पाकिस्तानेन अफगानिस्तानस्योपरि सैन्य-आक्रमणं कृतम्, सीमायाम् उत्तेजना वर्धिता
पाकिस्तानेन काबुल-कंधार-पक्तिया-पक्तिका इति प्रान्तेषु अनेके सैन्य-प्रहाराः कृताः। तालिबान-प्रवक्ता ज़बीउल्लाह मुजाहिदः सूचितवान् यत् एतेषु आक्रमणेषु अनेकाः महिलाः बालकाः च मृताः। अनेन कारणेन अफगानिस्तान-पाकिस्तानयोः सीमायां तनावः अत्यधिकं वर्धितः अस्ति।
तालिबान-शासनेन एतत् आक्रमणम् अफगानिस्तानस्य ‘सार्वभौमिकतायाः’ उल्लङ्घनं घोषितम्। प्रवक्ता उक्तवान् यत् पाकिस्तानी-सेनया पुनः अफगानिस्तानस्य उपरि बम-वर्षणं कृतम्।
श्री मुजाहिदः सामाजिक-माध्यमेन (Social Media) अवदत् यत् केषुचित् स्थानेषु गृहाणि लक्ष्यीकृत्य प्रहाराः कृताः, यत्र निरपराधाः बालकाः महिलाः च प्राणान् त्यक्तवन्तः। सेनया मरुस्थलानि अन्यक्षेत्राणि अपि लक्ष्यीकृतानि। सः आरोपं कृतवान् यत् पाकिस्तानस्य सैन्य-विमानेन कंधार-अन्तर्राष्ट्रीय-विमानपत्तनस्य समीपे ‘काम एयर‘ इति निजी-विमानन-संस्थायाः इन्धन-भण्डारस्य उपरि अपि आक्रमणं कृतम्, येन तत्र भीषणः अग्निः प्रज्वलितः।
