कनाडा-देशस्य प्रधानमंत्री मार्ककार्नी-महोदयस्य भारतयात्रा
कनाडा-देशस्य प्रधानमंत्री मार्ककार्नी अद्यारभ्य आरभ्य मार्च-मासस्य द्वितीय-दिनाङ्कं यावत् भारतस्य आधिकारिक-भ्रमणं करिष्यति। प्रधानमंत्री-कार्नी महोदयस्य एषा प्रथमा भारत-यात्रा अस्ति। विदेश-मन्त्रालयेन सूचितं यत् प्रधानमंत्री कार्नी मुम्बई-नगरं प्राप्स्यति। आगामिनि दिनद्वये सः विविधेेषु व्यावसायिक-कार्यक्रमेषु भागं ग्रहीष्यति। तत्र सः भारत-कनाडा देशयोः मुख्याधिकारिभिः (CEOs), उद्योग-वित्तीय-विशेषज्ञैः, नवप्रवर्तकैः, शिक्षाविद्भिः तथा च भारते स्थितानां कनाडाई-पेंशन-निधि-प्रतिनिधिभिः सह संवादं करिष्यति।प्रधानमंत्री कार्नी मार्च-मासस्य प्रथम-दिनाङ्के नवदेहलीं आगमिष्यति। परेद्युः सः प्रधानमंत्री-नरेन्द्रमोदिना सह ‘हैदराबाद-हाउस्’ इत्यत्र प्रतिनिधिमण्डल-स्तरीयं वार्तां करिष्यति। उभौ नेतारौ भारत-कनाडा-रणनीतिक-सहभागितायाः विविध-क्षेत्रेषु अधुना यावत् अभवत् प्रगतेः समीक्षां करिष्यतः। तौ व्यापार-निवेश-ऊर्जा-महत्त्वपूर्णखनिज-कृषि-शिक्षा-अनुसन्धान-नवाचारादिषु प्रमुख-स्तम्भेषु प्रचलतः सहयोगस्य अपि निरीक्षणं करिष्यतः। उभौ नेतारौ क्षेत्रीय-वैश्विक-घटनाक्रमेषु अपि विचार-विमर्शं करिष्यतः। तत्पश्चात् प्रधानमंत्री मोदी प्रधानमंत्री कार्नी च ‘भारत-कनाडा-सीईओ-फोरम’ (CEO Forum) इत्यत्र अपि सम्मिलितौ भविष्यतः।एतत् भ्रमणं भारत-कनाडा देशयोः द्विपक्षीय-सम्बन्ध-सुधारस्य दृष्ट्या अतीव महत्त्वपूर्णम् अस्ति। उभौ राष्ट्राध्यक्षौ पूर्वमेव एकाम् रचनात्मक-सन्तुलित-सहभागितां वर्धयितुं सहमतिं प्रकटितवन्तौ, या परस्पर-सम्मानम्, दृढ-लोकसम्बन्धम्, वर्धमान-आर्थिक-पूरकतां च आधारिकृत्य भविष्यति।
कनाडा-देशस्य प्रधानमंत्री मार्ककार्नी-महोदयस्य भारतयात्रा
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
