूता। तस्यां निश्चितं यत् पेट्रोल, डीजल तथा एटीएफ (विमान-इन्धनम्) इत्यनयोः कापि न्यूनता न भवेत् तथा वैश्विकस्थितेः कारणेन एतेषां मूल्यानि न वर्धेरन्।
वित्तमन्त्रिण्या उक्तं- “अद्य वयं एकं निर्णयं स्वीकृतवन्तः, यस्य अन्तर्गतं वयं तैलविपणन- कम्पनीभ्यः (OMCs) साहाय्यं दास्यामः येन ताः अपक्वपदार्थस्य (Raw material) आयातं कर्तुं शक्नुवन्ति, तथा सामान्यजनाः मूल्यवृद्धेः कष्टं न अनुभवेयुः। वयं सुनिश्चितं कुर्मः यत् पेट्रोल- डीजल- विमानइन्धनानां मूल्यानि ऊर्ध्वं न गच्छेयुः।”
सर्वासु मिथ्यवार्तासु ‘पूर्णविरामः’, देशे न भविष्यति ‘लॉकडाउन’ इति, केन्द्रेण स्पष्टीकृता स्थितिः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
