संस्कृतभारत्या अखिलभारतीयशलाकपरीक्षा देहल्यां सम्पन्ना
प्राचीनभारतीय- ज्ञानपरम्परायामत्यन्तविशिष्टा पद्धतिः शलाकापरीक्षा- कुलगुरुः प्रो. शिवशङ्करमिश्रः
हिमसंस्कृतवार्ताः- डॉ. विजयकुमारः। संस्कृतपरम्परायाः गौरवस्य संरक्षणार्थं संवर्धनार्थञ्च शास्त्राणामध्ययनस्य च प्रोत्साहणाय संस्कृतभारती एवञ्च श्रीजयरामब्रह्मचर्याश्रमः, देहली इत्यनयोः संयुक्ततत्त्वावधानेन शास्त्रस्य सर्वोत्कृष्टा अखिलभारतीया शलाकापरीक्षा फरवरी-मासस्य द्वाविंशतिदिनांके श्रीजयरामब्रह्मचर्याश्रमे, देहल्यां समायोजिता। अस्यां राष्ट्रियस्तरीयप्रतियोगितायां देशस्य विभिन्नकोणे विद्यमानानां संस्कृतगुरुकुलानां, शैक्षणिकसंस्थानां च १४८ प्रतिभाशालिनः प्रतिभागिनः उत्साहेन भागं गृहीतवन्तः। अस्यां शालाकापरीक्षायां दश प्रतियोगितानाम् आयोजनं क्रियते, येषु व्याकरणविषये वैयाकरणसिद्धान्तकौमुदी, न्यायविषये न्यायसिद्धान्तमुक्तावली, वेदान्तविषये वेदान्तपरिभाषा, सांख्यदर्शने सांख्यतत्त्वकौमुदीसहिता सांख्यकारिका, साहित्ये काव्यप्रकाशः, ज्योतिषे सूर्यसिद्धान्तः, मीमांसायाम् अर्थसङ्ग्रहः, लघुसिद्धान्तकौमुदी, अमरकोषश्चैते विषयाः प्रतियोगितायां निर्धारिता आसन्। उपर्युक्तेषु विषयेषु समागतानां प्रतिभागिनां परीक्षणार्थं देशस्य विभिन्नप्रदेशेभ्यः स्वस्वशास्त्रे कृतभूरिश्रमाः विद्वांसः समाहूताः। एतेषां प्रख्यातविदुषां समक्षं छात्राः शास्त्रीयप्रश्नानां शीघ्रं, सटीकं, प्रामाणिकं च उत्तरं समुपस्थाप्य स्वस्य असाधारणप्रतिभां, कमप्यपूर्वां स्मृतिं, गहनाध्ययनं च प्रदर्शितवन्तः। परीक्षा त्रिषु चक्रेषु आयोज्यते। प्रथमचक्रे स्मृतिपरीक्षा (ग्रन्थः कण्ठस्थः अस्ति न वेति परीक्षा), तत्र उत्तीर्णः प्रतिभागी द्वितीयचक्रं प्रविशति। द्वितीयचक्रे शास्त्रपरीक्षा (शास्त्रस्य अर्थज्ञानम् अस्ति न वेति परीक्षा)। द्वितीयचक्रे उत्तीर्णः प्रतिभागी तृतीयचक्रे प्रवेष्टुम् अर्हति। तृतीयचक्रे विशिष्टपरीक्षा (शास्त्रस्य तात्पर्यादिज्ञानम् अस्ति न वेति परीक्षा)। तत्र प्रत्येकविषये प्रथमद्वितीयतृतीयस्थाने चितानां प्रतिभागिनां पुरस्कारराशिः प्रदीयते| प्रतिविषये प्रथमस्थानस्य कृते 20,000/ विंशतिसहस्त्रं, द्वितीयस्थानस्य कृते 15,000/ पञ्चदशसहस्त्रं, तृतीयस्थानस्य कृते 10,000/ दशसहस्त्रं धनं निर्धारितं वर्त्तते। प्रतिभागिनां परीक्षणानन्तरं सम्पूर्त्तिसमारोहे संस्कृतभारत्या अखिलभारतीयाध्यक्षः प्रो. रमेशकुमारपाण्डेय अवदत् यत्, “शलाकपरीक्षा न केवलं स्पर्धा, अपि तु अस्माकं गौरवपूर्णशास्त्रपरम्परायाः सजीवोत्सवः विद्यते। अयं कार्यक्रमः संस्कृतस्य संरक्षणे प्रचारे च आधारभित्तिः वर्तते।

