इज़राइल-संसदि प्रधानमंत्री-मोदिनं ‘स्पीकर ऑफ द नेसेट मेडल’ इति पुरस्कारेण सम्मानम्
भारत-इज़राइल देशयोः मध्ये रणनीतिक-सम्बन्धानां सुदृढीकरणे असाधारण-योगदानार्थं भारतस्य प्रधानमंत्री नरेन्द्रमोदी इज़राइल-देशस्य संसदि (नेसेट) सर्वोच्चसम्मानेन ‘स्पीकर मेडल’ इत्यनेन अलङ्कृतः। विश्वे अयं सम्मानः येन केनापि नेतृणा प्राप्तः, तादृशः प्रथमः नेता प्रधानमंत्री मोदी अस्ति। सम्बोधनान्ते इज़राइल-संसदः अध्यक्षः आमिर ओहाना महोदयः प्रधानमन्त्रिणे एतं पुरस्कारं समर्पितवान्।प्रधानमंत्री मोदी उक्तवान् यत् सः पूर्णविनम्रतया कृतज्ञतया च एतं पुरस्कारं स्वीकरोति। एकस्मिन् सामाजिक-माध्यम-सन्देशे (Social Media Post) श्रीमोदिना लिखितं यत् अयं सम्मानः केवलं कस्यचित् एकस्य व्यक्तुः नास्ति, अपितु भारत-इज़राइल देशयोः अक्षुण्ण-मैत्र्याः सम्मानः अस्ति। ‘नेसेट-सम्मानः’ रक्षा-तन्त्र-कृषि-नवाचार-आर्थिकसहयोगादिषु द्विपक्षीय-सम्बन्धेषु प्रधानमन्त्रिणः विशिष्टां भूमिकां प्रकटयति।केन्द्रीय-गृहमंत्री अमितशाहः अवदत् यत् प्रधानमन्त्रिणः एषः सम्मानः तस्य कुशल-राजनीतिज्ञतां दर्शयति। एषः पुरस्कारः परस्पर-सशक्तिकरणाय मानव-कल्याणाय च उभयोः देशयोः सम्पर्कं प्रोत्सहते। श्रीशाहः अपि उक्तवान् यत् अयं सम्मानः प्रत्येकस्य भारतीयस्य कृते गौरवस्य विषयः अस्ति। एतत् प्रधानमन्त्रिणः तस्याः दूरदृष्टेः निदर्शनम् अस्ति, या लोककल्याणार्थं राष्ट्राणां मध्ये सेतु-निर्माणं करोति।
इज़राइल-संसदि प्रधानमंत्री-मोदिनं ‘स्पीकर ऑफ द नेसेट मेडल’ इति पुरस्कारेण सम्मानम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
