विश्व-पैरा-एथलेटिक्स-ग्रां-प्री-: भारतीय-क्रीडकानां विजयघोषः
सुमित अंतिलः ह्यः नवदिल्ल्यां आयोजित-विश्व-पैरा-एथलेटिक्स-ग्रां-प्री-२०२६ प्रतियोगितायां पुरुषाणां ‘कुन्त-प्रक्षेप’ (Javelin Throw) स्पर्धायां स्वर्णपदकं विजितवान्। सः ६९.२५ मीटर पर्यन्तं कुन्त-प्रक्षेपं कृतवान्। अस्मिन्नेव कार्यक्रमे पुष्पेन्द्रसिंहः ५६.९१ मीटर प्रक्षेपणेन रजतपदकं, पूनम रामः च ४९.४८ मीटर प्रक्षेपणेन कांस्यपदकं प्राप्तवन्तौ।
प्रतियोगितायाः द्वितीये दिने भारतेन अनेकासु स्पर्धासु उत्कृष्टं प्रदर्शनं कृतम्। पुरुषाणां ४०० मीटर धावनस्पर्धायां (T-13) भारतस्य पूर्णं प्रभुत्वम् आसीत्, यत्र सुबोधकान्तः स्वर्णं, प्रियांशु कौशिकः रजतं तथा अवनिल कुमारः कांस्यपदकं स्वनाम्ना कृतवन्तः। ४०० मीटर (T-46/T-47) स्पर्धायां भाविककुमारेण स्वर्णम्, जसबीरसिंहेन च रजतपदकं प्राप्तम्।
भारतीय-महिला-क्रीडकाणाम् अपि प्रदर्शनं प्रशंसनीयम् आसीत्। ४०० मीटर (T-11/T-12) स्पर्धायां तेजलबेन अमराजी दामोरः स्वर्णं, ललिता कैलका रजतं तथा शालिनी चौधरी कांस्यपदकं प्राप्तवत्यः। ‘गोला-प्रक्षेप’ (Shot Put) स्पर्धायां लक्ष्म्यै स्वर्णपदकं तथा अक्कुताई सीताराम उलभागट महोदयायै रजतपदकं मिलितम्। अस्मिन्नेव स्पर्धायां भूटानदेशस्य ‘चिनीदेमा’ कांस्यपदकं विजीतवती। पुरुषाणां गोल-प्रक्षेप (F-46) स्पर्धायां रोहित कुमारेण स्वर्णपदकं, देवेन्द्र सिंहेन रजतं तथा लोकेश अकोलेन कांस्यपदकं विजितम्।
