HP VIDHANSABHA SESSION – प्रावृट्-सत्रस्य प्रथमे एव दिने कोलाहलः, ‘वन्दे मातरम्’ इत्यधिकृत्य सदने संजातः महद्-आक्रोशः
हिमसंस्कृतवार्ता — शिमला।
हिमाचलप्रदेश-विधानसभायाः द्वादश-सत्रस्य प्रथमे एव दिने शुक्रवासरे सदने महती अशान्तिः सञ्जाता। सदनस्य कार्यविधे: प्रारम्भे राष्ट्रगीतस्य ‘वन्दे मातरम्’ इत्यस्य अगानेन विपक्षस्य विधायकाः विरोधं प्राकटयन्। अस्मिन् विषये विधानसभाध्यक्षः कुलदीपसिंहपठानिया-महोदयः अवदत् यत् एतदर्थं निर्मितः नियमः (विधिः) विधानसभायां प्रवृत्तः न भवति, अपि तु सर्वकारीय-संस्थासु प्रवृत्तः अस्ति। अनेनैव कारणेन विपक्ष-सदस्याः क्रुद्धाः अभवन्।
विधानसभाध्यक्षेण उक्तं यत् विधानसभायाः एषा परम्परा वर्तते यत् राष्ट्रगानेन सदनस्य आरम्भः विधीयते, सत्र-समापने च ‘वन्दे मातरम्’ गीयते। विपक्ष-दलेन विरोधस्य अनिवर्तनात् विधानसभाध्यक्षेण सदनस्य कार्यविधि: एक-दिवसाय स्थगिता।
अस्मात् पूर्वं सत्र-प्रारम्भात् प्राक् विपक्षेण विधानसभायां विपक्ष-कक्षस्य बहिः विरोध-प्रदर्शनं कृतम्। भारतीय-जनता-पक्षस्य (भाजपा) नेता विधायकश्च रणधीरशर्मा न्यवेदयत् यत् वर्त्तमान-काङ्ग्रेस-सर्वकारस्य जन-विरोधि-नीतीनां विरुद्धम् एतत् प्रदर्शनं कृतम् अस्ति। भाजपा-विधायकाः हस्तेषु पट्टिकाः (तख्तियां) प्रसार-फलकानि (बैनर) च धृत्वा विधानसभा-परिसरे उद्घोषान् अकुर्वन्। विपक्षेण पञ्च-लक्ष-युवकेभ्यः वृत्ति-प्रदानस्य प्रतिज्ञा असत्या इति प्रतिपादिता। अपरपक्षे विपक्षनेता जयरामठाकुरः देहलीं प्रति प्रस्थितवान्।
