होर्मुज-जलसन्धि-सङ्कटम्-: नाटो-पक्षतः सहायतायै ट्रम्प-महोदयस्य आह्वानं ब्रिटेन-जर्मनी-देशाभ्यां प्रत्याख्यातम्
वाशिंगटन/लन्दन/बर्लिन-: पश्चिम-एशिया-क्षेत्रे प्रवर्धमानस्य युद्धस्य मध्ये, अमेरिका-राष्ट्रपतिना डोनाल्ड-ट्रम्प-महोदयेन नाटो (NATO) सदस्यदेशाः होर्मुज-जलडमरूमध्यं पुनः उद्घाटयितुं साहाय्यार्थं आहूताः। किन्तु ब्रिटेन-जर्मनी-देशाभ्यां एतत् आह्वानं निरस्तं कृतम्। उभयदेशाभ्यां स्पष्टीकृतं यत् एषः नाटो-संस्थायाः कश्चन नियतः कार्यभारः (Mission) नास्ति।
होर्मुज-जलसन्धिः खाडी-क्षेत्रस्य एकः महत्त्वपूर्णः सामुद्रिक-परिवहन-मार्गः अस्ति। ईरान-देशेन सङ्घर्षकाले अमेरिकायाः तस्य मित्रराष्ट्राणां च यातायातार्थं एषः मार्गः अवरुद्धः कृतः। राष्ट्रपतिः ट्रम्पः सचेतनां दत्तवान् यत् यदि नाटो-सदस्याः अस्मिन् कार्ये साहाय्यं न कुर्वन्ति, तर्हि नाटो-संस्थायाः भविष्यं अन्धकारमयं भवितुं अर्हति।
ब्रिटेन-देशस्य प्रधानमन्त्री कीर-स्टारमरः अवदत् यत् ब्रिटेन-देशः होर्मुज-जलसन्धिं पुनः उद्घाटयितुं सहयोगीभिः सह योजनासु कार्यं करोति, किन्तु सः व्यापके युद्धे न सम्मिलितः भविष्यति। पूर्वं राष्ट्रपतिः ट्रम्पः सहयोगीभ्यः तैल-परिवहन-मार्गस्य रक्षणार्थं युद्धपोतान् प्रेषयितुं याचनां कृतवान् आसीत्। श्री स्टारमरः अकथयत् यत् ब्रिटेन-देशः अमेरिका-यूरोप-खाडीदेशैः सह अस्मिन् क्षेत्रे ‘माइन-डिटेक्टर’ (बारूदी-सुरङ्ग-अन्वेषक) द्रोण-यन्त्राणां प्रयोगस्य सम्भावनासु चर्चां करोति। अपरपक्षे, राष्ट्रपतिः ट्रम्पः प्रधानमन्त्रिणः स्टारमरस्य आलोचनां कृतवान् यतः सः कथितरूपेण युद्धस्य समर्थनं न कृतवान्।एतस्मिन् अन्तरे, जर्मनी-चांसलर-फ्रेडरिक-मर्ज-महोदयस्य प्रवक्त्रा उक्तं यत् पश्चिम-एशिया-युद्धस्य नाटो-संस्थया सह कोऽपि सम्बन्धः नास्ति, एतत् नाटो-पक्षस्य युद्धं नास्ति।
ब्रसेल्स-नगरे यूरोपीय-सङ्घस्य विदेश-मन्त्रिणां सभायाः पूर्वं जर्मनी-देशस्य विदेशमन्त्री जोहान-वाडेफुलः अवदत् यत् होर्मुज-अवरोध-प्रकरणे नाटो-संस्थया हस्तक्षेपः न करणीयः। सः स्पष्टं कृतवान् यत् नाटो-संस्थया अस्मिन् विषये न कोऽपि निर्णयः स्वीकृतः, न च एतस्य दायित्वं तस्याः उपरि अस्ति।
होर्मुज-जलसन्धि-सङ्कटम्-: नाटो-पक्षतः सहायतायै ट्रम्प-महोदयस्य आह्वानं ब्रिटेन-जर्मनी-देशाभ्यां प्रत्याख्यातम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
