By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Vidhansabha Session – पुनः सम्मुखं सत्तापक्ष-विपक्षौ, विधानसभा-परिसरे परस्परं विरुद्धं कृतं प्रदर्शनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Vidhansabha Session – पुनः सम्मुखं सत्तापक्ष-विपक्षौ, विधानसभा-परिसरे परस्परं विरुद्धं कृतं प्रदर्शनम्
राजनैतिकवार्ताहिमाचलवार्ता

HP Vidhansabha Session – पुनः सम्मुखं सत्तापक्ष-विपक्षौ, विधानसभा-परिसरे परस्परं विरुद्धं कृतं प्रदर्शनम्

डॉ मनोज शैल
Last updated: 2026/08/22 at 10:15 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

HP Vidhansabha Session – पुनः सम्मुखं सत्तापक्ष-विपक्षौ, विधानसभा-परिसरे परस्परं विरुद्धं कृतं प्रदर्शनम्

हिमसंस्कृतवार्ता — शिमला।

 

हिमाचलप्रदेश-विधानसभायाः प्रावृट्-सत्रस्य द्वितीये दिने सदनस्य आरम्भः दिवङ्गतेभ्यः पूर्व-विधायकेभ्यः शोक-संवेदना-प्रकटनेन सह अभवत्। अस्मिन् समये सर्वप्रथमं मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः, ततः विपक्षनेता जयरामठाकुरः, तदनन्तरं च मन्त्रिणः अन्ये विधायकाश्च दिवङ्गतेभ्यः पूर्व-विधायकेभ्यः स्व-श्रद्धाञ्जलिं प्राकटयन्।

अस्मात् पूर्वं सदनस्य द्वितीय-दिवसस्य कार्यविधे: प्रारम्भात् प्राक् सत्तापक्षः विपक्षश्च विधानसभा-परिसरे परस्परं सम्मुखम् आगतवन्तौ। मुख्यमन्त्रिणः सुक्खू-महोदयस्य अध्यक्षतायां काङ्ग्रेस-विधायक-दलेन हस्तेषु प्रसार-पट्टिकाः (तख्तिकाः) धृत्वा विधानसभा-परिसरे तीव्रं विरोध-प्रदर्शनं कृतम्।

अस्मिन् समये सत्तापक्षेण भारतीय-जनता-पक्षस्य (भाजपा) उपरि राष्ट्रगानस्य अपमानस्य आरोपः आरोपितः। अपरपक्षे भाजपा-विधायक-दलेन अपि विधानसभा-परिसरे हस्तेषु पट्टिकाः धृत्वा सर्वकारस्य विरुद्धं प्रदर्शनं विहितम्।

प्रदर्शन-काले भाजपा-विधायकैः पञ्चायती-राज-संस्थानां राजनैतिक-शोषणस्य तथा च अध्यक्ष-उपाध्यक्ष-पदयोः निर्वाचन-स्थगनस्य आरोपम् आरोप्य तीव्राः उद्घोषाः कृताः। एतस्मिन् विरोध-प्रदर्शने सत्तापक्षेण प्रश्नपत्र-स्तेयं लक्ष्यीकृत्य भाजपा-कार्यालयस्य विरुद्धम् अपि उद्घोषाः विहिताः।

You Might Also Like

अन्तिमावसरः; ‘दारिद्र्य-रेखात: अधस्तन’ (BPL) सूच्यां समावेशनार्थं योग्याः परिवाराः २० दिनाङ्कं यावत् कुर्वन्तु आवेदनम्

रोहितठाकुरः अवदत् — प्रदेशस्य ९,६१७ विद्यालयेषु प्रथम-कक्षायाः एव आङ्ग्ल-माध्यमस्य विकल्पः उपलब्धः

जलशक्ति-विभागे नियुक्ताः भविष्यन्ति ४,००० ‘बहुकार्य-कर्मचारिणः’, सदने मुख्यमन्त्रिणः उद्घोषणम्

सिरमौरः- शिक्षाधिकारिभिः सह अमिलत् संस्कृत- शिक्षक- परिषदः प्रतिनिधिमण्डलम्

हिमाचलस्य काङ्गड़ा-जनपदे एकोनविंशति-वर्ष-पर्यन्तानां युनां कृते प्रदास्यते कृमिनाशकौषधम्, सज्जीकरणे संलग्नः स्वास्थ्य-विभागः

TAGGED: bjp, BJP Himachal, Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, Jai Ram Thakur, jairamthakur, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, जयरामठाकुर, दिव्य हिमाचल समाचार, भाजपा, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, विपक्षनेता जयरामठाकुरः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल कांग्रेस, हिमाचल भाजपा, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article सिरमौरः- शिक्षाधिकारिभिः सह अमिलत् संस्कृत- शिक्षक- परिषदः प्रतिनिधिमण्डलम्
Next Article जलशक्ति-विभागे नियुक्ताः भविष्यन्ति ४,००० ‘बहुकार्य-कर्मचारिणः’, सदने मुख्यमन्त्रिणः उद्घोषणम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?