शास्त्रसंरक्षणं पवित्रं कार्यमस्ति अत एव प्रत्येकस्य भारतीयस्य संस्कृतप्रेमिणश्च अवश्यं कर्त्तव्यम्। संस्कृतभारत्याः विद्वत्परिषदः अध्यक्षेण प्रो. गोपबन्धुमिश्रेण उक्तं यत् अस्याः स्पर्धायाः दिल्लीनगरे आयोजनम् अवश्यमेव गौरवस्य आनन्दस्य च विषयः अस्ति। अखिलभारतीय- श्लाकापरीक्षासंयोजकः महर्षिपाणिनि- संस्कृत- वैदिक- विश्वविद्यालयस्य कुलपतिः प्रो. शिवशंकरमिश्रः अवदत् यत् प्राचीनभारतीयशैक्षिकपरम्परायां शलाकापरीक्षा अद्वितीया प्रभावी च पद्धतिः विद्यते। अस्यां परीक्षायाम् आचार्यः ग्रन्थस्य कस्मिन्नपि पृष्ठे शलाकां (लघुदण्डं) स्थापयति, तस्मात् स्थानात् छात्रः ग्रन्थस्य अग्रिमं भागं श्रावयति। न केवलं पाठः, अपि तु तस्य अर्थः, व्याख्या, विस्तृतव्याख्यानञ्च अवश्यम् उपस्थापयति। एषा शलाकापरीक्षा पूर्णतया मौखिकरूपेण भवति, यत्र छात्रस्य स्मृतिः, तत्क्षणोत्तरदानक्षमता, शास्त्रीयज्ञानस्य गभीरता च परीक्षिता भवति। श्रीजयरामब्रह्मचर्य- आश्रमे विगतवर्षद्वयात् दिल्लीनगरे अस्याः शलाकापरीक्षायाः सफलतया आयोजनं जायमानं विद्यते। शलाकपरीक्षा पारम्परिकपरीक्षाव्यवस्था अस्ति, छात्रा एकवर्षपूर्वं निर्धारितानां संस्कृतग्रन्थानां व्यवस्थितरूपेण अध्ययनेन, निरन्तरस्वाध्यायेन च आचार्येभ्यः ज्ञानमवाप्नुवन्ति। संस्कृतभारत्या अखिलभारतीय- सङ्गठनमन्त्री जयप्रकाशगौतमः कथितवान् यत्, “संस्कृतभारत्या उद्देश्यं समाजे एतादृशं संस्कृतस्य वातावरणस्य निर्मातुं वर्तते यत् संस्कृतभाषा सामान्यभाषारूपेण स्थापिता भवेत्, येन विश्वसमुदायः भारतस्य वैभवेन प्रेरितो भवतु। संस्कृतशास्त्राणां संरक्षणेन, प्रसारणेन च समाजः सांस्कृतिकवैभवमधिगच्छन् भव्यभारतं निर्मातुं समर्थो भविष्यति। श्लाकापरीक्षायाः नियन्त्रकः प्रो. कृष्णकान्तशर्ममहोदयः स्वमतं प्रकटयन् अवदत्- “संस्कृतस्य संस्कृतेः च संरक्षणं शास्त्रस्य नियमितस्वाध्यायेन गुरुशिष्यपरम्परायाः सुदृढीकरणेन चैव सम्भवति। शास्त्रेषु निहितं ज्ञानं विज्ञानं परम्परां च यूनां बोधः स्यादिति अस्माकं दायित्वमस्ति। आगामिवर्षे मार्चमासे महर्षिपाणिनि- संस्कृत- वैदिक- विश्वविद्यालये उज्जयिन्याम् इयं शलाकापरीक्षा भविष्यदीति उद्घोषेण शान्तिमन्त्रपाठेन च स्पर्धेयं सम्पूर्णता अवाप्ता।
